SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ३३ जैनद्रव्यानुयोगः] वेदान्तग्रन्थौ। इष्टसिद्धिः । विमुक्तात्माचार्यः क्र. १४०(२) इयमपूर्णरूपा प्रथमाध्यायात् किञ्चिदधिकाऽत्र दृश्यते । बर्नलसूचिपत्रे (पृ.९५) सूचितोऽयं प्रन्थः । मधुसूदनेनाद्वैतसिद्धावस्य नाम गृहीतम् , आनन्दज्ञानेन चास्य वाक्यानि स्वतर्कसङ्ग्रह उद्धृतान्यवलोक्यन्तेऽतोऽस्य प्राचीनतेति स्पष्टम् । खण्डनखण्डखाद्यटीका ( शिष्यहितैषिणी) क्र. २२५ [P. P. ५।२९] विद्यासागरीव्याख्योपेतस्य मुद्वितखण्डनखण्डखाद्यस्य प्रस्तावनायां लक्ष्मणशास्त्रिणा शिष्यहितैषिण्याः कर्ता पद्मनाभः सूचितः, किन्त्वस्याः प्रान्त निरीक्षणेऽनुभवस्वरूपो व्यज्यते स चानुभूतिस्वरूपाचार्यः सम्भाव्यते । 'P. P. ५३०' इत्यत्र मुद्रितो 'व्योम्नीवान्वभव. स्वरूप-'इति पाठः सम्यग् न भाति । सर्वदर्शनसङ्ग्रहः । सर्वसिद्धान्तप्रवेशः क्र. २९३(३) षण्णामपि दर्शनानां स्वरूपप्रतिपादकोऽयं ग्रन्थो जिनेश्वरप्रणामरूपमङ्गालकरणाजैनाचार्यकृत इत्यनुमीयते । त्रयोदशशताब्द्युत्तरार्धलिखितपुस्तिकायामागतस्वादस्य रचना ततः पूर्वमिति स्फुटम् । जैनद्रव्यानुयोगः। ले. सं. १२२२ कम्मपयडीसंग्रहणीटीका क्र. २७७ इयं सुप्रसिद्धायाः शिवशर्मसूरिरचितायाः कर्मप्रकृतेश्चूर्णिः प्रतिभाति । कर्मप्रकृतिचूर्णिविशेषवृत्तिः क्र. १७८ कर्मप्रकृतिप्राभृतसङ्ग्रहणीचूर्णिपदविषयकटिप्पनकरूपेयं रचयितुर्नामविहीनात्र विलोक्यते; तथाप्यन्यत्र मुंनिचन्द्रसूरिकृतं टिप्पनं सूचितं तदेवैतत् सम्भाव्यते । अयं मुनिचन्द्रसूरिरनेकान्तजयपताकावृत्तिटिप्पनादेविधाता सं. ११७८ वर्षे स्वर्गभाग ज्ञायते (पृ. २५)। शंतकवृत्तिः । मलधारिहेमचन्द्रसूरिः क्र. २८४ [P. P. ४।१३०] २८६ क्रमाङ्के शतकचूर्णिनाम्ना दर्शिताऽपीयमेव वृत्तिः प्रतिभाति । २३२२ श्लोकमिता शतकचूर्णिस्तु साम्प्रतं मुद्रिता । शतकसूत्रकारः शिवशर्मसूरिरत्यन्तप्राचीनः । वृत्तिकारोऽयं द्वादशशताब्युत्तरार्धे सिद्धराजादिसस्कृत भासीदित्यन्यत्र (पृ. ३९) सूचितम् । ले. सं. १२११ सि(स)त्तरीटिप्पनम् । रामदेवगणिः क्र. ३१९ १ 'कर्मप्रकृतिचूर्णिटिप्पनकं मुनिचन्द्रीयम् १९२० ।-३० २ 'बृहच्छतकवृत्तिर्मलधारिहेमचन्द्रीया ३७४० ।-वृ० ३ 'सत्तरिटिप्पनकम् खरतररामदेवगणिकृतम् गाथा ५४७ ।'-वृ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy