Page #1
--------------------------------------------------------------------------
________________
श्रेष्ठि- देवचन्द्र लालभाई - जैनपुस्तकोद्धारे - प्रन्थाङ्क: २५
श्रीमद्धर्मसागरो पाध्यायशिष्य ( विमलसागरान्तेवासि ) पण्डितपद्मसागरगणिविनिर्मिता -
श्रीधर्मपरीक्षाकथा.
विख्यातिकारकः— शाह नगीनभाई घेला भाई - जव्हेरी, अस्यैकः कार्यवाहकः ।
दं पुस्तकं मुम्बय्यां शाह नगीनभाई घेलाभाई जव्हेरी बाजार इत्यनेन निर्णयसागरनामके यन्त्रालये कोलभाटवी २३ तमे गृहे रामभाऊ वायू. सेंडगेद्वारा मुद्रयित्वा प्रकाशिता ।
प्रति ५००.
अस्याः पुर्नमुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागार कार्यवाहकाणामायत्ताः स्थापिताः । | All rights reserved.] मुम्बापुर्याम्. वीरसंवत् २४३९. विक्रमसंवत् १९६९. क्राइस्य १९१३. मूल्यमानाः ५
२००५
Page #2
--------------------------------------------------------------------------
________________
Dharma Pariksha. katha.
॥ १ ॥
Sheth Devchand Lalbhai Jain Pustakoddhár Fund Series. No. 15.
PREFACE.
This little work entitled "Dharma Parikshâkatha "which is the 15th issue of our series, is written by one Shree Padma Sagar Gani of Tapa Gachchha order in Sagar branch." This work bears the year 1645 of Vikrama Year. The object of this work is to make comparison between religious, strange anecdotes. There seems to be nothing mory note-worthy of this author than that there are works by him which are:
(1) Uttaradhyayan Katha.
(2) Yukti Prakasha (gf.) (3) Naya Prakasha.
325, JAVERI BAZAR.
BOMBAY April 1913
44
(4) Shil Prakasha
(5) Sthuli Bhadra Charitra
Our thanks are due to Paniash Shree Anand Sagar Gam for supplying us the manuscript and also for correcting proof-sheets
NAGINBHAI GHELABHAI JAVERI A trustee for himself and Co-trustees.
Preface
॥ १ ॥
Page #3
--------------------------------------------------------------------------
________________
प्रस्तावना धर्मपरीक्षायाः ॥
श्रीमद्गौतम गणधरेन्द्रोपासितपार्श्वा विजयन्ते श्रीवीरपादाः ॥
साधयन्तु सिद्धिसाधन निबन्धनधृतिधौरेया धीमन्तः पारगतगदितागमाम्बरविचरणावाप्तवैनतेयपतिविख्यातयः प्रस्तुते श्रीमत्सागरशाखाविधातृविहित पद्मबन्धूयमान पद्मसागरगण्युहोधिते धर्मपरीक्षापद्माकरे केलिमनघां खान्यासाधारणधर्मधारणाधैर्यप्रदां वसतिरत्र क्षीरोदतनयाया इव पद्मे भवभ्रान्तिदारिद्यदारणदृव्धारम्भाया विश्रम्भविधाननदीष्णाया निष्णातत्वनिबन्धनाया यथार्थविश्वाधीश व्याहृताव्याहतवामयज्ञत्याचरणमूलायास्तत्त्वार्थपारमार्थिकाध्यवसायनिश्चितिरूपायाः श्रद्धानलक्ष्म्या उज्झितगृह कुटुम्ब देहममत्वानां महात्मनामपि स्पृहणीयायाः, प्रवचनस्य च स्याद्भूतिः श्रद्वायाश्चेत्तदाविर्भावकविषयभावुकभावान्वितं बोभूयेत चेतश्चतुरचक्रस्य, स्वरूपं च परमेश्वरस्य प्रत्यपीपदन् परमपूज्याः श्रीमद्धरिभद्राद्या लोकनिर्णयननिपुणलोकतत्त्वनिर्णयाद्येषु यथायथं युक्तत्युद्भावनादिना, श्रीमद्भिः पूज्यपादैरपि प्रकृते तदेव निर्व्यूढं, नच चर्वितचर्वणता, पुराणादीनां पराभिमतानां यदभिमतं वृत्तान्तं खभियुक्तदृब्धानां तस्य परमेश्वरखरूपस्यैवात्र प्रतिपिपादिषितत्वात् प्रतिपादनमपि नात्र केवलं तदीयागमतदर्थमात्रादेशनेन, किन्तु ! प्रथमं तत्प्रतिनिधिमर्थं प्रतिपाद्यानिष्टतमत्त्वमश्रद्धेयतयोररीकार्य पश्चात्तदभिमतत्वं प्रदर्श्य परमं निग्रहस्थानमानीय समीचीनाप्ताभ्युपगत्युपगमेन वादिनां ततश्चेदमतीवाख्यायकं स्वरूपस्य नाट्यमिवानर्हदेवतानां कर्मवृक्षमूलकषणक
Page #4
--------------------------------------------------------------------------
________________
प्रस्ताव..
॥२॥
रीन्द्राणां श्रीमतां जिनेश्वराणामपि, आवश्यकमेव पुराणप्रचुरे काले तदभिमतदेवताविशेषाणां तदितरेषां च स्वरूपाख्यानं, ग्रन्थविधानविशेषफलमप्येतदेव, एवं च देवपरीक्षायां प्रवणत्वेपि ग्रन्थस्याधिकृतस्य धर्मार्थमेव तस्याः चेक्रियमाणत्वात्तत्प्रणीतस्य धर्मस्यापि परीक्षा संपनीपद्यत एवानायासमिति नायुक्ताभिधास्य "धर्मपरीक्षा" इति । मित्रस्यात्महितविधिपद्मप्रबोधपद्महस्तस्याव्ययपदाप्तिहेतुमाप्तोदिताविरुद्धवृषावगति ज्ञापितुं यदनुष्ठितं पवनवेगस्य मनोवेगेनासाधारणोपकृतये दिनानामष्टकेन तद्ब्धमत्र तत्रभवद्भिः शुभवद्भव्यवृन्दविज्ञानाय । ग्रन्थविरचनचतुरा ग्रन्थकृतः तपोगणकल्पद्रुमावनवृतिकल्पप्रभुश्रीमद्धर्मसागरोपाध्याय चरणान्तवासितावाप्ताव्याहतविज्ञानततयः खोपज्ञवृत्तियुक्तान् नयप्रकाशादीननन्यसाधारणारम्भानुभावयामासुः, श्रीमन्महोपाध्यायकालस्य च विदिततमत्वान्न तत्रायास आरब्धः । यद्यपि नोपलब्धिपथमायाता विहाय द्विवान्प्रभुप्रणीतान्ग्रन्थान् परे ग्रन्था वस्तुरत्नरत्नाकरास्तथाप्यवलोकनेनैतेषां प्रभुपादानामतितमानुमीयते एव शेमुषी सिद्धान्ततर्कलक्षणादिगोचरा, अत एव निर्वसनामितगतिसूर्याततायाः विविधच्छन्दोमय्या अस्या अनुष्टुप्छन्दोभिर्विधाने नोनता, समानविषये च समानतन्त्ररचनायाः प्रकारान्तरेण विधानं तादृशो वावस्थापनं समानतन्त्रविदृब्धशास्त्रच्छायाविधानादिवन्न दोषायेति ध्येयं धीमद्भिः, बालबोधादिसमप्रयोजनत्वात् तथाविधानं गुणकृदिति निर्धारितं श्रीमद्भिरभविप्यदिति तथाप्रवृत्तिमादधुधृतधिषणाधौरेयाः इत्यनुमिमीमहे उदन्वदन्ता आनन्दाः । मुद्रणादिवृत्तान्तस्तु मुद्रितपूर्वोऽनेकश इति न तत्रायासः ।।
BASAHAHARA
॥२
॥
नन्देरसाङ्क निशाधिप-(१९६९) मितेऽसिते माघमासि शरदि दले । श्रीकर्या श्रीपार्श्वप्रभाववत्यां तताऽनन्दात् ॥१॥
Page #5
--------------------------------------------------------------------------
________________
EKARAN
श्रेष्ठि-देवचन्दलालभाई-जैनपुस्तकोद्धार-प्रन्थाङ्के। पण्डितपद्मसागरगणिविनिर्मिता।
॥धर्मपरीक्षा॥
श्रीगुरुभ्यो नमः । नमः श्रीसरखतीभगवत्यै । यदीयज्ञानदीपेन, द्योतितं विश्वमन्दिरम् । स वः पायाजिनाधीशः, पार्थः प्रत्यूहनाशनः ॥१॥ प्रसन्नोऽस्तु गुरुः सूर्यः, स येन जगदम्बुजम् । प्रबोधितं पुनर्याति, न निद्रामद्भुतं हि तत् ॥२॥. यस्याः प्रसादतः शास्त्रार्णवपारं जडा अपि । व्रजन्ति तां त्रिधा शुद्ध्या, ध्यायामि श्रीसरखतीम् ॥३॥ गणेशनिर्मितां धर्मपरीक्षां कर्तुमिच्छति । मादृशोऽपि जनस्तन्न, चित्रं तत्कुलसम्भवात् ॥४॥ यस्तरुर्भज्यते हस्तिवरेण स कथं पुनः । कलभेनेति नाशवं, तत्कुलीनत्वशक्तितः ॥५॥ चके श्रीमत्प्रवचनपरीक्षा धर्मासागरैः । वाचकेन्द्रस्वतस्तेषां, शिष्येणैषा विधीयते ॥ ६ ॥ तथाहि-जम्बूद्वीपः स्फुरद्रतः, सुवृत्तश्चक्रवर्त्तिवत् । अनेकद्वीपभूपाल-सेवितः सिद्धपद्धतिः ॥७॥
AAKASA
Page #6
--------------------------------------------------------------------------
________________
धर्म
॥ १ ॥
तत्रास्ति भारतं क्षेत्रं, पवित्रं जिनजन्मभिः । आरोपितज्यं यश्चापं, श्रिया जयति दीप्रया ॥ ८ ॥ वैताढ्यः पर्व्वतस्तत्र, ध्वस्तध्वान्तः प्रभाभरैः । पूर्वापराम्भोधितटावगाही योऽस्ति शेषवत् ॥ ९ ॥ इहाभूतां खगैः सेव्ये, श्रेण्यावुत्तरदक्षिणे । मदरेखे गजेन्द्रस्य, षट्पदैरुद्भटैरिव ॥ १० ॥ तत्रोत्तरस्यां पष्टि नगराणि खचारिणाम् । पञ्चाशतं दक्षिणस्यां विदुः सिद्धान्तवेदिनः ॥ ११ ॥ तत्र श्रेण्यां दक्षिणस्यां वैजयन्त्यभवत्पुरी । जयन्ती खः पुरीं गेहैर्विमानाधिकदीसिभिः ॥ १२ ॥ नभञ्चरपतिस्तत्र, जितशत्रुरभृद्गुणी । स्वधामतर्जितारातिः, खः पुर्यामिव वासवः ॥ १३ ॥ वायुवेगा प्रिया तस्य, स्मरवायुप्रवर्धिनी । जिनेन्द्रमतनिष्णाताऽजनि विद्यघसाधिका ॥ १४ ॥ रममाणस्तया सार्धं शच्येव सुरनायकः । जितशत्रुः सुखैः (खं) कालं, निनायेप्सितलाभतः ॥ १५ ॥ निषेव्यमाणा सा तेन, सुन्दरी जितशत्रुणा । असूत तनयं नाम्ना, मनोवेगं महोदयम् ॥ १६ ॥ दिने दिनेऽसौ ववृधे, भानुमानिव दीप्तिमान् । समं गुणैः कलाभ्यासी, शुद्धवृत्तधरः स्थिरः ॥ १७ ॥ विद्याः समग्रा जग्राह विद्याधरकुलोचिताः । चतुर्बुद्धिनिधिर्लक्ष्मी - निवासः स्थितिमानसौ ॥ १८ ॥ मुनिसेवापरो जैन - वाक्यपीयूषपानकृत् । धर्म्मरागी स वालोऽपि बभूव परमार्हतः ॥ १९ ॥ क्षायिकं सम्यक्त्वरत्नं, स बभार विशुद्धधीः । वशीकर्तुं सिद्धिवधूमनघाव्ययसौख्यदाम् ॥ २० ॥
परीक्षा.
॥ १ ॥
Page #7
--------------------------------------------------------------------------
________________
*
*
*
मनोवेगस्य तस्याऽऽसीत् , प्रियापुरीपतेः सुतः । पवनवेग इत्याख्यः, सुहृदत्यन्तवल्लभः ॥ २१॥ स्थातुमन्योऽन्यमुन्मुच्य, क्षणमेकं न तो क्षमौ । दिनार्काविव विख्यातौ, तावभूतां प्रतापिनी ॥ २२ ॥ मिथ्यात्वमूढःपवनवेगोऽभूदैवयोगतः । कुयुक्तिहेतुदृष्टान्तवादी तत्त्वपथोज्झितः ॥ २३ ॥ मिथ्यात्वयुक्तं तन्मित्रं, जिनधर्मपराङ्मुखम् । दृष्ट्वा तताप शोकेन, मनोवेगः पवित्रधीः ॥ २४ ॥ निवारयामि मिथ्या(मित्रत्वात् , पतन्तं दुर्गतावमुम् । प्राहुस्तं सुहृदं प्राज्ञा, धर्मे योजयते हि यः॥ २५ ॥ मिथ्यात्वत्यागतो धर्मे, योजनीयः कथं मया । एप इत्याप चिन्तातो, नैव निद्रां मनोजवः ॥ २६ ॥ *मनोवेगो वन्दमानो, जिनेन्द्रायतनानि सः । भ्रमति स्म यदालस्यभाजो धर्मे न सजनाः ॥ २७ ॥ नत्वा जिनेन्द्रबिम्बानि, कदाचित् प्रतिगच्छतः । मनोवेगस्य स्खलितं, विमानं व्योनि सत्वरम् ॥ २८ ॥ वैरिणा स्खलितं मे किं, विमानं वा तपखिना? । दध्याविति मनोवेगो, व्याकुलो वीक्ष्य निश्चलम् ॥२९॥ ज्ञातुमिच्छुस्तत स्खलनाहेतुं पश्यन्महीमधः । ददर्श मालवं देशं, प्रामाकरपुराचितम् ॥ ३०॥ तस्यालुलोके मध्यस्थामुजयिनी महापुरीम् । भूमिं द्रष्टुं समायातां, पुरन्दरपुरीमिव ॥ ३१॥ तस्या उत्तरदिग्भागे, महोद्यानं सदाफलैः । वृक्षः प्रीणितपान्योघं, चकास्ति जितनन्दनम् ॥ ३२॥ तत्रालोक्य मुनि देवव्योमचारिनरार्चितम् । मुदं प्राप मनोवेगः, केवलज्ञानभास्करम् ॥ ३३ ॥
*****
*
*
*
*
*
*
Page #8
--------------------------------------------------------------------------
________________
धर्म
॥२॥
-50496496+
ततो व्योम्नोऽवतीर्यासी, मुनिपादार्थनोत्सुकः । विवेश नाकी भवनं, विसार्याभरणद्युतिः ॥ ३४ ॥ सेव्यमानं सुरैर्मूर्धन्यस्तहस्तैर्नरैरपि । मुनिं नत्वा सभायां स निविष्टस्तुष्टमानसः ॥ ३५ ॥ सभायामथ तत्रैको, भव्यः पप्रच्छ भक्तितः । नत्वा तं मुनिपं जातलोकालोकविनिश्चयम् ॥ ३६ ॥ भगवन्नत्र संसारे, निःसारे सरदङ्गिनाम् । कियत्सुखं कियदुःखं ?, कथ्यतां मे प्रसादतः ॥ ३७ ॥ ततोऽवादीद्यतिर्भद्र !, श्रूयतां कथयामि ते । विभागो दुःशकः कर्तुं, संसारे सुखदुःखयोः ॥ ३८ ॥ मया निदर्शनं दत्वा, किञ्चित्तदपि कथ्यते । न हि बोधयितुं शक्यास्तद्विना मन्दमेधसः ॥ ३९ ॥ अनन्तसत्त्वकीर्णायां, संसृत्यामिव पान्थकः । दीर्घायां कश्चनादव्यां प्रविष्टो दैवयोगतः ॥ ४० ॥ ऊर्ध्वकृतकरं रौद्रं, कृतान्तमिव कुञ्जरम् । क्रुद्धं संमुखमायान्तं तत्रापश्यद् द्रुमच्छिदम् ॥ ४१ ॥ त्रस्तोऽतोऽग्रीकृतस्तेन, पथिको भिल्लवर्त्मना । अदृष्टपूर्विके कूपे, धावमानः पपात सः ॥ ४२ ॥ तरुस्तम्बं पतंस्तत्र, त्रस्तधीः स व्यवस्थितः । भव्यो धम्र्ममिवालम्ब्य, दुर्गमे नरकालये ॥ ४३ ॥ अधस्तात् सिन्धुरस्तो, यावदेष विलोकते । तावद्ददर्शाजगरं, यमदण्डमिव्रोत्कटम् ॥ ४४ ॥ आभ्यां शुक्लकृष्णाभ्यां पश्यति स्म स सर्वतः । खन्यमानं तरुस्तम्वं, पक्षाभ्यामिव जीवितम् ॥ ४५ ॥ उरगांश्चतुरस्तत्र, दिक्चतुष्टयवर्त्तिनः । ददर्शाऽऽगच्छतो दीर्घान् कषायानिव भीषणान् ॥ ४६ ॥
*
क
परीक्षा.
