Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 76
________________ परीक्षा. एते नष्टा यतो दोषा, भानोरिव तमश्चयाः। स खामी सर्वदेवानी, पापनिईलनक्षमः ॥ ९१८ ॥ अक्षणो यजलखान्तर्वीज निक्षिप्त (क्षेप) मासवान् । बभूव बुहुदस्तस्मात्तस्माच जगदण्डकम् ॥९१९ ॥ तत्र द्वेधा कृते जाता, जगत्रयव्यवस्थितिः । यद्येवमागमे प्रोक्तं, तदा तत् क स्थितं जलम् १॥ ९२०॥ निम्नगापर्वतक्षोणीवृक्षाधुत्पत्तिकारणम् । समस्तकारणाभावे, लभ्यते क्व विहायसि ? ॥ ९२१ एकखापि शरीरस्य, कारणं यत्र दुर्लभम् । त्रिलोककारणं मूर्त, द्रव्यं तत्र क लभ्यते ? ॥ ९२२॥ कथं विधीयते सृष्टि-रशरीरेण वेधसा? । विधानेनाऽशरीरेण, शरीरं क्रियते कथम् १॥९२३॥ विधाय भुवनं सर्व, खयं नाशयतो विधेः । लोकहत्या महापापा, भवन्ती केन वार्यते ॥९२४ ॥ कृतकृत्यस्य शुद्धस्य, नित्यस्य परमात्मनः। अमूर्तस्याखिलजस्य, किं लोककरणे फलम् ? ॥ ९२५ ॥ विनाश्य करणीयस्य, क्रियते किं विनाशनम् ? । कृत्वा विनाशनीयस्य, जगतः करणेन किम् ? ॥९२६ ॥ पूर्वापरविरुद्धानि, पुराणान्यखिलानि वः। श्रद्धेयं तत् कथं विप्रा!, न्यायनिष्ठमनीषिभिः!॥ ९२७ ॥ इत्युक्त्वा खेचरः पृष्ट्वा, क्षितिदेवाननुत्तरान् । निर्गत्योपवनं गत्वा, खमित्रं न्यगदीदिति ॥ ९२८ ॥ श्रुतो देवविशेषो यः, पुराणार्थश्च यस्त्वया । न विचारयतां तत्र, घटते किञ्चन स्फुटम् ॥ ९२९ ॥ नारायणश्चतुर्बाहु-विरश्चिश्चतुराननः । त्रिनेत्रः पार्वतीनाथः, केनेदं प्रतिपद्यते ॥ ९३० ॥

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124