Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 373
________________ Shri Mahavir Jain Aradhana Kendra *********O***O* *O**»*••*O*•* •*•1•! www.kobatirth.org जग्रन्थेऽजितसागरोमुनिवरश्चित्रं चरित्रं मुदे, भव्यानां वर्षासु राजनगरे, कृत्वा स्थितिं चान्द्रकम् ॥ ३८ ॥ यथामति मयाऽऽरख्यातं, चन्द्रराजचरित्रकम् । पापपक्षनिर्खाशे, निर्मलामृतसन्निभम् ॥ ३९ ॥ एषोऽर्थो विविधक्रमेण मुनिभिर्गीतोऽस्ति सद्घोषये, मुग्धानां जनभाषया बहुविधोऽद्यापि प्रथीयान्भुवि । गीर्वाणो समवाग्विलासकरणं चैतन्मदीयं तथाऽप्यस्तु प्रीतिविघायकं शमरसं विद्वञ्जनानां सदा ॥ ४० ॥ केचिद्धीविकला वदन्ति किमिदं प्राचीनमेतत्स्थितं, सर्व सर्वजनप्रसिद्धमपरप्रख्यापने किं फलम् ? । जाड्यत्वं हि तदीयमुत्कटतरं संभाव्यते तेन वै प्रज्ञावान्यवते शुभार्थ विषये स्वाऽन्योपकारप्रियः ॥ ४१ ॥ तीर्थीभूतचरित्रमिष्टसुखदं श्रीचन्द्रराजीयकं, तीर्थाधीशचरित्रवद्गुरुगुणाम्भोजोष्णरश्मिप्रभम् । दुष्कर्मद्रुमराशिभञ्जनविधौ मत्तेमलीलां दध-मोक्ष श्रीत्रिदशेशशर्मविभवं दत्ते नराणां सदा ॥ ४२ ॥ तपत्ययं यावदनन्पतेजा - विभावसुर्लोकसुखैकहेतुः । शशाङ्कमूर्त्तिव विभाति ताव- चान्द्रं चरित्रं जयतात्पृथिव्याम् ||४३|| जयताज्जैनधर्मोऽयं, श्रीसंघस्यास्तु मङ्गलम् । वक्तृश्रोतॄजनानाश्च, मङ्गलानि भवन्तु वै ॥ ४४ ॥ इतिश्रीचन्द्रराजचरित्रं समाप्तम् ॥ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir [03-13-133******+000)

Loading...

Page Navigation
1 ... 371 372 373 374 375 376