॥२॥
Page #9
--------------------------------------------------------------------------
________________
SALARAKAR
रुष्टेन गजराजेन, वृक्षः कूपतटस्थितः । कम्पितो रभसाऽभ्येत्याऽसंयतेनेष संयमः ॥४७॥ चलिताः सर्वतस्तस्मिँश्चलिते मधुमक्षिकाः। विविधा मधुजालस्था, वेदना इव दुस्सहाः॥४८॥ मक्षिकाभिरसौ ताभिर्मर्मभिद्भिः समन्ततः । ऊर्ध्व विलोकयामास, दस्यमानो महाव्यथः ॥ ४९ ॥ ऊर्वीकृतमुखस्यास्य, वीक्ष्यमाणस्य पादपम् । दीनस्यौष्ठतले सूक्ष्मः, पतितो मधुनः कणः॥५०॥ श्वभ्रवाधाधिका बाधामवमत्य स दुर्मनाः । खादमानो महासौख्यं, मन्यते मधुविग्रुषः॥५१ ।। एवंविधस्य पान्थस्य, यादृशे स्तः सुखासुखे । जीवस्य तादृशे ज्ञेये, संसारे व्यसनाऽऽकरे ॥५२॥ भिल्लवम मतं पापं, शरीरी पथिको मतः । हस्ती मृत्युस्तरुस्तम्बो, जीवितं कूपको भवः ॥ ५३॥ नरकोऽजगरः पक्षौ, मूषकावसितेतरौ । कषायाः पन्नगाः प्रोक्ता, व्याधयो मधुमक्षिकाः॥५४ ॥ मधुसूक्ष्मकणाखादो, भोगसौख्यमुदाहृतम् । विभागमिति जानीहि, संसारे सुखदुःखयोः ॥ ५५॥ भवे बम्भ्रम्यमाणानामन्तरं सुखदुःखयोः । जायते तत्त्वतो नूनं, मेरुसर्षपयोरिव ॥५६॥ दुःखं मेरूपमं सौख्यं, संसारे सर्षपोषमम् । यतस्ततः सदा कार्यः, संसारत्यजनोद्यमः ॥ ५५ ॥ येऽणुमात्रसुखस्यार्थे, कुर्वते मोगसेवनम् । ते शङ्के शीतनाशाय, भजन्ति कुलिशानलम् ॥५६॥ दुःखदं सुखदं वस्तु, मन्यन्ते विषयाकुलाः । धत्तूरभक्षकाः किं न, सर्व पश्यन्ति काञ्चनम् ॥ ५९॥
Page #10
--------------------------------------------------------------------------
________________
धर्म
॥ ३॥
संपन्नं धर्म्मतः सौख्यं निषेव्यं धर्म्मरक्षया । वृक्षतो हि फलं जातं, भक्ष्यते वृक्षरक्षया ॥ ६० ॥ पश्यन्तः पापतो दुःखं, पापं मुञ्चन्ति सज्जनाः । जानन्तो वहितो दुःखं, वह्नौ हि प्रविशन्ति के ॥ ६१ ॥ सुन्दराः सुभगाः सौम्याः, कुलीनाः शीलशालिनः । भवन्ति धर्म्मतो दक्षाः, शशाङ्कयशसः स्थिराः ॥ ६२ ॥ विरूपा दुर्भगा द्वेष्या, दुष्कुला शीलनाशिनः । जायन्ते पापतो मूढा, दुर्यशोभागिनश्चलाः ॥ ६३ ॥ व्रजन्ति सिन्धुरारूढा, धर्म्मतो जनपूजिताः । धावन्ति पुरतस्तेषां पापतो जननिन्दिताः ॥ ६४ ॥ धार्मिकाः कान्तयाऽऽश्लिष्टाः, शेरते मणिमन्दिरे । पापिनो रक्षणं तेषां कुर्वते शस्त्रपाणयः ॥ ६५ ॥ भुते मिष्टमाहारं, सौवर्णाऽमत्रसंस्थितम् । धार्मिकाः पापिनस्तेषामुत्सृष्टं भषणा इव ॥ ६६ ॥ चक्रिणस्तीर्थकर्त्तारः, केशवाः प्रतिकेशवाः । सर्वे धर्मेण जायन्ते, कीर्त्तिव्यासजगत्रयाः ॥ ६७ ॥ वामनाः यामनाः खञ्जा, रोमशाः किङ्कराः शठाः । जायन्ते पापतो नीचाः सर्व्वलोकविनिन्दिताः ॥ ६८ ॥ प्रशस्तं धर्म्मतः सर्वमप्रशस्तमधर्मतः । विख्यातमिति सर्वत्र, वालिशैरपि बुध्यते ॥ ६९ ॥ प्रत्यक्षमिति विज्ञाय, धर्माधर्म्मफलं बुधाः । अधर्म्यं सर्वथा मुक्त्वा, धर्मं कुर्वन्ति सर्वदा ॥ ७० ॥ योगिनो वचसा तेन, प्रीणिता निखिला सभा । पर्जन्यस्येव तोयेन, मेदिनी तापनोदिता ॥ ७१ ॥ कृत्वैवं देशनां योगी, जितशत्रुस्तं विदन् । तं जगादेति सद्धर्म्मपक्षपातविचक्षणः ॥ ७२ ॥
I
परीक्षा.
॥ ३ ॥
Page #11
--------------------------------------------------------------------------
________________
पितुस्ते कुशलं भद्र !, परिवारगणस्य च ? । साधूक्तमेवमाकर्ण्य, मनोवेग इदं जगौ ॥ ७३ ॥ पादास्ते यस्य कुर्वन्ति, रक्षां तस्य नरेशितुः । विघ्नाः कथं ? वैनतेयरक्षितस्याहिपीडनम् ॥ ७४ ॥ उक्त्वेति राजसूः साधु, पप्रच्छेति कृताञ्जलिः । सुहृन्मे भगवद्धर्मे, समेष्यति कुधीः कदा ? ॥ ७५ ॥ मिध्यात्वे वर्त्तमानः स चिन्तां दत्ते ममोच्चले । सख्यं शुद्धदृशां शुद्धदृष्टिभिः सह सौख्यकृत् ॥ ७६ ॥ पृति विरते भूपपुत्रे योगीश्वरोऽवदत् । एष त्यक्ष्यति मिध्यात्वं, पाटलीपुत्रपत्तने ॥ ७७ ॥ बोध्यमानस्त्वया तत्र, नीत्वा सद्युक्तिहेतुभिः । प्राप्स्यति ज्ञानजं तेजो, मिध्यात्वध्वान्तनाशनात् ॥ ७८ ॥ प्रत्यक्षमन्यतीर्थीयमतान्येव विलोकयन् । विरक्तात्मा ततो जैनधर्मास्थां स करिष्यति ॥ ७९ ॥ श्रुतेषु जैनवाक्येषु, याति मिध्यात्ववाग्भ्रमः । भानोः करेषु दीप्रेषु, ग्रहतेजः कियद् भवेत् ॥ ८० ॥ निशम्येति वचः साधोर्मनोवेगः क्रमाम्बुजम् । प्रणम्य खपुरे गन्तुं, विमानस्थश्चचाल सः ॥ ८१ ॥ अथ यावन्मनोवेगो, याति खां नगरीं प्रति । दिव्यं विमानमारूढो, नाकीव स्फुरितप्रभम् ॥ ८२ ॥ विमानवर्त्तिना तावत्, सुरेणेव सुरोत्तमः । दृष्टः पवनवेगेन, स सम्मुखमुपेयुषा ॥ ८३ ॥ स दृष्टो गदितस्तेन, क्व स्थितस्त्वं मया विना । इयन्तं कालमाचक्ष्व नयेनेव स्मरातुरः ॥ ८४ ॥ यो न त्वया विना शक्तः, स्थातुमेकमपि क्षणम् । दिवसो भास्करेणेव स तिष्ठामि कथं चिरम् ? ॥ ८५ ॥
Page #12
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
॥४॥
ASSAIGRIRANOMAISHA
मया त्वं यत्नतो मित्र!, सर्वत्रापि गवेषितः । धर्मों निर्वाणकारीव, शुद्धः सम्यक्त्वशालिना ॥८६॥ आरामे नगरे हद्दे, मया राजगृहाङ्गणे । सर्वेषु जिनगेहेषु, यदा त्वं न निरीक्षितः॥८७॥ पिता पितामहः (ऽपि च मया) पृष्टो, गत्वोद्विग्नेन ते तदा । नरेण क्रियते सर्वमिष्टसंयोगकाङ्खिणा ॥८॥ वार्तामलभमानेन, त्वदीयां पृच्छताऽभितः । दैवयोगेन दृष्टोऽसि, त्वमत्राऽऽगच्छता मया ॥ ८९॥ किं हित्वा भ्रमसि खेच्छं, सन्तोषमिव संयमी। मां वियोगासह मित्रमानन्दजननक्षमम् ॥९॥ ततोऽवोचन्मनोवेगो, मा कार्षीरधृति हदि । भ्रान्तोऽहं प्रतिमा जैनीनृक्षेत्रे प्रणमन् मुदा ॥९१ ॥ न जात्वहं त्वया हीनस्तिष्ठाम्येकमपि क्षणम् । संयमः प्रशमेनेव, साधोईदयतोषिण(णा) ॥ ९२ ॥ भ्रमता भरतक्षेत्रभूपालतिलकोपमम् । अदर्शि पाटलीपुत्रं, नगरं बहुवर्णकम् ॥१३॥ नगरे प्रसरन् यत्र, यज्ञधूमः सदेक्ष्यते । चञ्चरीककुलश्यामः, केशपाश इव श्रियः ॥ ९४ ॥ चतुर्वेदध्वनिं श्रुत्वा, बधिरीकृतपुष्करम् । नृत्यन्ति केकिनो यत्र, नीरदारावशङ्किनः ॥ ९५॥ NEnवशिष्ठव्यासवाल्मीकिमनुब्रह्मादिभिः कृताः । श्रूयन्ते स्मृतयो यत्र, वेदार्थप्रतिपादिकाः ॥ ९६ ॥२ः दृश्यन्ते परितस्तस्याः, सञ्चरन्तो विशारदाः । गृहीतपुस्तका यत्र, भारतीतनया इव ॥९७ ॥ सर्वतो यत्र दृश्यन्ते, पण्डिताः कलभाषिभिः । शिष्यैरनुवृता हृद्याः, पद्मखण्डा इवालिभिः ॥ ९८ ॥
मा काशिमिव संयमी मागेन दृष्टोऽसि
Page #13
--------------------------------------------------------------------------
________________
(वस्तारासहित रहय। अग्निहोत्रादिकर्माणि, कुर्वन्तो यत्र भूरिशः । वसन्ति ब्राह्मणा दक्षा, वेन इव सविग्रहाः ॥ ९९॥ अष्टादश पुराणानि, व्याख्यायन्ते सहस्रशः। यत्र ख्यापयितुं धर्म, दुःखदारुहुताशनं ॥ १.१॥ तर्क व्याकरणं काव्यं, नीतिशास्त्रं पदे पदे । व्याचक्षाणैर्यदाऽऽलीढं, वाग्देव्या इव मन्दिरम् ॥ १.१॥ वेला मे महती जाता, पश्यतस्तत् समन्ततः । व्याक्षिप्तचेतसा भद्र!, गतः कालो न बुध्यते ॥ १०२॥ यदाश्चर्य मया दृष्टं, तत्राश्चर्यनिकेतने । विवक्षामि; न शक्नोमि, तद्वक्तुं वचनैः परम् ॥ १०३॥ यत्त्वां धर्ममिव त्यक्त्वा, तत्र भद्र ! चिरं स्थितः । क्षमितव्यं ममाशेषादुर्विनीतस्य तत्त्वया ॥ १०४॥ उक्तं पवनवेगेन, हसित्वा शुद्धचेतसा । दर्शयख ममापीदं, यदृष्टं कौतुकं त्वया ॥ १०५ ॥ मित्र ! गच्छ पुनस्तत्र, ममात्यन्तं कुतूहलम् । प्रार्थनां कुर्वते मोघां, सुहृदः सुहृदां न हि ॥१०६ ॥ मनोवेगस्ततोऽवोचद्गमिष्यामि स्थिरीभव । उत्तालभवनान्मित्र!, पच्यते नमुदुम्बरः ॥ १०७॥ विधाय भोजनं प्रातर्गमिष्यामो निराकुलाः । बुभुक्षाग्लानचिचानां, कौतुकं नीरसं भवेत् ॥ १८ ॥ इत्यालोच्य ततः प्रीती, जग्मतुस्तौ खमन्दिरम् । सुन्दरस्फुरितश्रीको, नयोत्साहाविबोर्जितौ ॥ १०९ ॥ प्रातर्विमानमारुष, कामगं प्रस्थिताविमौ । सुराविव वराकारी, दिल्यामरणराजितौ ॥ ११ ॥ बेगेन तो वतः प्रासो, पाटलीपुत्रपत्तनम् । विचित्राचर्यसहीणे, मनसेन मनीशिवम् ॥ १११॥
Page #14
--------------------------------------------------------------------------
________________
पर्यः
॥
५
॥
ताको मनोनिवासीति, प्रसिद्धिकिाष्ठका मया । परासाधारणकावतो, क्षिप्रमाहूयता
गृहीत्वा तृणकाष्ठानि, चित्रालङ्कारधारिणौ । अविक्षतां ततो मध्यं, लीलया नगरस्य तौ ॥ ११२॥ दृष्ट्वा तौ तादृशौ लोका, विस्मयं प्रतिपेदिरे । अदृष्टपूर्वके दृष्टे, चित्रीयन्ते न के मुवि ? ॥ ११३॥ प्रेक्षकैर्वेष्टितौ लोकैर्ऋमन्तौ तौ समन्ततः । गुडपुजी महारावैर्मक्षिकानिकरैरिव ॥ ११४ ॥ तावालोक्य स्फुरत्कान्ती, क्षुभ्यन्ति स्म पुराङ्गनाः । निरस्तापरकर्त्तव्या, मनोभववशीकृताः ॥ ११५ ॥ एको मनोनिवासीति, प्रसिद्धिविनिवृत्तये।जातः कामो द्विधा नूनमिति भाषन्ते (त्युशन्ति) स्म काश्चन ॥११६॥ निजगाद परा दृष्टास्तार्णिकाः काष्ठिका मया । परासाधारणश्रीको, नेदृशौ रूपिणी परम् ॥ ११७ ॥ मन्मथाकुलिताऽवादीदन्या तजल्पकाङ्क्षिणी । वयस्ये ! काष्ठिकावेतौ, क्षिप्रमाहूयतामिह ॥ ११८ ॥ तृणकाष्ठं यथा दत्तस्तथा गृहामि निश्चितम् । इष्टेभ्यो वस्तुनि प्रासे, गणना क्रियते न हि ॥ ११९ ॥ इत्यादि जनवाक्यानि, शृण्वन्तौ चारुविग्रहौ । ब्रह्मशालामिमौ प्राप्तौ, सचा(चा)मीकरविष्टराम् ॥ १२० ॥ मुक्त्वाऽत्र तृणकाष्ठानि, भेरीमाताड्य वेगतः। एतौ सिंहाविवारूढी, निर्भयौ कनकासने ॥ १२१ ॥ क्षुभ्यन्ति स्म द्विजाः सर्वे, श्रुत्वा तं भेरिनिखनम् । कुतः कोऽत्र प्रवादीति, वदन्तो वादलालसाः ॥१२२॥ विद्यादर्पहुताशेन, दह्यमाना निरन्तरम् । निरीयुाह्मणाः क्षिप्रं, परवादिजिगीषया ॥ १२३ ॥ युग्मम् । केचित्तत्र वदन्ति स्म, किं तर्काध्ययनेन वः । वादे पराङ्मुखीकृत्य, यदि वादी न निर्जितः ॥ १२४ ॥
॥
५
॥
४
Page #15
--------------------------------------------------------------------------
________________
युष्माभिर्निर्जिता वादा, बहवः परदुर्जयाः। यूयं तिष्ठत मौनेन, वयं वादं विदध्महे ॥ १२५॥ एवमेव गतः कालः, कुर्वतां पठनश्रमम् । अवादिषुः परे तत्र, विप्राः प्रज्ञामदोद्धताः ॥ १२६ ॥ एवमादीनि वाक्यानि, जल्पन्तो द्विजपुङ्गवाः । वादकण्डूययाऽऽश्लिष्टा, ब्रह्मशाला प्रपेदिरे ॥ १२७ ॥ हारकङ्कणकेयूरश्रीवत्समुकुटादिभिः । अलङ्कृतं मनोवेगं, तह(ते )ट्वा विस्मयं गताः ॥ १२८ ॥ नूनं विष्णुरयं प्रासो, ब्राह्मणानुजिघृक्षया । नापरस्येशी लक्ष्मी वनानन्ददायिनी ॥ १२९ ॥ निगद्येति नमन्ति स्म, भक्तिभारवशीकृताः। प्रशस्तं क्रियते कार्य, विभ्रान्तमतिभिः कथम् १ ॥ १३०॥ तत्र केचिदभापन्त, ध्रुवमेष पुरन्दरः । शरीरस्येदृशी कान्ति न्यस्यास्ति मनोरमा ॥ १३१ ॥ परे प्राहुरयं शम्भुः, सङ्कोच्याक्षि तृतीयकम् । धरित्रीं द्रष्टुमायातो, रूपमन्यस्य नेदृशम् ॥ १३२ ॥ अन्येऽवदन्नयं कश्चिद्विद्याधारी मदोद्धतः । करोति विविधां क्रीडामीक्षमाणो महीतलम् ॥ १३३ ॥ नैवमालोचयन्तोऽपि, चक्रुस्ते तस्य निर्णयम् । प्रभापूरितदिक्कस्य, विश्वरूपमणेरिव ॥ १३४ ॥ कश्चिजगादेति विप्रः, पृच्छयतामयमेव हि । हस्तस्थकङ्कणे दर्पणादरं विदधाति कः ॥१३५॥ वादं कर्तुं समायातो, यद्यसौ जयवान्छकः । तदाऽनेन समं वाद, कुर्महे शाखपारगाः ॥ १३६ ॥ इति तस्य वचः श्रुत्वा, कश्चित् पप्रच्छ तं तदा । कस्त्वं किमर्थमायातो?, यथार्थ खं निगद्यताम् ॥ १३७ ॥
CRICK
Page #16
--------------------------------------------------------------------------
________________
परीक्षा.
