Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
************************
www.bobatirth.org
पञ्चेन्द्रियात्मके । उत्पद्यते क्रमेणैष- लभते मानवीं गतिम् ॥ १६ ॥ लब्धेऽपि मानुष्यभवेऽशुभानां, संयोगतोऽलब्धशुभोपचारः । प्रयाति जीवः पुनरेव मूढः श्वश्रादिकां दुर्गतिमन्पपुण्यः ॥ २० ॥ दुरन्तविपदामासां निदानन्तु विषयकपाया एव निगद्यन्ते, तदासक्ता जीवा विवेकविकलाः कृत्याकृत्यंनविदन्ति, अतएव ते स्वहितंन साधयन्ति ममत्त्वाभिमानिनः
विषयोपगतं जीवं, ममश्वगणिका पटुः । वशीकृत्य यथाकामं, नर्त्तयत्यशुभान्वितम् ॥ १॥ ममन्वधीः सर्वविनाशहेतु-र्मममूलो भवसंभ्रम | नैवं पराधीनविमुग्धजीवो - जानाति दुर्दैवविलुप्तभावः ॥ २ ॥ विस्मृतस्वस्वरूपः स, सेवते बाह्यसम्प दम् | अज्ञातशुद्धदेवादि - स्वरूपस्तत्पराङ्मुखः ॥ ३ ॥ कुदेवादिरतः सत्यं देवादिं न स मन्यते । अज्ञानतिमिरान्धो हि सत्यासत्यं न पश्यति || ४ || पुनरपि तैजसकार्मण - शरीरनौकां समाश्रयञ्जीवः । भववारिनिधौ विषमे भ्रमयति तां भ्रान्तचेतसा नित्यम् ॥ ५ ॥ एवं परिभ्रमन्ती सा भवान्धौ क्षुभिताऽप्यलम् । अर्हन्मततटं नैव, लभते मोक्षदायकम् ॥ ६ ॥ एवं परिभ्रमन्भूयः शुभावाप्तिर्भवेद्यदा । तदा जीवः स्वहितक-त्सम्यक्त्वं लभते चिरात् ॥ ७ ॥ क्रमेण देशविरतिं, भजते व्रतकर्मणि । प्रत्याख्याने च तस्याशु, जायते रुचिरा रुचिः ॥ ८ ॥ पुरार्जितानि कर्माणि, विशीर्यन्ते शनैः शनैः । पालयन्तस्ततः श्राद्ध - व्रतानि द्वादशार्हताः || ६ || लभन्ते सर्वविरतिं, केचित्पुण्यानुसारिणः । ततश्चारित्रमादाय, पालयन्तोऽप्रमादिनः || १० || पञ्च प्राणान्समाराध्य, पूरकादिविधानतः । क्रमेणाष्टाङ्गेयोगं ते साधयन्ति प्रभाविनः ॥ ११ ॥ तारादृष्टि १ हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥ १ ॥
२ यम १ नियमाss २ सन, ३ प्राणायाम, ४ प्रत्याहार, धारणा, ६ ध्यान, ७ समाधयोड ८ ष्टावङ्गानि ।
For Private And Personal Use Only
Acharya Shri Kaassagarsun Gyanmandr
1030 ***+130-465.0 *++*०*०

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376