Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 365
________________ www.kobahrth.org Achanasha G तापादिगतं सुवर्ण, शुद्धि परामर्हति भूषणाय । तथोपसर्गादिरिपोविजेता, निजात्मशुद्धिं लभते प्रकामम् ॥ ३ ॥ यथा यथा | शान्तरसेन सिच्यते, प्रात्मक्षितिः स्निग्धतरा विजायते । तथा तथा शुद्धफलाथेदायिनी, सुवर्णवद् व्यक्ततया विराजते ॥४॥ यदात्मा शुद्धिसंपन्नो-जायते निर्मलक्रियः । तदेव सुलभा मोच-सम्पत्तिः सुकृतार्थिनाम् ॥५॥ ज्ञानादिगुणसद्भावे, नित्यानन्दो न दुर्लभः । अध्यात्मरसिका लोके, विमुखा लौकिकात्सुखात् ॥ ६॥ एवंप्रवत्तेमानश्चन्द्रमुनिःक्रमेण चपकश्रेणी समारुह्य निर्जितमोहराजप्रबलबलोनित्यंप्रमोदते, यतः-ज्ञानिना किमगम्यं स्याद् दुर्जयं किमु भूतले । आत्मवीर्यसमर्थाना, सामर्थ्य नैव पार्यते ॥१॥ ततोऽवशिष्टानि धनघातिकर्माणि विनाशयितुंस सजीवभूव, क्रमादेकादशे चिक्कणके गुणस्थाने वर्तमानाः केचिद्देहिनोनिपतन्ति, चन्द्रराजर्षिस्तु निजलाघवयोगेन तद्गुणस्थानमस्पृशन् द्वादशकंक्षीणमोहाभिधंगुणस्थानमेव समधिगम्य चत्वारि घातिकर्माणि सर्वथा क्षपयित्वा त्रयोदशं गुणस्थानमाश्रित्य केवलज्ञानं केवलदर्शनञ्च लेभे, आत्मज्ञानादिगुणावरोधका कार्यरूपा ये कर्मपुद्गलास्ते कारणतामवापुः । आत्मप्रदेशेभ्यः पृथग्भूत्वा कर्मपरमाणुतांप्राप्ता इतिभावः । ततः समासादितयथाख्यातचारित्रश्चन्द्रमुनिःकेवलज्ञानभास्करोदये जाते लोकाऽलोकप्रकाशकोजातः। यतः-ज्ञानाद्विदन्ति खलु | कृत्यमकृत्यजातं, ज्ञानाचरित्रममलं च समाचरन्ति । ज्ञानाच्च भव्यभविनः शिवमाप्नुवन्ति, ज्ञानं हि मूलमतुलं सकलश्रियां तत् ॥१॥ ज्ञानं स्यात्कुमतान्धकारतरणिानं जगल्लोचनं, ज्ञानं नीतितरङ्गिणीकुलगिरिज्ञानं कषायाऽपहम् । ज्ञानं निवृतिवश्य मन्त्रममलं ज्ञानं मनःपावनं, ज्ञानं स्वर्गगतिप्रयाणपटइं ज्ञानं निदानं श्रियः ॥ २॥ ज्ञानं कर्ममहीध्रभेदकुलिशं शंसन्ति * मोहापह, बानं भूषणमङ्गिनां वरधनं ज्ञानं जगद्दीपनम् । एतत्तत्त्वमतवमेतदखिलं ज्ञानेन विज्ञायते, लोकाऽलोकविलोकनैकपटवः For Private And Personale Only

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376