तं जगाद मनोवेगो, भद्र । निर्धनमानवः। समेतोऽहं पुरे का, तुमकाष्ठकविकपम् ॥ १३८॥ प्राह विप्रस्ततो भद्र ! विष्टरे किं न्यविक्षत ? । भवान्वादमनिर्जित्य, भेरीताडनपूर्वकम् ॥ १३९ ॥ यद्यस्ति वादशक्तिस्ते, कुरु तत्पण्डितैः समम् । स्पष्टशास्त्रैर्वादिदर्पदलनैः पण्डितोत्तमैः ॥ १४०॥ कोऽपि याति पुरादस्मान्न वादजयकीर्तिमान् । नागधानः शेषनागमणिमादाय को व्रजेत् ! ॥ १४१॥ पिशाचकी वातकी वा, यौवनोन्मादवानसौ। येनैवं वर्णमाणिक्यभूषणः काष्ठविक्रयी ॥ १४२ ॥ सन्त्यनेके क्षितौ धृष्टा, भूरिशो जनमोहकाः। त्वादृशो नापरो येन, तनोषि बुधमोहनम् ॥ १४३॥ मनोवेगस्ततः प्राह, विप्र ! किं कुप्यसे वृथा ? । निष्कारणं कुप्यते हि, पन्नगेन न पण्डितैः ॥ १४४ ॥ वर्णासनं विलोक्याहं, कौतुकाद्विनिविष्टवान् । शब्दव्याप्तिविनोदाय, दुन्दुभिस्ताडितो मया ॥१४५॥ तार्णकाष्ठिकदेहोत्थो, वादनाम न वेदम्यहम् । अस्मादृशानां मूर्खाणां, भवेच्छाखकथा कुतः! ॥ १४६ ॥ भारतादिषु शास्त्रेषु, सन्ति किं नेशा नराः!। परेषां दूषणं विश्वे, वीक्ष्यते नात्मनः पुनः ॥ १४७ ॥ हेमासनस्थिते मय्यरतिस्ते यदि भो द्विज ? । उत्तरामि तदेत्युक्त्वाऽवातरन् खेचरस्ततः ॥ १४८ ॥ तमालोक्यासनोत्तीर्णमथावादीत् द्विजोत्तमः। तार्णिकाः काष्ठिका दृष्टा, न मया रत्नमण्डिताः ॥ १४९ ॥ परप्रेष्यकरा मया, रत्नालङ्कारराजिताः । वहन्तस्तृणकाष्ठानि, दृश्यन्ते न कदाचन ॥ १५॥
IP॥६॥
Page #17
--------------------------------------------------------------------------
________________
स प्राह भारतायेषु, पुराणेषु सहस्रशः। श्रूयन्ते न प्रपद्यन्ते, भवन्तो विधियः परम् ॥ १५१॥ यदि रामायणे दृष्टा, भारते वा त्वयेदृशाः । प्रत्येप्यामस्तदा ब्रूहि, द्विजेनेत्युदितोऽवदत् ॥ १५२ ॥ ब्रवीमि केवलं विप्र! ब्रुवाणोऽत्र विभेम्यहम् । यतो न दृश्यते कोऽपि, युष्मन्मध्ये विचारकः ॥ १५३॥ खलाः सत्यमपि प्रोक्त-मादायाऽसत्यबुद्धितः । मुष्टिषोडशकन्यायं, स्चयन्त्यविचारकाः ॥ १५४ ॥ कीरशोऽसौ महाबुद्धे!, Jहीति गदिते द्विजैः । उवाचेति मनोवेगः, श्रूयतां कथयामि वः॥ १५५ ॥ देशो मलयदेश्योऽस्ति, सङ्गालो गलितासुखः। तत्र गृहपतेः पुत्रो, नाना मधुकरोऽभवत् ॥ १५६ ॥ एकदा जनफस्सासौ, निर्गय गृहतो रुषा । अभ्रमीद्धरणीपृष्ठं, रोषतः क्रियते न किम् ? ॥ १५७ ॥ आभीरविषये तुङ्गा, गतेनानेन राशयः । रष्टा विभज्यमानानां, चणकानामनेकशः ॥ १५८ ॥ तानवेक्ष्य विमुखेन, तेन विस्मितचेतसा। अहो चित्रमहो चित्रं, मया दृष्टमितीरितम् ॥ १५९ ॥ किमार्य त्वया उष्टं, धनिकेनेति भाषितः । अवादीदिति मूढोऽसौ, जानात्यज्ञो हिनापदम् ॥१६॥ यायो विश्वेऽसुत्र, तुझाशणकरावयः। मरीचराशयः सन्ति, ताशा विषये मम ॥ १६१॥ पनि ततोगाधि, सभ कुपितालमा प्रयोऽसि वातेम, नासलानि भाषसे ॥१२॥ मीराशायाटासिकिनासाविपिनापि, दुसदे। कदाचन ॥ १३॥
-
Page #18
--------------------------------------------------------------------------
________________
॥ ७ ॥
किला चणका देशे, मरीचानीव दुर्लभाः । म ( स ) मतगणना कापि, मरीचेष्वपि विद्यते ( १ ) ॥ १६४ ॥ विज्ञायतेऽयमस्माकं दुष्टो मुग्धत्वनर्म्मणा । उपहासं करोतीति, क्षिप्रमेष निगृशताम् ॥ १६५ ॥ धनिकस्येतिवाक्येन, बबन्धुस्तं कुटुम्बिनः । अश्रद्धेयवचोबादी, बन्धनं लभते न किम् ? ॥ १६६ ॥ केनापि करुणार्द्रेण, तत्रावादि कुटुम्बिना । अनुरूपोऽस्य दण्ड्यस्य, भद्रा ! दण्डो विधीयताम् ॥ १६७ ॥ निकामं मुष्टयोऽमुष्य, दीयतामष्ट मूर्धनि । उपहासं पुनर्येन, न कस्यापि करोत्यसी ॥ १६८ ॥ तस्येतिवचनं श्रुत्वा विमुच्यास्य कुटुम्बिभिः । मुष्टयो मस्तके दत्ता, निष्ठुरा निर्घृणात्मभिः ॥ १६९ ॥ एभिर्यन्मुष्टिभित्यक्तो, लाभोऽयं परमो मम । जीवितव्येऽपि सन्देहो, दुष्टमध्ये निवासिनाम् ॥ १७० ॥ विचिन्त्येति पुनर्भीतो, निजं देशमसौ गतः । वालिशा न निवर्त्तन्ते, कदाचिदकदर्थिताः ॥ १७१ ॥ विभागेन कृतास्तेन ( ? ), देशं सङ्गालमीयुषा । मरीचराशयो दृष्टास्तुल्याश्चणकराशिभिः ॥ १७२ ॥ तत्र तेन तदेवोक्तं, लब्धो दण्डोऽपि पूर्वकः । बालिशो जायते प्रायः, खण्डितोऽपि न पण्डितः ॥ १७३ ॥ मुष्टिषोडशकं प्राप्तं, यतः सत्येऽपि भाषिते । मुष्टिषोडशकन्यायः, प्रसिद्धिमगमत्ततः ॥ १७४ ॥ न सत्यमपि वक्तव्यं पुंसा साक्षिविवर्जितम् । परथा पीड्यते लोकैरसत्यस्येव भाषकः ॥ १७५ ॥ असत्यमपि मन्यन्ते, लोकाः सत्यं ससाक्षिकम् । वञ्चकैः सकलो लोको, वञ्चयते कथमन्यथा ? ॥ १७६ ॥
परीक्षा.
॥ ७ ॥
Page #19
--------------------------------------------------------------------------
________________
पुंसा सत्यमसत्यं वा, वाच्यं लोकप्रतीतिकम् । भवन्ती महती पीडा, परथा केन वार्यते ? ॥ १७७ ॥ पुंसा सत्यमपि प्रोक्तं प्रपद्यन्ते न बालिशाः । यतस्ततो न वक्तव्यं, तन्मध्ये हितमिच्छता ॥ १७८ ॥ अनुभूतं श्रुतं दृष्टं, प्रसिद्धं च प्रपद्यते । अपरं च ( न ) यतो लोको, न वाच्यं पटुना ततः ॥ १७९ ॥ ममापि निर्विचाराणां मध्येऽत्र वदतो यतः । ईदृशो जायते दोषो, न वदामि ततः स्फुटम् ॥ १८० ॥ विचारयति यः कश्चित् पूर्वापरविचारकः । उच्यते पुरतस्तस्य, नापरस्य पटीयसा ॥ १८१ ॥ इत्युक्त्वाऽवस्थिते खेटे, जगाद द्विजपुङ्गवः । मैवं साधो ! गदीर्नास्ति, कश्चिदत्र विवेचकः ॥ १८२ ॥ माज्ञासीविचाराणां दोषमेषु विचारिषु । पशूनां जायते धर्म्मा, मानुषेषु न सर्वथा ॥ १८३ ॥ आभीरसदृशानस्मान्, मा ज्ञासीर्मुग्धचेतसः । वायसैः सदृशाः सन्ति, न हंसा हि कदाचन ॥ १८४ ॥ अत्र न्यायपटीयांसो, युक्तायुक्तविचारिणः । सर्वेऽपि ब्राह्मणा भद्र ! मा शङ्किष्ठा वदेप्सितम् ॥ १८५ ॥ यद्युक्त्या घटते वाक्यं, साधुभिर्यच बुध्यते । तद् ब्रूहि भद्र ! निःशङ्को, ग्रहीष्यामोऽविचारतः ॥ १८६ ॥ इति विप्रवचः श्रुत्वा, मनोवेगोऽलपद्वचः । जिनेशचरणाम्भोजचञ्चरीकै कलम्बनः ॥ १८७ ॥ - रतो-बिटो बातो मूढो, बुझाही पित्तदूषितः । यूतः श्रीगुरुर्ज्ञेयाथन्दनो बालिशा (शों) दश ॥ १८८ ॥ पूर्वापरविचारेण तिर्यञ्च इव वर्जिताः । सन्त्यमी यदि युष्मासु, तदा वक्तुं विमेम्यहम् ॥ १८९ ॥
=पाय करनार
Page #20
--------------------------------------------------------------------------
________________
परीक्षा.
