Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 328
________________ चतुर्थोबासे चंद्रराजचरित्रम् ॥ ॥१५७॥ सप्तमः सर्गः॥ द्वितीयवप्रस्य पूर्वस्मिन्द्वारे शस्ताभयहस्ता चन्द्राश्मद्युतिर्जया देवी तस्थौ, दक्षिणद्वारे पाशधारिणी पद्यमणिसंकाशमूर्तिर्विजया | देवी विराजतेस्म, पश्चिमे द्वारे साङ्कुशकरा कार्तस्वरनिभाऽजिता देवी तस्थौ, उत्तरस्मिन्द्वारे मुद्रपाणिरपराजिता देवी नीलकान्तिर्विरेजे । अन्तिमे वप्रे प्रतिद्वारं द्वाःस्थः खट्वाङ्गधरोमुण्डमाली जटामुकुटमण्डितस्तुम्बुरुस्तस्थिवान् । समवसरणस्य मध्यभागे चत्त्वारिंशदधिकशतद्वयधनुरुन्नतोऽशोकपादपोव्यन्तरामरैर्विहितो रत्नत्रयोदयं समादिशनिव विराजते । तस्याधस्तले विविधैरत्नस्तेऽमरा मनोरमपीठव्यधुः, तस्योपर्यप्रतिच्छन्दमणिमयंछन्दकं च चक्रिरे, तन्मध्ये पूर्वदिग्भागे सपादपीठं रत्नसिंहासनं स्वर्गश्रियांसारमिव विदधिरे । ततस्तस्योपरि तैः स्वामिनस्त्रिजगद्धर्तृत्वसूचक चिन्हत्रयमिवोच्चकैर्विशुद्धंछत्रत्रयं| विचक्रे, तद्यथा-छत्रत्रयं राजति रत्ननिर्मितं, त्रिलोकनाथस्य शशाङ्कसन्निभम् । लोकत्रयस्वामिमहर्द्धिसूचकं, विनिर्ममे मूर्तीि विमानवासिभिः ॥ १ ॥ ततोयचावुभौ प्रभोः पार्श्वभागस्थितौ चामरौ बीजयतः। लसद्धिसच्छेदसमानकान्ती, पार्श्वद्वये चश्चलचामरावुभौ । विरेजतुस्तीर्थपतेरमान्तौ, भक्तेर्भरौ चेतसि यक्षयोरिव ॥ १॥ ततः समवसरणद्वारे सुवर्णपद्मस्थितमत्यद्भूतप्रभाविलासंधर्मचक्रं विकुर्वन्तिस्म दिवौकसः । अन्यदपि यत्कार्यतदखिलं व्यन्तरामरा विचक्रिरे, साधारणे हि समवसरणे तेऽधिकारिणः । अथ चतुर्विधानां दिवौकसां कोटीभिः समन्वितः सपरिवारो भगवान्मुनिसुव्रतजिनेशः प्रभातसमये तत्र समवसर्नु प्रचक्रमे, तदानीं जगत्रयस्वामिनोऽग्रेसौवर्णानिसहस्रदलपङ्कजानि | नवानिप्रमुदितमानसा निर्जराविकुळ क्रमेणनिदधुः, तेषुच स्वामी द्वयोर्द्वयोः क्रमन्यासं विदधे, शेषाणि कमलानि प्रभोःपुरः सञ्चारयामासुरञ्जसा नाकिनः । जगत्पतिः पूर्वद्वारेण समवसरणं प्रविवेश, ततश्चैत्यवृवं त्रिः प्रदक्षिणयामास, भक्तभरौ चेतास या चामरौ बीजयतः कवयस्वामिमहद्विचा कर्विशः ॥१५७॥ For And Persone ly

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376