Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ SALARAKAR रुष्टेन गजराजेन, वृक्षः कूपतटस्थितः । कम्पितो रभसाऽभ्येत्याऽसंयतेनेष संयमः ॥४७॥ चलिताः सर्वतस्तस्मिँश्चलिते मधुमक्षिकाः। विविधा मधुजालस्था, वेदना इव दुस्सहाः॥४८॥ मक्षिकाभिरसौ ताभिर्मर्मभिद्भिः समन्ततः । ऊर्ध्व विलोकयामास, दस्यमानो महाव्यथः ॥ ४९ ॥ ऊर्वीकृतमुखस्यास्य, वीक्ष्यमाणस्य पादपम् । दीनस्यौष्ठतले सूक्ष्मः, पतितो मधुनः कणः॥५०॥ श्वभ्रवाधाधिका बाधामवमत्य स दुर्मनाः । खादमानो महासौख्यं, मन्यते मधुविग्रुषः॥५१ ।। एवंविधस्य पान्थस्य, यादृशे स्तः सुखासुखे । जीवस्य तादृशे ज्ञेये, संसारे व्यसनाऽऽकरे ॥५२॥ भिल्लवम मतं पापं, शरीरी पथिको मतः । हस्ती मृत्युस्तरुस्तम्बो, जीवितं कूपको भवः ॥ ५३॥ नरकोऽजगरः पक्षौ, मूषकावसितेतरौ । कषायाः पन्नगाः प्रोक्ता, व्याधयो मधुमक्षिकाः॥५४ ॥ मधुसूक्ष्मकणाखादो, भोगसौख्यमुदाहृतम् । विभागमिति जानीहि, संसारे सुखदुःखयोः ॥ ५५॥ भवे बम्भ्रम्यमाणानामन्तरं सुखदुःखयोः । जायते तत्त्वतो नूनं, मेरुसर्षपयोरिव ॥५६॥ दुःखं मेरूपमं सौख्यं, संसारे सर्षपोषमम् । यतस्ततः सदा कार्यः, संसारत्यजनोद्यमः ॥ ५५ ॥ येऽणुमात्रसुखस्यार्थे, कुर्वते मोगसेवनम् । ते शङ्के शीतनाशाय, भजन्ति कुलिशानलम् ॥५६॥ दुःखदं सुखदं वस्तु, मन्यन्ते विषयाकुलाः । धत्तूरभक्षकाः किं न, सर्व पश्यन्ति काञ्चनम् ॥ ५९॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 124