KALSSSSSSSSC
मनमा बिस्वांच, पस्ताहिदकम् । विचरन्ति यत्सव, प्रचमा नेतरे पुनः॥१९॥ शामरविवारवा, सध्यस्था कर्माकाहिनः । पक्षपातषिनिसुवा, मव्याः सन्याः प्रकीर्चताः॥ १९१। सुभाषितं सुखापावि, मूर्येषु पिनियोजितम् । ददाति महतीं पीतां, क्यानमिवाहिषु ॥ १९२ ॥ पईते जायते पचं, सलिले जातु पावकः। पीयू कालकूटे च, विचारस्तु न बालि ॥ १९३॥ कीरशाः सन्ति ते साधो! द्विजैरिति निवेदिते । वक्तुं प्रचक्रमे खेटो, रक्तद्विष्टादिचेष्टितम् ॥ १९४॥ सामम्मकारलाबी, रेमपा दक्षिणेत प्रामकटो बहुद्रव्यो, बभूव बहुधान्यकः ॥ १९५॥ सुन्दरी कुरजी च, तस्य भार्ये बभूवतुः । मागीरथी च मौरी च, शम्भोरिख मनोरमे ॥ १९६ ॥ कुरजी तसवीं प्राप्य, वृद्धां तत्याज सुन्दरीम्। सरसायां हि लब्धावां, विरसां को निषेवते ॥ १९७॥ सुन्दरी मणिता तेन, गृहीत्वा भाममात्मनः । ससुता तिष्ठ भद्रे ! त्वं, विस्ता भवनान्तरे ॥ १९८ ॥ साची तया स्थिता सापि, खायिना गदिता यक्षा। शीलवन्योन कुर्वन्ति, भर्तृवाक्यव्यतिक्रमम् ॥ १९९॥ अष्टौ ततो बलीवदा, वितीर्णा व धेनकः।।दाखौ हालिको दो च, सोपकरषमन्दिरम् ॥ २०॥ सुधानः काहितं भोगं, कुरख्या सचिमोहितः। विवेद गतं कालं, तारुण्वे च महातुरः॥२.१॥ आसाथ सुन्दराकारां, तां प्रिवां नवयौवनाम् । पालोम्यालिङ्गितं शक्रं, स मेने नात्मनोऽधिकम् ॥ २०२॥
Page #21
--------------------------------------------------------------------------
________________
A
जानिलजमा
RECORAKAALCULATE
कुरजीवदनाम्भोज, स्नेहादित्यप्रबोधितम् । तस्यावलोकमानस्य, स्कन्धाकारोऽभवत्रभोः॥२.३॥ स देशवामिनाऽऽहूय, भणितो बहुधान्यकः । स्कन्धावारं ब्रज क्षिप्रं, सामग्री त्वं कुरूचिताम् ॥ २०४॥ स नत्वैवं करोमीति, निगद्य गृहमागतः । आलिङ्गय वल्लभां माडमुवाच रहसिस्थिताम् ॥ २०५॥ कुरक्रि! तिष्ठ गेहे त्वं, स्कन्धावारं ब्रजाम्यहम् । खखामिनां हि नादेशो, लबानीवः सुखार्थिमिः॥२०६ ॥ कटकं मम सम्पन्न, खामिनस्तत्र सुन्दरि! । अवश्यमेव गन्तव्यं, परथा कुप्यति प्रभुः ॥ २०७॥ . आकयेति वचस्तन्वी, साबभाषे विषण्णधीः। मयापि नाथ ! गन्तव्यं, त्वया सह विनिश्चितम् ॥ २०८॥ शक्यते सुखतः सोढुं, तोषमाणो विभावसुः। वियोगो न पुनर्नाथ ! तापिताखिलविग्रहः ॥ २०९॥ वरं मृता तवाध्यक्ष, प्रविश्य ज्वलने विभो ! न परोक्षे तव क्षिप्रं, मारिता विरहारिणा ॥२१॥ यदि गच्छसि गच्छ त्वं, पन्थानः सन्तु ते शिवाः। ममापि जीवितन्यख, गच्छतो यममन्दिरम् ॥ २११॥ ग्रामकूटस्ततोऽवादीन्मैवं वादीमृगेक्षणे । स्थिरीभूय गृहे तिष्ठ, मा कार्यमने मनः ॥ २१२॥ परखीबोलुपो राजा, त्वां गृहातीक्षितां यतः। स्वापयित्वा ततः कान्ते !, त्वां गच्छामि विकसबे ॥२१३॥ संबोवेति प्रियां युक्त्वा, स्कन्धाकारमसो मतः। बाबकूटपतिर्ने, सबर्व धनपूरितम् ॥ २१४ ॥ चिकीर बाविसा , सदेहरिष दुर्नयः । गते मर्तरि किशकर, मम्मयादेशकारिणी॥२१५॥
Page #22
--------------------------------------------------------------------------
________________
धर्म
॥ ९ ॥
भोजनानि विचित्राणि, धनानि वसनानि च । सा विटेभ्यो ददाति स्म, कृतकाममनोरथा ॥ २१६ ॥ या ददाति निजं देहं, संस्कृत्य चिरपालितम् । रक्ताया द्रविणं तस्या, ददत्याः कोऽपि न श्रमः ॥ २१७ ॥ दिनैर्नवदशै रक्ता, सा जारश्रेणये धनम् । खादति स्माखिलं दत्वा, न मुमोच गृहे मनाक् ॥ २९८ ॥ कामवाणप्रपूर्णाङ्गा, सा चकारं निजं गृहम् । कुप्यभाण्डधनैहींनं, भूषकक्रीडनास्पदम् ॥ २१९ ॥ अवेयागमनं पत्यु - विलुट्य धनसञ्चयम् । मुक्ता सा विटसंघेन, भिलौघेन यथा पुरी ॥ २२० ॥ वितर्क्यागमनं पत्युः, सा सतीवेषमण्डिता । लज्जावतीच वनिता, तिष्ठति स्म गृहाङ्गणे ।। २२१ ॥ सा तथा शुभवेषाऽस्थाद्यथा न ज्ञायतेऽसती । विमोहयति या शक्रं, तस्याः का गणना नृषु ? ॥ २२२ ॥ साधितः खामिकार्योऽथ, बहुधान्यः पुराद्बहिः । समागम्य निविष्टः स प्रजिघाय गृहेऽनुगम् ॥ २२३ ॥ तामुपेत्याऽवदद् भृत्यः, समेतस्ते पतिर्लघु । विधेहि भोजनं वार्त्ता- कथनाय प्रे ( ये ) षितो ह्यहम् ॥ २२४ ॥ तस्य वाक्यं निशम्येति, कुरङ्गी कुटिलाऽवदत् । ज्यायसीं वनितां ब्रूहि, क्रमलोपो न युज्यते ॥ २२५ ॥ तेन सार्धं समेत्यैषा, सुन्दरीं प्रत्यदोऽवदत् । खाम्यागतो भोज्यतेऽद्य, वृद्धत्वात्तव सद्मनि ॥ २२६ ॥ सुन्दर्यप्याह सद्भोज्य-सामग्रीं रचयाम्यहम् । परं त्वदासक्तचित्तः, स मे धानि न भोक्ष्यते ॥ ३२७ ॥ सा विहस्याह चेन्मांस, मन्यतेऽत्यन्तवल्लभाम् । भोक्ष्यते तव धाकयेव, भुज्ये तत् कुरु भोजनम् ॥ २२८ ॥
परीक्षा.
॥ ९ ॥
Page #23
--------------------------------------------------------------------------
________________
व्योम, पौर
नियथिताशयः । तस्त्रियः प्रायो,'
निशम्येति वचस्तस्याः, सा रराधानमुत्तमम् । सन्तो हि प्राञ्जलं सर्व, गणयन्ति निजात्मवत् ॥ २२९ ॥ धनहीन गृहं सौवं, छद्मना सा न्यगृहयत् । छादयन्ति स्त्रियः प्रायो, दूषणानि निजानि यत् ॥ २३० ।। ग्रामकूटोऽथ सोत्कण्ठो, मन्मथव्यथिताशयः । आगत्य त्वरितं मोदात, कुरङ्गीभवनं गतः ॥ २३१॥ बलाहकैरिव व्योम, पौरैरिव पुरोत्तमम् । धनधान्यादिभिहीनमीक्षमाणोऽपि मन्दिरम् ॥ ३३२॥ कुरङ्गीमुखराजीवदर्शनाकुलमानसः । अद्राक्षीदेष मूढात्मा, चक्रवर्तिगृहाधिकम् ।। २३३ ॥ युग्मम् ।। लीलया भवनद्वारे, स्थितोऽध्यास्य चतुष्किकाम् । स पश्यन्नुल्लसत्कान्ति, प्रियावदनपङ्कजम् ॥ २३४ ॥ क्षणमेकमसौ स्थित्वा, निजगाद मनःप्रियाम् । कुरङ्गि? देहि मे क्षिप्रं, भोजनं किं विलम्बसे ? ॥ २३५ ॥ सा कृत्वा भृकुटी भीमा, यमस्येव धनुर्लताम् । अवादीत् कुटिलखान्ता, कान्तं पौरुषनाशिनी ॥ २३६ ॥ खमातुर्मवने तस्या, भुज दुष्टमतेर्ब( ते ! )ज । यस्या निवेदिता वार्ता, पूर्व पालयता स्थितिम् ॥ २३७॥ सुन्दर्याः खयमाख्याय, वार्ता भर्ने चुकोप सा। योजयन्ति न कि दोष, जिते भर्तरि योषितः ? ॥ २३८ ॥ कृत्वा दोषं वयं दुष्टा, पत्ये कुप्यति कामिनी । पूर्वमेव स्वभावेन, खदोषविनिवृत्तये ॥ २३९ ॥ स श्रुत्वा वचनं तस्या, मूकीभूय व्यवस्थितः । सङ्कोचितसमस्ताङ्गो, बिडाल्या इव मूषकः ॥२४॥ आगच्छ मुव तातेति, तनुजेनैत्य सादरम् । आकारितोऽप्यसौ मूकश्चित्रावस्थ इव स्थितः॥२४१ ॥
**********RASAKA SASA
Page #24
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
॥१०॥
पाखणं किसयार !, खाद याहि प्रियायहम् । केतुको मतो मीतः, स सुन्दर्या निकेतनम् ॥ २४२॥ विशालं कोमलं दत्वं, तया तस्य वरासक्छ । कुर्बया परमं बेई, खरिचमिव निर्मलम् ॥ २४३ ॥ अपचाणि विचित्रानि, पुरस्तस निधाव सा । सरसं विश्राणवामास, तारुण्यमिव भोजनम् ॥ २४४ ॥ क्तिीर्ण तस सुन्दर्या, नाऽभवहुचयेऽशनम् । अभव्यखेक चारित्रं, जिनवाचा विशुद्धया ॥ २४५॥ पुष्टिदं विपुलखेहं, कलत्रमिव भोजनम् । सुवर्णराजितं भव्यं, न तखाभूत् प्रियङ्करम् ॥ २५६ ॥ ईक्षमाणः पुरः क्षिप्रं, भाजने भोज्यमुत्तमम् । व्यचिन्तयदसावेवं, कामान्धं तमसावृतः॥२४७॥ चन्द्रमूर्तिरिवानन्ददायिनी सुपयोधरा । किं कुरजी मम कुद्धा ? न दृष्टिमपि यच्छति ॥ २४८॥ नूनं मां वेश्यया सार्द्ध, सुतं ज्ञात्वा चुकोप सा । तत्रास्ति भुवने मन्ये, ज्ञायते यन्त्र दक्षया ॥ २४९ ॥ ऊर्तीकृतमुखोऽवादि, परिवारजनैरवम् । किं तुभ्यं रोचते नात्र ? मुरुक्ष्व सर्व मनोरमम् ॥ २५०॥ स जमी किमु जेमामि ? न किञ्चिज्जेमनोचितम् । कुरङ्गीगृहतो भोज्यं, किञ्चिदानीयतां मम ॥ २५१ ॥ श्रुत्वेति सुन्दरी गत्वा, कुरजीभवनं जगौ । कुरशि! देहि किञ्चित् त्वं, कान्तस रुचवेशनम् ॥ २५२ ॥ साऽवादीन मयाऽवानं, किञ्चनाप्युपसाधितम् । त्वदीयभुवने तस्व, भोजनं मन्यमानवा ॥ २५३॥ यदि कलिप्यते दत्तं, गोमयं स पतिर्मया। तदा सहिष्यते सर्व, दूषणं मम सक्तधीः ॥ २५४ ॥
॥१०॥
Page #25
--------------------------------------------------------------------------
________________
विचिन्त्येति तदादाय, कदोष्णं गोमयं नवम् । प्रक्षिशैकैकगोधूमकणं निन्द्यं बहुद्रवम् ॥ २५५ ॥
गृहाण त्वमिदं नीत्वा, जेमनं वितर प्रभोः । इत्युक्त्वा भाजने कृत्या, सुन्दर्या सा समर्पयत् ॥ २५६ ॥ युग्मम् ॥ आनीयैतत्तया दत्तं स्तावं स्तावमभक्षयत् । भोजनं सुन्दरं हित्वा स शूकर इवाशुचिम् ॥ २५७ ॥ गोमयं केवलं भुक्त्वा, शालायां स निविष्टवान् । ग्रामकूटो द्विजं प्रष्टुं प्रवृत्तः प्रेयसीक्रुधम् ॥ २५८ ॥ किं प्रेयसी मम क्रुद्धा! किं किंचिद् भणिता त्वया ? । ममाथ दुर्णयः कश्चित्कथ्यतां भद्र ! निश्चयम् ॥ २५९ ॥ सोsवादीद् भद्र ! तावत्ते, तिष्ठतु प्रेयसीस्थितिः । श्रूयतां चेष्टितं स्त्रीणां सामान्येन निवेद्यते ॥ २६० ॥ न सोऽस्ति विष्टपे दोषो, विद्यते यो न योषिताम् । कुलखनोऽधकारोऽसौ, शर्वर्या यो न जायते ॥ २६१ ॥ हुमात्र किमुक्तेन ? महत्तर ! निबुध्यताम् । प्रत्यक्षा वैरिणी गेहे, कुरङ्गी तव तिष्ठति ॥ २६२ ॥ विटेभ्यो निखिलं दत्वा तव द्रव्यं विनाशितम् । कुरङ्गपा पापया तस्याश्चरित्रमिव दुर्लभम् ॥ २६३ ॥ तक या हरते द्रव्यं, निर्भयीभूतमानसा । हरन्ती वार्यते केन, जीवितं सा दुराशया १ ॥ २६४ ॥ निशम्येति वचस्तस्य, विप्रस्य हितभाषिणः । स गत्वा सूचयामास, कुरङ्गयाः सकलं कुधीः ॥ २६५ ॥ -सा जगाद दुराचारः, शीलं मे हर्त्तुमुद्यतः । मया खामिन्निषिद्धोऽयं, भाषते दूषणं मम ॥ २६६ ॥ जम्बायानामशेषाणां, नक्राणामिव नीरभिः । निधानमिव दुष्टात्मा, क्षिप्रं निर्घाव्यतां प्रभो ! ॥ २६७ ॥
Page #26
--------------------------------------------------------------------------
________________
धर्म
- ॥ ११ ॥
तस्यास्तेनेतिवाक्येन स हितोऽपि निराकृतः । किं वा न कुरुते रक्तो, रामाणां वचसि स्थितः १ ॥ २६८ ॥ सद्वाक्यमविचाराणी, दत्तं दत्ते महाभयम् । पयःपानं भुजङ्गानां हितकारि कथं भवेत् ? ।। २६९ ॥ हितेऽपि भाषिते दोषो, दीयते निर्विचारकैः । परैरपीह रागान्धे - प्रीमकूटसमैः स्फुटम् ॥ २७० ॥ इत्थं रक्तो मया विप्राः ! सूचितो दुष्टचेष्टितः । इदानीं श्रूयतां द्विष्टः सूच्यमानो विधानतः ॥ २७१ ॥ ग्रामकूटावभूतां द्वौ, कोटीनगरवासिनौ । प्रथमः कथितः स्कन्दो, वक्रो वक्रमनाः परः ॥ २७२ ॥ भुआनयोस्तयोर्ग्राममेकं वैरमंजायत । एकद्रव्याभिलाषित्वं, वैराणां कारणं परम् ॥ २७३ ॥ दुर्निवारं तयोर्जातं, काककौशिकयोरिव । निसर्गजं महावैरं, प्रकाशतिमिरैषिणः (णोः) ॥ २७४ ॥ वक्रः करोति लोकानां, सर्वदोपद्रवं परम् । सुखाय जायते कस्य, वक्रो दोषनिविष्टधीः १ ॥ २७५॥ वक्रः कदाचन व्याधिमवाप प्राणनाशनम् । योऽन्येषां कुरुते दुःखं, स किं सौख्यमवाप्नुयात् ? ॥ २७६ ॥ सुतस्तदीयस्तं प्राह, कुरु धर्म्म पवित्रधीः । यः करोति परलोके सुखानि सकलाङ्गिनाम् ॥ २७७ ॥ नायाति धनपुत्रादिः, परलोके सहात्मनः । एकमेव कृतं कर्म्म, सुखदुःखविधावलम् ॥ २७८ ॥ न परो वा निजः कोऽपि, संसारे भ्रमदङ्गिनाम् । ज्ञात्वेति कुमतिं हित्वा परलोकहितं कुरु ॥ २७९ ॥ अपास्य मोहं पुत्रादौ, धनं पात्रे निवेशय । देवं संस्मर चाभीष्टं, लभसे सद्गतिं यतः ॥ २८० ॥ 1
कारने पाह
परीक्षा.
॥ ११ ॥
Page #27
--------------------------------------------------------------------------
________________
पुत्रवाक्यमिदं श्रुत्वा, निशम्याख्यत् स दुष्टधीः । कुर्वेकं पुत्र ! कार्य मे, सुपुत्रत्वात्तवोच्यते ॥ २८१ ॥ मयि जीवति रे वत्स ! स्कन्दोऽयं न सुखं स्थितः । परं भ्रातृसुतैः सार्धं, न विनाशं गतोऽहितः ॥ २८२ ॥ समूलं क्षयमेत्येष, यथा कर्म्म तथा कुरु । वसामि यत् स्फुरद्देहः, खर्गे धृष्टमनाः सुखम् ॥ २८३ ॥ वृक्षाद्यन्तरितस्तिष्ठ, त्वमस्याग तिमीक्षितुम् । आयातेऽस्मिन्मृतं हत्वा मां पूत्कुरु जनश्रुति ॥ २८४ ॥ हतं माममुना मत्वा, दण्डमस्य करिष्यति । भूपस्तथा यथा गोत्र - युतोऽयं द्राग्मरिष्यति ॥ २८५ ॥ एवं वदन्तमेवानुं, जघानोपेत्य पञ्चता । चकार वचनं तस्थ, सुतोऽपि पितृमोहतः ॥ २८६ ॥ अन्तकालेऽप्ययं पुत्र - हितवाक्यं चकार न । दु ( द्वि ) ष्टास्तद्वद्भवन्तवेद्वदामि न हितं तदा ॥ २८७ ॥ द्विष्टो निवेदितो विप्रा-चित्रांशुरिव तापकः । इदानीं श्रूयतां मूढः, पाषाण इव नष्टधीः ॥ २८८ ॥ प्रधियोऽथास्ति कण्ठोष्ठं, यक्षास्पदमिवापरम् । पुरं सुरालयाकीर्ण, निधाननिलयीकृतम् ॥ २७९ ॥ अभूद्भूतमतिस्तत्र, विप्रो विप्रगणार्चितः । विज्ञातवेदवेदान्तो ब्रह्मेव चतुराननः ॥ २९० ॥ पञ्चाशत्तस्य वर्षाणां, कुमारब्रह्मचारिणः । जगाम धीरचित्तस्य, वेदाभ्यसनकारिणः ॥ २९१ ॥ बान्धवा विधिना यज्ञां, यज्ञवह्निशिखोज्ज्वलाम् । कन्यां तां ग्राहयामासुः, लक्ष्मीमिव मुरद्विषम् ॥ २९२ ॥ उपाध्यायपदारूढो, लोकाध्यापनसक्तधीः । पूज्यमानो द्विजैः सर्वैर्यज्ञविद्याविशारदः ॥ २९३ ॥
क्रष्णः
Page #28
--------------------------------------------------------------------------
________________
परीक्षा.
