Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 336
________________ ShriMahavir JanArchanaKendra www.kobabirth.org Achana changanya ॥ चंद्रराज- चरित्रम् ॥ चतुर्थोडासे सप्तमा सर्गः॥ ॥१६॥ पतिवरणीय इतिनिश्चयस्ताभ्यांविहितः । मिथ्यात्वधर्मरतांतिलकमञ्जरीमजानन्त्या रूपमत्याऽयंस्नेहोविहितः, ततस्तद्वृत्तान्तंतया शनैःशनैर्विज्ञातम् । परन्त्वतिदचा सा तद्वृत्तान्तस्नेहभङ्गभयान प्रादुश्चकार, सचिवस्य गृहे तु साच्या प्रतिदिनमाहारादिकंसमानेतुं समायान्ति, गुरुभक्तिमती रूपमती वन्दित्वा सविनयंताम्योभक्तपानंवितीर्य कतिचित्पदानि तत्पृष्ठतोगत्वा पश्चात्स| मायाति, अर्थकदा तद्गृहगता तथाविधातद्भक्तिं विलोक्य जातरोषा तिलकमञ्जरी सचिवसुतांनिजान्तिके स्थापयित्वाऽवदत् । इमा आर्या महाधृष्टा-मलीनवसनासनाः । बकध्यानं प्रकुर्वन्त्यो-वञ्चयन्तीतराञ्जनान् ॥१॥ आसामदर्शनं श्रेष्ठं, संगतिः श्रेयसी न वै । धूर्तानां धर्महीनाना, प्रवेशोऽप्यशुभङ्करः ॥ २ ॥ चूर्णेन मन्त्रितेनैता-वञ्चयन्ति भवादृशीः । मृषा| वारिता लोके, क्लेशमुत्पादयन्ति च ॥ ३ ॥ लुण्टितं नगरश्चैतत् , वञ्चिताः काश्चनस्त्रियः । वशीकुर्वन्ति लोकांस्ताः, | सातप्रश्नपुरःसराः॥ ४ ॥ मूषकानां शतं हत्वा, मार्जारी पट्टसंस्थिता । तद्वदार्या इमा जाता-गार्हस्थ्यकृपणाशयाः ॥ ५ ॥ मिष्टभोज्यमभीप्सन्त्य-स्त्वामध्यापयितुं सदा । आगच्छन्ति निजख्याति, कालन्त्यो धर्मदम्भतः ॥ ६॥ कुलीनानामनोंडस्ति, तत्सङ्गोऽपि चणात्मकः । मिलन्ति ताश्चतस्रश्चेत् , कुर्वन्त्युद्वसितं जगत् ।। ७।। गृहीतपात्रकास्ताच, पर्यटन्त्यो गृहे गृहे। यथेच्छ भोजनं लब्ध्वा, तृप्तिमामन्वते स्वतः ॥ ८॥ बन्दसे तत्पदाम्भोज, पूज्यभावेन पालिके! । त्वामपि तयिष्यन्ति, नचेद्दत्सेऽनपानकम् ॥ ६ ॥ अतस्तासां संसर्ग निषेधयामि, मुण्डितशिरसः सर्वथाऽविश्वसनीयाः । तस्मादेवाहमपि तेभ्यो दूतस्तिष्ठामि ॥ इतिश्री चन्द्रराजचरित्रे चतुर्थोल्लासे सप्तमः सर्गः ॥७॥ ॥१६॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376