Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
चंद्रराज- चरित्रम् ।।
चतुर्थोऽधासे नवमः सर्गः॥
॥१६॥
प्रीणयतः । श्वश्रूश्चगृहमारक्षम वधूद्वयंविज्ञाय तयोनिहितगृहकर्मा स्वयंनिश्चिन्ता बभूव.
इतिश्री चन्द्रराजचरित्रे चतुर्थोल्लासेऽष्टमः सर्गः ॥ ८ ॥ ततस्तेऽपि यथाऽवसरंगृहकृत्यंनिष्पादयन्त्यो स्वस्वधर्मसाधयतः । कुलवधूनामयमेव सदाचारः । एवमुभे सख्यौ परस्परमानन्दमनुभवन्त्यावपि सतनं विवादव्यसनं न मुञ्चतः । धर्मवााविनोदे च विभिन्नमानसे विशेषतस्ते तिष्ठतः, यतःसञ्जातसपत्नीत्वेन तयोः कारणान्तरंसमायातम् । सपत्नीशूलयोर्मध्ये, वरं शूला न चेतरा । शूलया पीब्यते काले, दहत्याद्या पदे पदे ॥१॥ सुन्दराङ्गचावुभे भगिन्यावपि समानपतिके मिथोभूयांसंविद्वेषमावहतस्तर्हि अनयोःकिमुवक्तव्यम्-कस्मिंश्चिदपि वस्तुनि
युगपदभिलाषवतो.रबुद्धिर्जायते, यदेकञ्च वस्त्वेकस्मिन्समये द्वयोरुपभोगसाधनकथंभवेत् ? उत्पद्यमानः स क्लेशस्तयोःप्रति* वासरंवर्द्धत एव, यतः--सपत्नीत्वसमं दुःखं, जगत्यन्यन्त्र विद्यते । भगिनीति जनास्तस्मिन्-व्यवहारपरा मुधा । १॥ किञ्च
द्वे मार्य यस्य वर्तेते, तस्य जन्मैव निष्फलम् । वैषम्यभावनां दृष्ट्वा, कस्य द्वेषो न जायते ! ॥२॥ स्वप्नेऽपि सुखलेशोऽपि, द्विभार्यस्य भवेन हि । दुःखान्तो हि सुखाभासो-वेद्यते दीनताजुषा ।। ३ ॥ तथाहि--अर्धाङ्गे पार्वती विभ्र-गङ्गाश्च शिरसा दधत् । लोकेशोऽपि भवानीशः, परिभ्रमणमासदत् ॥ ४॥ शूरसेनकुमारस्तु, स्वकर्मकुशलः खियो । ताम्बूलानीव ताम्बूली,
समदृष्ट्या निरीक्षते ॥५॥ तथाऽपि वाताहततूलायुगलमिव सम्यगवेक्षमाणस्याऽपि तस्य न्यूनाधिकतानिरीक्षमाणेऽप्युभेभाहैं येनिजचित्ते समादधाते । इतोऽन्यदा द्वीपान्तरात्केनचिद्व्याधेन नीलाश्मद्युतिशिखांशिरसि च्छत्रमिव धारयन्ती, रक्तोत्पल
नयना, तप्ततपनीयसमचञ्चूपुटा, अन्तरान्तरेश्यामतरपक्षपर्वा मञ्जुलवाङमाधुर्येण सुधामवधीरयन्ती मजुलैका समासादिता।
॥१६॥
For Private And Persone
Only

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376