॥१२॥
'यज्ञारथी
सपा सह मुखानो, मोगं मोगवतां मतः । व्यवस्थितः स्थिरप्रज्ञा, प्रसिद्धो धरणीतले ।। २९४ ॥ तको बटुको नामा, यज्ञो यज्ञ इवोज्ज्वलः । आगतो यौवनं बिभ्रत, स्त्रीनेत्रनमराम्बुजम् ॥ २९५ ॥ विनीतः पटुधीदृष्ट्वा, वेदार्थग्रहणोचितः । सङ्गृहीतः स विप्रेण, मूर्तोऽनर्य इव खयम् ॥ २९६ ॥ शकटीव भराक्रान्ता, यज्ञाऽजनि विसंस्थुला । ममांस्य प्रसरा सद्यस्तस्य दर्शनमात्रतः ॥ २९७ ॥रकस्य खेहशाखी गतो वृद्धि, रतिमन्मथयोरिष । सिक्कः साङ्गत्यतोयेन, तयोरिष्टफलप्रदः॥ २९८ ॥रक्षायतयो:ज्ञेया गोष्ठी दरिद्रस्य, भृत्यस्य प्रतिकूलता। वृद्धस्य तरुणी भायो, कुलक्षयविधायिनी ॥ २९९ ॥ पुण्डरीकं महायज्ञं, विधातुमयमेकदा । मथुरायां समाहूतो, दत्वा मूल्यं द्विजोत्तमैः ॥ ३०॥ पालयन्ती गृहं यज्ञे, शयीथा वेश्मनोऽन्तरे । शाययेर्बटुकं द्वारे, निगद्येति गतो द्विजः ॥ ३०१॥ गते भर्तरि सा पापा, चकार बटुकं विटम् । खैरिणीनां महाराज्यं, शून्ये वेश्मनि जायते ॥ ३०२॥ दर्शनैः स्पर्शनैः कामस्तयोर्गुरप्रकाशनैः । ववृधे तैरसा तीव्रः, सर्पिःस्पजरिवानलः ॥३.३॥ बुभुजे तामविश्राम, स पीनस्खनपीडितः। विविक्ते युवतिं प्राप्य, विरामं कः प्रपद्यते १ ॥३०४ ॥ आलिनितस्तया गाढं, स विभ्रमनिधानया । पार्वत्यालिङ्गितं शम्भु, न तृणायाप्यमन्यत ॥ ३०५॥ एवं तपोतप्रेम-पाश्रितचेतसोः । रताब्धिमग्रयोस्तत्र, गतं मासचतुष्टयम् ॥ ३०६ ॥
Page #29
--------------------------------------------------------------------------
________________
अवादीदेकदा यज्ञा, यज्ञं प्रेमभरालसा । त्वमद्य दृश्यसे म्लानः, किं ? प्रभो ! मम कथ्यताम् ॥ ३०७ ॥ Hisareeaः कान्ते ! प्रयाता मम वासराः । विष्णोरिव श्रिया सौख्यं, भुआनस्य त्वया समम् ॥ ३०८ ॥ इदानीं तन्वि ! वर्त्तन्ते, भद्रागमनवासराः । किं करोमि ! क गच्छामि ! त्वां विहाय मनः प्रियाम् ॥ ३०९ ॥ -न- विपत्तिर्महती स्थाने, याने पादौ न गच्छतः । इतः पूरमितो व्याघ्रः, किं करोमि द्वयाश्रमः १ ॥ ३१० ॥ तमवादीत्ततो यज्ञा, स्वस्थीभव शुचं त्यज । मा कार्षीरन्यथा चेतो, मदीयं कुरु भाषितम् ॥ ३११ ॥ गृहीत्वा पुष्कलं द्रव्यं, जावोऽन्यत्र सज्जन ।। क्रीडावः खेच्छया हृद्यं, भुआनौ सुरतामृतम् ॥ ३१२ ॥ कुर्व सफलं नृत्यं, दुरवापं मनोरमम् । निर्धिशावो रसं सारं, तारुण्यस्यास्य गच्छतः ॥ ३१३ ॥ विमुच्य व्याकुलीभावं, त्वमानय शवद्वयम् । करोमि निर्गमोपायमलक्ष्यमखिलैर्जनैः ॥ ३१४ ॥ प्रपेदे स वचस्तस्या, निश्शेषं हृष्टमानसः । न जाता तस्य शङ्कापि, दुष्प्रबोधा हि कामिनः ॥ ३१५ ॥ आनिनाय त्रियामायां स गत्वा मृतकद्वयम् । अभ्यर्थितो नरः स्त्रीभिः कुरुते किं न साहसम् १ ॥ ३१६ ॥ एकं सा मृतकं द्वारे, गृहस्याभ्यन्तरे परम् । निक्षिप्य द्रव्यमादाय, ज्वालयामास मन्दिरम् ॥ ३१७ निर्गस्य बसतेस्तस्था, गतौ तावुचरापथम् । मृगौ विघातकारिण्या, अंगुराया इन द्रुतम् ॥ ३१८ ॥ "शशाम दहनो दध्या, मन्दिरं तच्छनैः शनैः । शुशुचुः सकला ठोकाः, मन्मन्तो भावम् ॥ ११९ ॥
Page #30
--------------------------------------------------------------------------
________________
धर्म
॥ १३ ॥
सतीनामग्रणीर्दग्धा, ब्राह्मणी गुणशालिनी । बटुकेन कथं सार्धं, पश्यताहो कृशानुना १ ॥ ३२० ॥ बाह्याभ्यन्तरयोर्लोका, विलोक्यास्थिकदम्बकम् । विषण्णीभूतचेतस्का, जग्मुर्गेहं निजं निजम् ॥ ३२१ ॥ लोकेन प्रेषितं लेखं दृष्ट्वाऽऽगत्य द्विजाग्रणीः । विलोक्य मन्दिरं दग्धं, विललाप विमूढधीः ॥ ३२२ ॥ विदधानो ममादेशं, गुर्व्वाराधनपण्डितः । कथं (नु होम) निईग्धो, निर्दयेन कृशानुना ॥ ३२३ ॥ ब्रह्मचारी शुचिर्दक्षो, विनीतः शास्त्रपारगः । दृश्यते त्वादृशो यज्ञ ! कुलीनो बटुकः कुतः ? ॥ ३२४ ॥ वर्त्तमाना ममाज्ञायां, गृहकृत्यपरायणा । पतिव्रता कथं यज्ञे ! त्वं दग्धा कोमलाग्निना ॥ ३२५ ॥ गुणशील कलाधारा, भर्तृभक्ता बहुत्रपा । त्वादृशी प्रेयसी कान्ते ! न कदापि भविष्यति ॥ ३२६ ॥ इत्थमेकेन शोकार्त्तः, सोऽवाचि ब्रह्मचारिणा । किं रोदिषि वृथा मूढ ! व्यतिक्रान्ते प्रयोजने ॥ ३२७ ॥ संयुज्यन्ते वियुज्यन्ते, कर्मणा जीवराशयः । प्रेरिता वायुनाऽनेन, पर्णपुआ इव स्फुटम् ॥ ३२८ ॥ संयोगो दुर्लभ भूयो, वियुक्तानां शरीरिणाम् । संबध्यन्ते न विश्लिष्टाः, कथंचित् परमाणवः ॥ ३२९ ॥ एवं तस्य वचः श्रुत्वा, क्रुद्धो भूतमतिर्द्विजः । प्राहोपदेशो यद्वयर्थो, जायते मूढचेतसाम् ॥ ३३० ॥ ब्रह्मकृष्णहरेन्द्राद्याः, सर्व्वमार्गविचक्षणाः । कथं रामासु रज्यन्ते ? स्युस्ता यदि विगर्हिताः ॥ ३३१ ॥ ददाति या पुत्रफलमशेषक्लमनाशिनी । सर्वेन्द्रियसुखस्थानं नास्ति तां वनितां विना ॥ ३३२ ॥
परीक्षा.
॥ १३ ॥
Page #31
--------------------------------------------------------------------------
________________
कोsपीष्टं किमपि ब्रूते, जनो भिन्नरुचिर्यतः । एतदेव मतं मे यन्नास्त्यभीष्टं स्त्रियोऽधिकम् ॥ ३३३ ॥ उक्त्वेति मूढचित्तः स, स्वयं तुम्बयुगे पृथक् । निवेश्यास्थीनि गङ्गां प्रत्यचलद्वटुक स्त्रियोः ॥ ३३४ ॥ कस्मिंश्चिन्नगरे तस्य, मिलितो बटुकोऽधमः । नमन् क्रमाविति प्राह, सहख मम दुर्नयम् ॥ ३३५ ॥ कोऽसीति ब्राह्मणेनोक्तः, स प्राह बटुकोऽस्मि ते । यज्ञनामा त्वदीयाङ्घ्रियुग्म सेवनजीवितः ॥ ३३६ ॥ श्रुत्वेति मूढधीर्वप्रः प्राह मे बटुकः क्व ? सः । भस्मितस्त्वं वञ्चकोऽसि, परं वञ्चय निर्धियम् ॥ ३३७ ॥ उक्त्वेति पुरमध्येऽस्य, गतस्य मिलिता प्रिया । भयभ्रान्ता क्रमन्यस्तमस्तका न्यगदीदिति ॥ ३३८ ॥ व्यवतिष्ठते ते द्रव्यं सहख दुरितं मम । आविष्कृतनिजाघस्य, सन्तः कुप्यन्ति नोपरि ॥ ३३९ ॥ निशम्येति वचस्तस्याः, प्राह भूतमतिर्द्विजः । कासि त्वं ! साह कान्ताऽस्मि, यज्ञिकासंज्ञिका तव ॥ ३४० ॥ श्रुत्वेति वचनं तस्याः, प्राह मूढमतिर्द्विजः । यज्ञिकास्थीनि तुम्बे मे, सन्ति त्वं कापि वञ्चिका ॥ ३४१ ॥ निगद्येति गतो गङ्गां मूढो भूतमतिर्द्विजः । विचारो न स्वयं यस्य, बोध्यते स कथं पुमान् ? ॥ ३४२ ॥ युष्माकमिति मूढोऽयं, संक्षेपेण निवेदितः । अधुनाऽऽकर्ण्यतां विप्रा ! व्युद्वाहीति निवेद्यते ॥ ३४३ ॥ दुर्द्धर्यामभवत्पुर्या, पार्थिवो दुर्धराभिधः । जात्यन्धस्तनयस्तस्य, जात्यन्धोऽजनि नामतः ॥ ३४४ ॥ हारकङ्कणकेयूर — कुण्डलादि विभूषणम् । याचकेभ्यः शरीरस्थं स प्रदत्ते दिने दिने ॥ ३४५ ॥
Page #32
--------------------------------------------------------------------------
________________
S
मा.
॥१४॥
ANSALALA
तस्यालोक्य जनातीतं, मन्त्री सागमभाषत । कुमारेण विभो! सर्वः, कोशो दत्वा विनाशितः ॥३४६॥ ततोऽवादीनृपो नास्य, दीयते यदि भूषणम् । न जेमति तदा साधो, सर्वथा किं करोम्यहम् ॥ ३४७॥ नृपं मत्री ततोऽवादीदुपायं विदधाम्यहर । अभाषत ततो राजा, विधेहि न निवार्यसे ॥ ३४८॥ प्रदायाभरणं लोह, लोहदण्डं समर्प्य सः। समर्थ जनघाताय; कुमारममणीदिति ॥ ३४९॥ तव राज्यक्रमायातं, भूषणं बुधपूजितम् । मा दाः कस्यापि तातेदं, दत्ते राज्यं विनश्यति ॥३५॥ यालौहमिदं यो यस्तं तं मूर्धनि ताडयः । कुमार! लोहदण्डेन, मा कार्षीः करुणां क्वचित् ॥ ३५१ ॥ प्रतिपन्नं कुमारण, समस्तं मन्त्रिभाषितम् । के नात्र प्रतिपद्यन्ते, कुशलैः कथितं वचः ॥ ३५२ ॥ ततो लोहमयं दण्डं, गृहीत्वा स व्यवस्थितः। रोमाञ्चितसमस्ताङ्गस्तोषाकुलितमानसः॥ ३५३॥ योऽवदद्भूषणं लौहं, मस्तके तं जघान सः। व्युद्वाहितमतिर्नीचः, सुन्दरं कुरुते कुतः ॥ ३५४ ॥ सुन्दरं मन्यते प्राप्तं, यः खेष्टस्य वचः सदा । परस्यासुन्दरं सर्व, केनासौ बोध्यतेऽधमः ॥ ३५५ ॥ यो जात्यन्धसमो मूढः, परवाक्याविचारकः । स व्युदाही मतः प्राज्ञैः, स्वकीयाग्रहसक्तधीः ॥ ३५६ ॥ शक्यते मन्दरो भेत्तुं, जातु.पाणिप्रहारतः। प्रतिबोधयितुं शक्यो, व्युद्वाही न च वाक्यतः॥ ३५७ ॥ अज्ञानान्धः शुभं हित्वा, गृहीते वस्त्वसुन्दरम् । जात्यन्ध इव सौवणे, दीनो भूषणमायसम् ॥ ३५८ ॥
॥१४॥
Page #33
--------------------------------------------------------------------------
________________
प्रपद्यते सदा मुरखो, यः सुन्दरमसुन्दरं । उच्यते पुरतस्तस्य, न प्राज्ञेन सुभाषितम् ॥ ३५९ ॥ वयते सकलो लोको, लोकैः कामार्थलोलुपैः । यतस्ततः सदा सद्भिर्विवेच्यं शुद्धया धिया ॥ ३६० ॥ व्युद्वाही कथितो विप्राः ? कथ्यते पित्तदूषितः । इदानीं श्रूयतां कृत्वा, समाधानमखण्डितम् ॥ ३६१ ॥ अजनिष्ट नरः कश्चिद्विलीभूतविग्रहः । पित्तज्वरेण तीत्रेण, वह्निनेव करालितः ॥ ३६२ ॥ तस्य शर्करा मिश्र, तुष्टिपुष्टिप्रदायकम् । अदायि कथितं क्षीरं, पीयूषमिव पावनम् ॥ ३६३॥ सोऽमन्यताधमस्तिक्तमेतन्निम्बरसोपमम् । भाखरं भाखतस्तेजः, कौशिको मन्यते तमः ॥ ३६४ ॥ इत्थं नरो भवेत्कश्चियुक्तायुक्ता विवेचकः । मिथ्याज्ञानमहा पित्तज्वरन्याकुलिताशयः ॥ ३६५ ॥ तस्य प्रदर्शितं तत्त्वं प्रशान्तिजननक्षमम् । जन्ममृत्युजराहारि, दुरापममृतोपमम् ॥ ३६६ ॥ कालकूटोपमं मूढो, मन्यते शान्तिकारकम् । जन्ममृत्युजराकारि, सुलभं हतचेतनः ॥ ३६७॥ त्रिभिर्विशेषकम् ॥ सोऽज्ञानव्याकुलखान्तो, भण्यते पित्तदूषितः । प्रशस्तमीक्षते सर्व-मप्रशस्तं सदापि यः ॥ ३६८ ॥ अन्याय्यं मन्यते न्याय्यं विमर्शज्ञानवर्जितः । न किञ्चनोपदेष्टव्यं तस्य तत्त्वविचारिभिः ॥ ३६९ ॥ दर्शियो भक्त प्रदूषितो मो शिजोचनाः । । अधुना अच्यते दूतः, सावधानैर्निशम्यताम् ॥ ३७० ॥ बारेमा नगरी विबुधार्पिता । देवावास्प्रप्सरोरम्या हुवधानामरावती ॥ ३७१ ॥
Page #34
--------------------------------------------------------------------------
________________
धर्म-:
॥ १५ ॥
विनम्रमौलिभिर्भूपै, राजाऽमूनृपशेखरः । तत्र सेव्योऽमरावत्या, मघवानिव नाकिमिः ॥ ३७२ ॥ सर्वरोगजरोच्छेदि, सेव्यमानं शरीरिणाम् । दुरवापं परैर्हृद्यं, रत्नत्रयमिवार्चितम् ॥ ३७३ ॥ रूपगन्धरसस्पर्शैः, सुन्दरैः सुखदायिभिः । आनन्दितजनखान्तं दिव्यस्त्रीयोवनोपमम् ॥ ३७४ ॥ एकमाम्रफलं तस्य, प्रेषितं प्रियकारिणा । राज्ञा वङ्गाधिनाथेन, सौरभ्याकृष्टषट्पदम् ॥ ३७५ ॥ त्रिभिर्विशेषकम् । जहर्ष धरणीनाथस्तस्य दर्शनमात्रतः । न कस्य जायते हर्षो, रमणीये निरीक्षिते ? ॥ ३७६ ॥ ऐकेनानेने लोकस्य, कश्चिदानफलेन मे । सर्व्वरोगहुताशेन, संविभागो न जायते ॥ ३७७ ॥ यथा भवन्ति भूरीणि, कारयामि तथा नृपः । ध्यात्वेति वनपालस्य, समर्प्य न्यगदीदिति ॥ ३७८ ॥ यथा भवति भद्रायं, चूतो भूरिफलप्रदः । तथा कुरुष्व नीत्वा त्वं, रोपयख वनान्तरे ॥ ३७९ ॥ नत्वोक्त्वैवं करोमीति, वृक्षवृद्धिविशारदः । स व्यवीवृधदारोप्य, वनमध्ये विधानतः ॥ ३८० ॥ सोऽजायत महतो, भूरिभिः खचितः फलैः । सत्त्वाहादकरः सद्यः, सच्छायः सज्जनोपमः ॥ ३८१ ॥ पक्षिणा नीयमानस्य, सर्पस्य पतिता वसा । एकस्याथ तदीयस्य, फलस्योपरि दैवतः ॥ ३८२ ॥ तस्याः समस्तनिन्द्यायाः, -सङ्गेन तदपच्यत । तत्रानन्दकरं हृद्यं, जराया इव यौवनम् ॥ ३८३ ॥ अपतत्तत् फलं क्षिप्रं विषतापेन तापितम् । अन्यायेनातिरौद्रेण, महाकुलमिवार्च्चितम् ॥ ३८४ ॥
परीक्षा.
॥ १५ ॥
Page #35
--------------------------------------------------------------------------
________________
HESAॐॐRASAE
आनीय वनपालेन, क्षितिपालस्य दर्शितम् । तत्पक्कं तुष्टचित्तेन, सङ्क्षिहरणक्षमम् ॥ ३८५ ॥ तन्माकन्दफलं दुष्टमविज्ञाय प्रमोदतः । अदायि युवराजस्य, राज्ञा दृष्ट्वा मनोरमम् ॥ ३८६ ॥ प्रसाद इति भाषित्वा, तदादाय नृपात्मजः । चखादासुहरं घोरं, कालकूटमिव द्रुतम् ॥ ३८७ ॥ए हर स तत्खादनमात्रेण, बभूव प्राणवर्जितः । जीवितं हरते कस्य, दुष्टसेवा न कल्पिता? ॥ ३८८ ॥ विपन्नं वीक्ष्य राजन्यं, राजा चूतमखण्डयत् । उद्यानमण्डनीभूतं, कोपानलवितापितः ॥ ३८९ ॥ काशशोकजराकुष्ठच्छर्दिशूलक्षयादिभिः । रोगैर्जीवितनिर्मिना, दुःसाधैः पीडिता जनाः ॥ ३९० ॥ अनिशविषमाकन्दं, खण्डितं क्षितिपालिना । आदायाऽखादिषुः सर्वे, प्राणमोक्षणकाङ्गिणः॥३९१॥ युग्मम् ॥ तदाखादनमात्रेण, सर्वव्याधिविवर्जिताः। अभूवन्निखिलाः सद्यो, मकरध्वजमूर्तयः ॥ ३९२ ॥ आकर्ष्याकल्यतां राजा, तानाहाय सविस्मयः। प्रत्यक्षीकृत्य दुश्छेद्य, विपादं तरसाऽगमत् ॥ ३९३ ॥ विचित्रपत्रसङ्कीर्णः, क्षितिमण्डलमण्डितः। सर्वाश्चासकरतो, यश्चक्रीव महोदयः ॥ ३९४ ॥ दूरीकृतविचारेण, कोपान्धीकृतचेतसा । निर्मूलकापमुत्तुङ्गः, स मया कषितः कथम् ? ॥ ३९५ ॥ युग्मम् ॥ अविचार्य फलं दत्तं, हा किं दुर्मेधसा मया । यदि दत्तं कुतश्छिन्नभूतो रोगनिसूदकः ॥ ३९६ ॥ इत्थं वानलेनेष, दुर्निवारण सन्ततम् । अदखत चिरं राजा, पश्चात्तापेन मानसे ॥ ३९७ ॥
LOCACACACACAUSA
Page #36
--------------------------------------------------------------------------
________________
धर्म
॥ १६ ॥
पूर्वापरेण कार्याणि विदधात्यपरीक्ष्य यः । पश्चात्तापमसौ तीव्रं, चूतघातीव गच्छति ॥ ३९८ ॥ असूचि चूतघातीत्यं, बहिर्भूतविचारणः । साम्प्रतं कथ्यते क्षीरः, श्रूयतामवधानतः ॥ ३९९ ॥ वोहारविषये ज्यातः, सागराचारवेदकः । वणिक्सागरदत्तोंऽभूजलयात्रापरायणः ॥ ४०० ॥ उत्तीर्य सागरं नक्र - मकरग्राहसंकुलम् । एकदा पोतमारुह्य, चोचद्वीपमसौ गतः ॥ ४०१ ॥ वाणी जिनेश्वरस्येंव, सुखदानपटीयसी । गच्छता सुरभिनता, तेनैका क्षीरदायिनी ॥ ४०२ ॥ अन्येद्युः पायसीं नीत्वा, शुभखादां सुधामिव । तोमरो वीक्षितस्तेन, कायाकान्तिवितारिणीम् ॥ ४०३ ॥ संस्कृत्य सुन्दरं दमा, शाल्योदनमनुत्तमम् । दत्वा तेनेक्षितोऽन्येद्युः, पीयूषमिव दुर्लभम् ॥ ४०४ ॥ अलब्धपूर्वकं भुक्त्वा, मिष्टमाहारमुज्वलम् । प्रहृष्टचेतसाऽवाचि, तोमरेण स वाणिजः ॥ ४०५ ॥ वणिक्पते ! त्वया दिव्यं, केदृशं लभ्यतेऽशनम् ? । तेनावाचि ममेदृक्षं, कुलदेव्या प्रदीयते ॥ ४०६ ॥ भणितो म्लेच्छनायेन तेनासौ वणिजस्ततः । खकीया दीयतां भद्र ! ममेयं कुलदेवता ॥ ४०७ ॥ वणिजोक्तं तवात्मीयां, ददामि कुलदेवताम् । ददासि काङ्क्षितं द्रव्यं, यदि द्वीपपते ! मम ॥ ४०८ ॥ द्वीपेशेन ततोऽवाचि, मा कार्षीभद्र ! संशयम् । गृहाण वाञ्छितं वित्तं देहि मे कुलदेवताम् ॥ ४०९ ॥ मनीषितं ततो द्रव्यं, गृहीत्वा वणिजो गतः । समर्प्य सुरभिं तस्य, पोतेनोचीर्य सागरम् ॥ ४१० ॥
परीक्षा.
॥ १६ ॥
Page #37
--------------------------------------------------------------------------
________________
तोमरणोदिताऽन्येधुः, पुरः पात्रं निधाय गौः। देहि तं दिव्यमाहारं, वणिजस्य ददासि यम् ॥ ४११॥ तेनेति भाषिता धेनुर्मूकीभूय व्यवस्थिता । कामुकेनाऽविदग्धेन, विदग्धेव विलासिनी ॥४१२॥ अवदन्ती पुनः प्रोक्ता, यच्छ मे कुलदेवते! । प्रसादेनाशनं दिव्यं, भक्तस्य कुरु भाषितम् ॥ ४१३॥ . मूकी रष्ट्वाऽमुनाऽवादि, प्रातर्दद्या ममाशनम् । स्मरन्ती श्रेष्ठिनो देवि, त्वं ति(ष्ठाऽत्र)निराकुला ॥ ४१४ ॥ द्वितीये वासरेऽवाचि, निधायाने विशालिकाम् । खस्थीभूता ममेदानी, देहि भोज्यं मनीषितम् ॥४१५॥ दृष्ट्वा वाचंयमीभूतां, कुद्धचित्तस्तदापि ताम् । द्वीपतो धाटयामास, प्रेष्य कर्मकरानसौ ॥४१६ ॥ वीक्षध्वमस्य मूढत्वं, यो नेदमपि बुध्यते । याचिता न पयो दत्ते, गौः कस्यापि कदाचन ॥ ४१७॥ निरस्ता तारशी धेनुस्तेन म्लेच्छेन मौढ्यतः। अज्ञानहस्ते पतितं, रत्नं व्यर्थ प्रजायते ॥४१८ ॥ दुग्धं सदपि नो धेनु-र्ददौ तस्याऽविचारिणः । एवं विचारशून्यानां, पुरो दत्ते न वाक्फलम् ॥ ४१९ ॥ कथमेषा पयो दाख-यधुना मुग्धधीरसौ । इदं नो पृच्छति स्पष्टमतो मूर्खशिरोमणिः ॥ ४२०॥ हितं पृष्टा सुधीभ्यो ये, कार्य कुर्षन्ति ते बुधाः । लभन्ते सौख्यमधिकं, परत्रेह महोदयाः ॥ ४२१ ॥ अयेदं कषितं धीरं, प्रासं म्लेच्छेन नाशितम् । अवाप्याज्जानिना ध्वस्तः, सांप्रतं कथ्यते गुरुः ॥ ४२२ ॥ सावकितावालाग्रजरबोजनि । रातिमचमाताकुम्भमेदनकेसरी ॥१२३ ॥
Page #38
--------------------------------------------------------------------------
________________
धर्म
॥१७॥
* सपना
क्रीडया विपुलक्रीडो, निर्गतो बहिरेकदा । देवीयः स गतो हित्वा, सैन्यं मत्रीद्वितीयकः ॥ ४२४ ॥ सुनामपरीक्षा दृष्ट्वकमग्रतो भृत्य, भूयोऽभाषत मन्त्रिणम् । कोऽयं ना ? कस्य भृत्योऽयं, पुत्रोऽयं कस्य कथ्यताम् ॥ ४२५ ॥ मन्त्री ततोऽवदद्देव ! ख्यातोऽयं हालिकाख्यया । हरेमहत्तरस्यात्र, तनुजस्तव सेवकः ॥४२६ ॥ देवकीयक्रमाम्भोजसेवनं कुर्वतः सतः। द्वादशैतस्य वर्तन्ते, वर्षाणि क्लेशकारिणः ॥ ४२७ ॥ मन्त्री भूपतिनाऽभाणि, विरूपं भवता कृतम् । भद्रेदं कथितं यन्न, मया(मा)स्य क्लेशकारणम् ॥ ४२८ ॥ पदाति क्लिष्टमक्लिष्टं, सुसेवकमसेवकम् । समस्तं मन्त्रिणा ज्ञात्वा, कथनीयं महीपतेः ॥ ४२९ ॥ खाध्यायः साधुवर्गेण, गृहकृत्यं कुलस्त्रिया । प्रभुकृत्यममात्येन, चिन्तनीयमहर्निशम् ॥ ४३० ॥ ततो भूपतिनाऽवाचि, हाकिस्तुष्टचेतसा । शङ्खराढाभिधं भद्र! मडम्बं स्वीकुरुत्तमम् ॥ ४३१ ॥ युक्तं भद्र ! गृहाणेदं, ग्रामैः पञ्चशतप्रमैः । ददानैर्वाञ्छितं वस्तु, कल्पवृक्षैरिवापरैः ॥ ४३२ ॥ हालिकेन ततोऽवाचि, निशम्य नृपतेर्वचः । किं करिष्याम्यहं ग्रामैरेकाकी देव ! भूरिभिः॥ ४३३ ॥ गृहीतुं तस्य युज्यन्ते, दीयमानाः सहस्रशः । ग्रामाः पदातयो यस्य, विद्यन्ते प्रतिपालकाः ॥ ४३४ ॥ स ततो गदितो राज्ञा, भद्र ! ग्रामैमनोरमैः । विद्यमानैः स्वयं भृत्या, भविष्यन्ति प्रपालकाः ॥४३५॥ मामेभ्यो जायते द्रव्यं, द्रव्यतो भृत्यसम्पदः । भृत्यैर्निषेवितो राजा, द्रव्यतो नोत्तमं परम् ॥ ४३६ ॥
॥१७॥
Page #39
--------------------------------------------------------------------------
________________
कुलीनः पण्डितो मान्यः शूरो न्यायविशारदः । जायते द्रव्यतो मर्त्यो, विदग्धो धार्मिकः प्रियः ॥ ४३७ ॥ योगिनो वाग्मिनो दक्षा, वृद्धाः शास्त्रविशारदाः । सर्व्वे द्रव्याधिकं भक्त्या, सेवन्ते चाटुकारिणः ॥ ४३८ ॥ . सर्व्वे कर्म्मकरास्तस्य सर्व्वे तस्य प्रियङ्कराः । सर्व्वे वशंवदास्तस्य द्रव्यं यस्यास्ति मन्दिरे ॥ ४३९ ॥ चक्रिणः केशवा रामाः सर्व्वे ग्रामप्रसादतः । पराधासो (परांधसो) रण श्रीका, गौरवं प्रतिपेदिरे ॥ ४४० ॥ ततोऽजल्पदसौ देव ! दीयतां मे प्रसादतः । क्षेत्रमेकं सदाकृष्यं, वृक्षपर्व्वतवर्जितम् ॥ ४४१ ॥ ततोsध्यासीन्नृपो नाय - मात्मनो बुध्यते हितम् । विद्यते धिषणा शुद्धा, हालिकानां कुतोऽथवा ? ॥ ४४२ ॥ उक्तो मन्त्री ततो राज्ञा, जीवतादेष दीयताम् । क्षेत्रमागुखं भद्र ! काष्ठान् विक्रीय हालिकः ॥ ४४३ ॥ अदर्शयत्ततो मन्त्री, क्षेत्रं तस्यागुरुटुमैः । इष्टवस्तुप्रदैः कीर्ण, कल्पपादपसंनिभैः ॥ ४४४ ॥
ततोऽप्यासीदसावेवमहो राजैष लोभवान् । अदत्त कीदृशं क्षेत्रं, व्याकीर्ण विविधैर्दुमैः ॥ ४४५ ॥ विस्तीर्णमअनच्छायं, सुभूमि निरुपद्रवम् । छिन्नं सिन्नं मया क्षेत्रं, याचितं दत्तमन्यथा ॥ ४४६ ॥ ग्रहणामीदमपि क्षेत्र, करिष्यामि स्वयं शुभम् । यदीदमपि नो दत्ते, राजा किं क्रियते तदा ? ॥ ४४७ ॥ ततः प्रसाद इत्युक्त्वा, गेहमागत्य हालिकः । कुण्ठारं शातमादाय, कुधीः क्षेत्रमशिश्रियत् ॥ ४४८ ॥ दुरापा द्रव्यदाश्छित्वा दग्धास्तेनागुरुद्रुमाः । निर्विवेका न कुर्व्वन्ति, प्रशस्तं क्वाप्यनुत्थितम् १ ॥ ४४९ ॥
Page #40
--------------------------------------------------------------------------
________________
धर्म
॥ १८ ॥
कृषिकम्मोचितं सद्यः शुद्धं हस्ततलोपमम् । अकारि हालिकेनेदमन्यायेनेव मन्दिरम् ॥ ४५० ॥ तोषतो दर्शितं तेन राज्ञः क्षेत्रं विशोषितम् । अज्ञानेनापि तुष्यन्ति, नीचा दर्पपरायणाः ॥ ४५१ ॥ हालिको भणितो राज्ञा, किमत्रोतं त्वयेदृशे । तेनोक्तं कोद्रवा देव ! सम्यक् कृष्ट्रा महाफलाः ॥ ४५२ ॥ विलोक्य दुर्मतिं तस्य, भुभुजा भणितो इली । दग्धानामत्र वृक्षाणां किं रे किञ्चन विद्यते १ ॥ ४५३ ॥ हस्तमात्रं ततस्तेन, खण्डमानीय दर्शितम् । दग्धशेषं तरोरेकं राज्ञा दृष्ट्वा स भाषितः ॥ ४५४ ॥ विक्रीणीष्वेदमट्टे त्वं नीत्वा भद्र! लघु व्रज । तेनोक्तं देव । किं मूल्यं १ काष्ठस्यास्य भविष्यति ॥ ४५५ ॥ हसित्वा मुभुजा भाषि, हालिको बुद्धिदुर्विधः । तदेव भद्र ! गृह्णीया, यत्ते दास्यति वाणिजः ॥ ४५६ ॥ हट्टे तेन ततो नीतं, काष्ठखण्डं विलोक्य तत् । दीनारपञ्चकं तस्य, मूल्यं प्रादत्त वाणिजः ॥ ४५७ ॥ हालिकोऽसौ ततो दध्यौ, विषादानलतापितः । अज्ञात्वा कुर्व्वतः कार्य, तापः कस्य न जायते १ ॥ ४५८ ॥ यदीदं लभ्यते द्रव्यं, खण्डेनैकेन विक्रये । समस्तानां तदा मूल्यं, वृक्षाणां केन गण्यते १ ॥ ४५९ ॥ निधानसदृशं क्षेत्रं, वित्तीर्ण मम भुभुजा । अज्ञानिना च तथर्थ, हारितं पापिना मया ॥ ४६० ॥ अकरिष्यमहं रक्षां द्रुमाणां यदि यत्नतः । अभविष्यत्तदा द्रव्यमाजन्म सुखसाधनम् ॥ ४६१ ॥ इत्थं स हालिको दूनः पश्चात्ताप्राभिना चिरम् । दुःसहेनाऽतिवीर्येण विरहीव मनोभुवा ॥ ४६२ ॥
परीक्षा.
॥ १८ ॥
Page #41
--------------------------------------------------------------------------
________________
साराऽसाराणि यो वेत्ति, न वस्तूनि निरस्तधीः । निरस्यति करप्राप्त, रत्नमेषोऽन्यदुर्लभम् ॥ ४६३॥ लागलीवास्ति यद्यत्र, सारासार(रा)विवेचकः । विभेमि पृच्छयमानोऽपि, तदा वक्तुमहं द्विजाः ॥ ४६४ ॥ दुरापागरुविच्छेदी, भाषितो निर्विचारणः । युष्माकं चन्दनत्यागी, श्रूयतां भाव्यतेऽधुना ॥ ४६५ ॥ मध्यदेशे सुखाधारे, महनीये कुरूपमे । राजा शान्तमना नाम्ना, मथुरायामजायत ॥ ४६६ ॥ एकदा दुर्निवारेण, ग्रीष्मार्केणेव सिन्धुरः । पित्तज्वरेण धात्रीशो, विह्वलोऽजनि पीडितः ॥ ४६७ ॥ तस्योपचर्यमाणोऽपि, भेषर्वीर्यधारिभिः । तापोऽवर्धत दुश्छेदः, काष्टैरिव विभावसुः ॥ ४६८ ॥ चिकित्सामष्टधा वैद्या, विदन्तोऽप्यभवन् क्षमाः । तापोपशमने नास्य, दुर्जनस्येव सजनाः ॥ ४६९ ॥ तं वर्धमानमालोक्य, दाहं देहे महीपतेः । मत्रिणा घोषणाऽकारि, मथुरायामशेषतः ॥ ४७० ॥ दाहं नाशयते राज्ञो, यः कश्चन शरीरतः । ग्रामाणां दीयते तस्य, शतमेकं सगौरवम् ॥ ४७१ ॥ कण्ठाभरणमुत्कृष्टं, मेखला खलु दुर्लभा । दीयते वस्त्रयुग्मं च, राज्ञा परिहितं निजम् ॥ ४७२ ॥ इतश्चन्दनदार्वेको, वाणिजो निर्गतो बहिः । ददर्श दैवयोगेन, रजकस्य करस्थितम् ॥ ४७३ ॥ गोशीर्षचन्दनं काष्ठं, तेन ज्ञात्वाऽलिसङ्गतः । भणितोऽसौ त्वया भद्र!, क लब्धं निम्बकाष्ठकम् १॥ ४७४ ॥ तेनाऽवादि मया प्रासं, वहमानं नदीजले । वणिजोक्तमिदं देहि, गृहीत्वा काष्ठसञ्चयम् ॥ ४७५॥
Page #42
--------------------------------------------------------------------------
________________
धर्म
॥ १९ ॥
साधो गृहाण को दोष- स्तेनोक्त्वेति विचेतसा । आदाय दारुसन्दोहं, वित्तीर्ण वाणिजाय तत् ॥ ४७६ ॥ वणिजागत्य वेगेन, घर्षित्वा बुद्धिशालिना । बिलिप्सो भूपतेर्देहश्चन्दनेनाऽमुनाऽभितः ॥ ४७७ ॥ तस्य स्पर्शेन निःशेषस्तापो राज्ञः पलायितः । इष्टस्येव कलत्रस्य, दुरुच्छेदो वियोगिनः ॥ ४७८ ॥ पूजितो वाणिजो राज्ञा ( ज्यं), दत्वा भाषितमञ्जसा । उपकारो वरिष्ठानां, कल्पवृक्षाय ते कृतः ॥ ४७९ ॥ काष्ठप्रसादतः पूजां वणिजस्य निशम्य ताम् । स्वशिरस्ताङमाक्रन्दीद्रजकः शोकतापितः ॥ ४८० ॥ रजकप्रतिमो विप्रो, विद्यते यदि कश्चन । विभेम्यहं तदा तत्त्वं पृच्छयमानोऽपि भाषितुम् ॥ ४८१ ॥ इत्थं सुचन्दनत्यागी, भाषितो ज्ञानदुर्विधः । सर्वनिन्दास्पदं मूर्खः, साम्प्रतं प्रतिपाद्यते ॥ ४८२ ॥ चत्वारोऽथ महामूर्खा, गच्छन्तः कापि लीलया । मुमुक्षु मे कम द्राक्षुर्जिनेश्वरमिवानघम् ॥ ४८३ ॥ भून्यस्तमस्तास्तेऽपि पादौ तस्य वयन्दिरे । तारकौ भवपाथोधे-र्वारकौ नरकापदाम् ॥ ४८४ ॥ धर्मलाभाशिषं तेषां चतुर्णामप्यसौ मुनिः । पापाद्रिभेदवज्राभां सर्व्वदुःखविनाशिनीम् ॥ ४८५ ॥ उपेत्यैकं योजनांतं, विवदन्ते स्म ते मिथः । जडानां स्यात् कुतो बुद्धिः सम्यग्मार्गानुयायिनी ॥ ४८६ ॥ अजल्पदेकः साधुः स, धर्म्मलाभमदत्त मे । परोऽप्येवमभूत्तेषां कलिरेवं विवादिनाम् ॥ ४८७ ॥ अजल्पदेकः किं राटिर्जडा व्यर्थ विधीयते ? । पृच्छयतां साधुरेवासौ न तमः सति भास्करे । ४८८ ॥
परीक्षा.
॥ १९ ॥
Page #43
--------------------------------------------------------------------------
________________
निशम्येति वचस्तस्य, ते मुनिं तं बभाषिरे । भवद्दत्तो धर्म्मलाभश्चतुर्णां कस्य जायते ? ॥ ४८९ ॥ मुनिराख्यद्भवन्मध्येऽतिशयेनास्ति यो जडः । तेऽप्याचख्युरहमहं, धर्म्मलाभाभिलाषुकाः ॥ ४९० ॥ साधुर्जगाद नगरे, गत्वा पण्डितवाक्यतः । विवेचयध्वं जडतां मा कार्षुर्मे कर्लि पुरः ॥ ४९१ ॥ जडाः साधुवचः श्रुत्वा, सद्यस्ते नगरं गताः । राटिमत्यस्य के साधोर्नाङ्गीकुर्व्वन्ति भाषणम् ? ॥ ४९२ ॥ अथ ते पत्तनं गत्वा, पौराणां पुरतोऽवदन् । पौरा युष्माभिरस्माकं, व्यवहारो विचार्यताम् ॥ ४९३ ॥ पौरैरुक्ता जडा भद्रा !, व्यवहारोऽस्ति कीदृशः । एते ततो वदन्ति स्म, सोऽस्माकं मौर्यगोचरः ॥ ४९४ ॥ अवादिषुस्ततः पौराः, वार्ताः खाः स्खा निगद्यताम् । एको मूर्खस्ततोऽवादीत्तावन्मे श्रूयतामिदम् ॥ ४९५ ॥ द्वे भार्ये पिठरोदर्ये, लम्बस्तन्यौ ममोर्जिते । वितीर्णे विधिना साक्षाद्वैताल्याविव भीषणे ॥ ४९६ ॥ प्राणेभ्योऽपि प्रिये ते मे, संपन्ने रतिदायिके । सर्व्वाः सर्व्वस्य जायन्ते खभावेन स्त्रियः प्रियाः ॥ ४९७ ॥ विभेम्यहं वरां (परं) ताभ्यां राक्षसीभ्यामिवानिशम् । स नास्ति जगति प्रायश्चकते यो न योषितः ॥ ४९८ ॥ क्रीडतो मे समं ताभ्यां काले गच्छति सौख्यतः । एकदा शयितो रात्रौ भव्येऽहं शयनोदरे ॥ ४९९ ॥ ते पार्श्वद्वये सुझे, द्वे बाहुद्वितयं प्रिये । अवष्टभ्य ममागत्य, वेगतो गुणभाजने ॥ ५०० ॥ विलासाय मयादायि, भालस्योपरि दीपकः । कामिनो हि न पश्यन्ति, भवन्तीं विपदं सदा ॥ ५०१ ॥
Page #44
--------------------------------------------------------------------------
________________
धर्म
॥ २० ॥
प्रज्वलन्त्यूर्ध्ववक्रस्य, मूषकेण दुरात्मना । पतिता नीयमाना मे, नेत्रस्योपरि वार्तिका ॥ ५०२ ॥ विचिन्तयितुमारब्धं, मयेदं व्याकुलात्मना । जागरित्वा ततः सद्यो, दह्यमाने विलोचने ॥ ५०३ ॥ यदि विध्यापयाम्यग्निं, हस्तमाकृष्य दक्षिणम् । तदा कुप्यति मे कान्ता, दक्षिणाथ परं परा ॥ ५०४ ॥ ततो भार्याभयग्रस्तः स्थितस्तावदहं स्थिरः । स्फुटित्वा नयनं यावद्वामं काणं ममाऽभवत् ॥ ५०५ ॥ ज्वलित्वा स्फुटिते नेत्रे, शशाम ज्वलनः स्वयम् । नाकारि कश्चनोपायो, मया भीतेन शान्तये ॥ ५०६ ॥ मह सदृशो मूर्खो, विद्यते यदि कध्यताम् । यः स्त्रीत्रस्तो निजं नेत्रं, दह्यमानमुपेक्षते ॥ ५०७ ॥ स्फुटितं विषमं नेत्रं, स्त्रीभीतस्य यतस्ततः । ततः प्रभृति संपन्नं, नाम मे विषमेक्षणः ॥ ५०८ ॥
मेक्षणतुल्यो यो, यदि मध्येऽस्ति कश्चन । तदा विभेम्यहं भद्रा !, भाषमाणोऽपि भाषितुम् ॥ ५०९ ॥ एकत्रावसिते मूर्खे, निगद्येति खमूर्खताम् । द्वितीयेनेति प्रारब्धा, शंसितुं ध्वस्तबुद्धिना ॥ ५१० ॥ एकीकृत्य समस्तानि, विरूपाणि प्रजासृजा । कृते भार्ये ममाभूतां, द्वे शङ्केऽर्ककलाघरे ॥ ५११ ॥ वहन्ती परमां प्रीतिं, प्रेयसी चरणं मम । एका क्षालयते वामं, द्वितीया दक्षिणं पुनः ॥ ५१२ ॥ रुक्षीखरीति संज्ञाभ्यां, ताभ्यां सार्धमनेहसि । प्रयाति रममाणस्य, ममेष्टसुखभागिनः ॥ ५१३ ॥ एकं रुक्षी निचिक्षेप, प्रक्षाल्य प्रीतमानसा । पादस्योपरि मे पादं प्राणेभ्योऽपि गरीयसी ॥ ५१४ ॥
परीक्षा.
॥ २० ॥
Page #45
--------------------------------------------------------------------------
________________
%
%
%
%
विलोक्य वेगतः खर्या, क्रमस्योपरि मे क्रमः । भमो मुशलमादाय, दत्तनिष्ठुरघातया ॥ ५१५॥ अर्थतयोमहाराटिः, प्रवृत्ता दुर्निवारणा । लोकानां प्रेक्षणीभूता, राक्षस्योरिव रुष्टयोः॥ ५१६ ॥ अरे रक्षतु ते पादं, त्वदीया जननी खयम् । रुष्टखर्या निगद्येति, पादो भग्नो द्वितीयकः ॥ ५१७ ॥ उभाभ्यां चकितश्चाहं, मूकीभूय व्यवस्थितः। व्याघीभ्यामिव रुष्टाभ्यां, छागः कम्पितविग्रहः ॥ ५१८ ॥ यतो भार्याविभीतेन, पाद(दो)भग्नोऽप्युपेक्षितः । कुटहंसगतिर्नाम, मम जातं पुनस्तदा ॥ ५१९ ॥ मम पश्यत मूर्खत्वं, तदा योऽहं व्यवस्थितः। स्थिरो वाचंयमीभूय, कान्ताभीतिकरालितः ॥५२० ॥ कुटहंसगतेस्तुल्या, ये नराः सन्ति दुर्धियः । न तेषां पुरतस्तत्त्वं, भाषणीयं मनीषिणा ॥ ५२१ ॥ निगद्येति निजां वाता, द्वितीये विरते सति । तृतीयो बालिशो दिष्टया, भाषितुं तां प्रचक्रमे ॥ ५२२ ॥ खकीयमधुना पौरा, मूर्खत्वं कथयामि वः । सावधानं मनः कृत्वा, युष्माभिरवधार्यताम् ॥ ५२३ ॥ एकदा श्वशुरं गत्वा, मयाऽऽनीता मनःप्रिया । अजल्पती मया प्रोक्ता, शयनीयमुपेयुषी ॥ ५२४ ॥ यो जल्पत्यावयोः पूर्व, हार्यन्ते तेन निश्चितम् । कृशोदरि! दशापूपाः, सपिर्गुडविलोडिताः ॥ ५२५ ॥ ततो वल्लभया प्रोक्तमेवमस्तु विसंशयम् । कुलीनाभिर्वचो भर्तुः, कापि न प्रतिकूल्यते ॥ ५२६ ॥ आवयोः स्थितयोरेवं, प्रतिज्ञारूढयोः सतोः। प्रविश्य सकलं द्रव्यं, चौरेणाहारि मन्दिरे ॥ ५२७ ॥
%
%
Page #46
--------------------------------------------------------------------------
________________
धर्म
॥ २१ ॥
न तेन किंचन त्यक्तं, गृहता द्रविणं गृहे । छिद्रेऽहिजारचौराणां, जायते प्रभविष्णुता ॥ ५२८ ॥ प्रियायाः क्रतुमारब्धे, तेनाधः परिधानके । जल्पितं रे दुराचार !, त्वं किमद्याभ्युपेक्षसे ॥। ५२९ ॥ आकृष्टे मे वरीयेऽपि त्वं जीवसि कथं शठः ? । जीवितव्यं कुलीनानां भार्यापरिभवाऽवधि ॥ ५३० ॥ तदीयं वचनं श्रुत्वा, विहस्य भणितं मया । हारितं हारितं कान्ते !, प्रथमं भाषितं त्वया ॥ ५३१ ॥ गुडेन सर्पिषा मिश्राः, प्रतिज्ञाताः स्वयं त्वया । पङ्कजाक्षि दशापूपा, दीयन्तां मम सांप्रतम् ॥ ५३२ ॥ इदं पश्यत मूर्खत्वं मदीयं येन हारितम् । सर्व पूर्वार्जितं द्रव्यं दुरापं धर्म्मशर्मदम् ॥ ५३३ ॥ तदा वोट इति ख्यातं मम नाम जनैः कृतम् । विडम्बनां न कामेति, प्राणी मिध्याभिमानतः १ ॥ ५३४ ॥ वोटेन सदृशा मूर्खा, ये भवन्ति नराधमाः । न तेषामधिकारोऽस्ति, सारासारविचारणे ॥ ५३५ ॥ मूर्खत्वं प्रतिपाद्येति तृतीयेऽवसिते सति । प्रारेमे बालिशस्तुर्यो, भाषितुं लोकभाषितः ॥ ५३६ ॥ raiseमेकदा नेतुं वशुरं निजवल्लभाम् । मनीषितसुखाधारं, स्वर्गवासमिवापरम् ॥ ५३७ ॥ विचित्रवर्णसङ्कीर्ण, स्निग्धं प्रह्लादनक्षमम् । स्वग्रामे भोजनं दत्तं निजवाक्यमिवोज्वलम् ॥ ५३८ ॥ न लज्जां वहमानेन, मयाडुमोजि प्रियङ्करम् । विकलेन दुरुच्छेदां, व्यथामिव दुरुत्तराम् ॥ ५३९ ॥ मेकवधूर्दृष्ट्वा न मयाऽकारि भोजनम् । द्वितीयेऽपि दिने तत्र, व्यथा ( देव्य) इव सविग्रहाः ॥ ५४० ॥
परीक्षा.
॥ २१ ॥
Page #47
--------------------------------------------------------------------------
________________
हार, तन्दुले म बलभा । मामा मातुः काण्डेऽपि,
तृतीये वासरे जातः, प्रबलो जाठरोऽनलः । सर्वाङ्गीणमहादाहः, क्षयकालानलोपमः ॥ ५४१ ॥ शयनाधस्तनो भागो, मयालोकि शनैस्ततः । बुभुक्षापीडितः कस्य, सम्मुखं न विलोकते ॥ ५४२॥ विशालं भाजनं तत्र, शालीयैस्तन्दुलै तम् । विलोकितं मया व्योम, शुद्धैश्चन्द्रकरैरिव ॥ ५४३ ॥ मयालोक्य गृहद्वारं, तन्दुलैः पूरितं मुखम् । उदरानलतप्तस्य, मर्यादा हि कुतस्तनी? ॥ ५४४ ॥ तस्मिन्नेव क्षणे तत्र, प्रविष्टा मम वल्लभा। त्रपमाणमनास्तस्याः, फुल्लगल्लाननः स्थितः ॥ ५४५ ॥ उत्फुल्लगलं मां वीक्ष्य, स्तब्धीकृतविलोचनम् । सा मातुः सूचयामास, शङ्कमाना महाव्यथाम् ॥ ५४६ ॥ श्वश्रूरागत्य मां दृष्ट्वा, सन्दिग्धा जीवितेऽजनि । प्रेम पश्यत्यकाण्डेऽपि, प्रियस्य विपदं पराम् ॥ ५४७ ॥ यथा यथा मम श्वश्रूर्गल्लो पीडयते शुचा । तथा तथा स्थितः कृत्वा, स्तब्धो विह्वलविग्रहः ॥ ५४८ ॥ रुदन्तीं मे प्रियां श्रुत्वा, सर्वा ग्रामीणयोषितः । मिलित्वाऽवादिषुाधीन् , योजयन्त्यः सहस्रशः ॥५४९॥ एका जगाद मातृणां, सपर्या न कृता यतः। ततोऽजनिष्ट दोषोऽयं, परमस्ति न कारणम् ॥ ५५॥ अभाणीदपरा दोषो, देवतानामयं स्फुटम् । आकस्मिकीदृशी पीडा, जायते परथा कथम् ? ॥ ५५१ ॥
इत्थं तासु बदन्तीपु, रामासु व्याकुलात्मसु । आगतः सा (सोऽ) वरो वैद्यो, भाषमाणः खवैद्यताम् ॥५५२॥ ....आहूय त्वरया कृत्वा, दोषोत्पत्ति निवेद्य ताम् । दास्थाहं दर्शितः श्वश्वा, वैद्यस्मातुरचित्तया ॥ ५५३ ॥
Page #48
--------------------------------------------------------------------------
________________
धर्म
॥ २२ ॥
• मलेव मे दृष्ट्वा, कपोलौ प्रावनिष्ठुरौ । स्पृष्ट्वा हस्तेन सोऽध्यासीदिङ्गिताकारपण्डितः ।। ६५४ ॥ अचर्वितं मुखे क्षिप्तं, किंचनास्य भविष्यति । बुभुक्षार्त्तस्य शङ्केऽहं चेष्टाऽन्यस्य न हीदृशी ॥ ५५५ ॥ खट्वाऽधःस्थं तन्दुलानां, पात्रं दृष्ट्वाऽवदद्भिषक् । मातर्व्याधिस्तन्दुलीयो, दुःसाध्योऽस्याऽभवद्भृशम् ॥ ५५६ ॥ भूरि हव्यं काङ्क्षितं मे, दत्सि चेन्मातरेककं । कुर्वे नीरोगिणं तर्हि, प्रपेदे सापि तद्वचः ॥ ५५७ ॥ पाटयित्वा कपोलौ मे, तेन शालीयतन्दुलाः । दर्शिताः कीटका नानाकारा इत्युक्तिपूर्वकम् ॥ ५५८ ॥ लब्ध्वा स काङ्क्षितं द्रव्यं, वैद्यस्तुष्टो गृहं गतः । दुर्निवारा मया सोढा, पीडा मूकेन मौर्यतः ॥ ५५९ ॥ हासं हासं तदा लोकैर्गलस्फोटिकनामने (तः) । कृतं हास्यं न किं याया, दुष्टवेष्टानिविष्टधीः ॥ ५६० ॥ मौर्य मे यादृशं पौरास्तादृशं वापि संश्रुतम् । दृष्टं वापि ? यतो गलस्फोटे मूकोऽहमास्थितः ॥ ५६१ ॥ पौरैरुक्ताश्च चत्वारस्तेऽपि मौर्याभिमानिनः । मौर्य निजं शोचयध्वं गत्वा पार्थे तपखिनः ॥ ५६२ ॥ एवं च मूर्खाश्चत्वारो, दर्शिता यदि तादृशः । युष्मन्मध्येऽस्ति भो विप्रस्तदा वक्तुं विभेम्यहम् ॥ ५६३ ॥ रागावलोचनो रक्तो, द्विष्टो द्वेषकरः खलः । विज्ञानविकलो मूढो, व्युद्वाही स मतः खलः ॥ ५६४ ॥ पैत्तिको विपरीतात्मा, चूतच्छेद्यपरीक्षकः । अज्ञानः सुरभित्यागी, सशोकोऽगरुविक्रयी ॥ ५६५ ॥ विक्रीतचन्दनो लोभी, बालिशो निर्विवेचनः । दशैते यदि युष्मासु, तदा वक्तुं विभेम्यहम् ॥५६६ ॥ त्रिभिः कुलकम्
परीक्षा.
॥ २२ ॥
Page #49
--------------------------------------------------------------------------
________________
LEARCH
अवादिपुस्ततो विप्रा!, भद्रास्माभिर्विचारकैः । द्विजितः शास्यते सद्यः, सौपणैरिव पन्नगः ॥ ५६७॥ अभाषिष्ट ततः खेटः, शङ्का चेतसि मे द्विजाः!। अद्यापि विद्यते कामं, खवाक्याग्रहशङ्किनः॥ ५६८॥ नासनं पेशलं यस्य, नोन्नता शरयत्रिकी। न नवः पुस्तकः श्रेष्ठो, न भन्यो योगपट्टकः ॥ ५६९॥ न पादुका युगं रम्यं, न वेषो लोकरञ्जकः । न तस्य जल्पतो लोकैः, प्रमाणीक्रियते वचः ॥ ५७० ॥ नादरं कुरुते कोऽपि, निर्वेषस्य जगत्रये । आडम्बराणि पूज्यन्ते, सर्वत्र न गुणा जनैः ॥ ५७१॥ विप्रास्ततो वदन्ति स्म, मा भैषीः प्रस्तुतं वद । चर्विते चर्वणं कर्तुं, युज्यते न महात्मनाम् ॥ ५७२ ।। मनोवेगस्ततोऽवादीद्यद्येवं द्विजपुङ्गवाः । पूर्वापरविचारं मे, कृत्वा खीक्रियतां वचः ॥ ५७३ ॥ इहास्ति पुण्डरीकाक्षो, देवो भुवनविश्रुतः । सृष्टिस्थितिविनाशानां, जगतः कारणं परम् ॥ ५७४ ॥ यस्य प्रसादतो लोका, लभन्ते पदमव्ययम् । व्योमेव व्यापको नित्यो, निर्मलो योऽक्षयः सदा ॥ ५७५॥ धनुःशङ्खगदाचक्रभूषिता यस्य पाणयः त्रिलोकसदनाधार-स्तम्भाः शत्रुविमईकाः ॥ ५७६ ॥ दानवा येन हन्यन्ते, लोकोपद्रवकारिणः । दुष्टा दिवाकरेणेव, तरसा तिमिरोत्कराः ॥ ५७७॥ लोकानन्दकरी हृद्या, श्रीः स्थिता यस्य विग्रहे । तापविच्छेदिका हृद्या, ज्योत्स्नेव हिमरोचिषः ॥ ५७८ ॥ कौस्तुभो भासते यस्य, शरीरे विषह (विविध)प्रभः । लक्ष्म्येव स्थापितो दीपो, मन्दिरे सुन्दरे निजे ॥५७९॥
.
Page #50
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
किं द्विजा भवतां तत्र, प्रतीतिर्विद्यते न वा । सर्वदेवाधिके देवे, वैकुण्ठे परमात्मनि ॥ ५८० ॥ बभापिरे ततो विना, मद्रास्त्येवंविधो हरिः । चराचरजगयापी, कोऽत्र विप्रतिपद्यते ? ॥ ५८१ ॥ दुःखपावकपर्जन्यो, जन्माम्भोधितरण्डकः । यैर्नाङ्गीक्रियते विष्णुः, पशवस्ते नृविग्रहाः ॥ ५८२ ॥ भट्टा यदीदृशो विष्णु-स्तदा किं नन्दगोकुले । त्रायमाणः स्थितो धेनूर्गोपालीकृतविग्रहः? ॥ ५८३ ॥ शिखिपिच्छधरो बद्धकूटः कुटजमालया । गोपालैः सह कुर्वाणो, रासक्रीडां पदे पदे ॥ ५८४ ॥ युग्मम् ॥ दुर्योधनस्य सामीप्यं, किं गतो दूतकर्मणा । प्रेषितः पाण्डुपुत्रेण, पदातिरिव वेगतः? ॥ ५८५ ॥ हस्त्यश्वरथपादातिसङ्कले समराजिरे । किं रथं प्रेरयामास, भूत्वा पार्थस्य सारथिः ॥ ५८६ ॥ किं बलिर्याचितः पृथ्वी, कृत्वा वामनरूपताम् ? । उच्चार्य वचनं दीनं, दरिद्रेणेव दुर्वचः ॥ ५८७ ॥ एवमादीनि कर्माणि, किं युज्यन्ते महात्मनः । योगिगम्यस्य देवस्य, वन्द्यस्य जगतां गुरोः ॥ ५८८ ।। यदीदृशानि कृत्यानि, विरागः कुरुते हरिः । तदा नो निःखपुत्राणां, को दोषो दारुविक्रये ॥ ५८९ ॥ अथ तस्वेदृशी क्रीडा, मुरारेः परमेष्ठिनः । तदा सत्त्वानुरूपेण, साऽस्माकं केन वार्यते ? ॥ ५९० ॥ खेटस्पेति वचः श्रुत्वा, जजल्पुर्द्विजपुङ्गवाः । अस्माकमीशो देवो, दीयते किं तवोत्तरम् १ ॥५९१॥ इदानीं मानसे भ्रान्ति-रस्माकमपि वर्त्तते । करोतीदृशकार्याणि, परमेष्ठी कथं हरिः ॥ ५९२ ॥
*
॥२३॥
Page #51
--------------------------------------------------------------------------
________________
प्रबोधितास्त्वया भद्र!, विमूढमनसो वयम् । दीपकेन विना रूपं, सचक्षुरपि नेक्षते ॥ ५९३ ॥ यदीक् कुरुते विष्णुः, प्रेरितः परमेष्ठिना । तदैष प्रेरितः पित्रा, विधत्ते तृणविक्रयम् ॥ ५९४ ॥ देवे कुर्वति नान्याय, शिष्याणां प्रतिबोधनम् । वित्तापहारके भूपे, तस्करः केन वार्यते ॥ ५९५ ॥ इष्टकर्मपरे विष्णी, परस्यास्ति न दूषणम् । श्रर्दुश्वारिणी यत्र, न स्नुषा तत्र दुष्यति ॥ ५९६ ॥ सरागत्वात्तदंशानां, रागोऽस्ति परमेष्ठिनः । रागित्वेऽवयवानां हि, निरागोऽवयवी कथम् ? ॥ ५९७ ॥ उदरान्तःस्थिते लोके, सीतापहियते कथम् ? । नावासान्तर्गतं यस्तु, बहिर्भवितुमर्हति ॥ ५९८ ॥ व्यापको यद्यसौ देवस्तदेष्टविरहः कथम्? । यदि नित्यो वियोगेन, तदाऽसौ पीडितः कथम् ! ॥ ५९९ ॥ आदेशं तनुतेऽन्यस्य, स कथं भुवनप्रभुः । भृत्यानां कुरुते कर्म, न कदाचन पार्थिवः ॥ ६.०॥ कथं पृच्छति सर्वज्ञो?, याचते कथमीश्वरः । प्रबुद्धः स कथं शेते?, विरागः कामुकः कथम् ? ॥६०१॥ स मत्स्यः कच्छपः कस्मात् , सूकरो नरकेसरी? वामनोऽभूत्रिधा रामः, परप्राणीव दुःखितः ॥ ६०२ ॥ कल्मषैरपरामृष्टः, स्वतन्त्रः कर्मनिर्मितम् । गृह्णाति स कथं कायं?, समस्तामध्यमन्दिरम् ॥६०३॥ युग्मम् । विधाय दानवास्तेन, हन्यन्ते प्रभुणा कथम् । न कोऽपि दृश्यते लोके, पुवाणामपकारकः ॥६०४॥ कध-भक्षयते तृसः सोऽमरो नियते कथम् । निराकृतमयक्रोधः, शसं स्वीक्रियते कथम् ॥६०५॥
Page #52
--------------------------------------------------------------------------
________________
धर्म
॥ २४ ॥
वशारुधिरमांसास्थिमज्जाशुक्रादिदूषिते । वर्चोगृहसमे गर्भे, कथं तिष्ठति सर्ववित् १ ॥ ६०६ ॥ भद्र ] चिन्तयतामित्थं, पूर्वापरविचारणाम् । त्वदीये वचने भक्तिः, संपन्नाऽस्माकमूर्जिता ॥ ६०७ ॥ आत्मनोऽपि न यः शक्तः, सन्देहव्यपनोदने । उत्तरं स कथं दत्ते, परेषां हेतुवादिनाम् १ ॥ ६०८ ॥ खाभू (स्वमुक्त्वा त्वं ततो गच्छ, जयलाभविभूषणः । मार्गयामो वयं देवं, निरस्ताखिलदूषणम् ॥ ६०९ ॥ जन्ममृत्युजरारोग - क्रोध लोभ भयानकः (न्वितः । पूर्वापरविरोधी नो देवो मृग्यः शिवार्थिभिः ॥ ६१०॥ इत्युक्तः खेचरो विप्रैर्निर्जगाम ततः सुधीः । जिनेन्द्र वचनाम्भोभिर्निर्मलीकृतमानसः ॥ ६११ ॥ उपेत्योपवनं मित्रमवादीदिति खेचरः । देवोऽयं लोकसामान्यं, त्वयाश्रावि विचारितः ॥ ६१२ ॥ इदानीं श्रूयतां मित्र !, कथयाम्यपरं तव । प्रक्रमं संशयध्वान्तविच्छेदनदिवाकरम् ॥ ६१३ ॥
काला मित्र ! वर्त्तन्ते, भारतेऽत्र यथाक्रमम् । स्वखखभावसंपन्नाः, सर्वदा ऋतवो यथा ॥ ६१४ ॥ शलाकाः पुरुषास्तत्र, चतुर्थसमयेऽभवन् । त्रिषष्टिसङ्ख्यया मान्याः, शशाङ्कोज्वलकीर्त्तयः ॥ ६१५ ॥ चक्रिणो द्वादशार्हन्तश्चतुर्विंशतिरीरिताः । यथाक्रमं नवरामकेशवप्रतिकेशवाः ॥ ६१६ ॥
सर्वेऽपि व्यतिक्रान्ताः, क्षोणीमण्डलमण्डनाः । ग्रस्यते यो न कालेन, स भावो नास्ति विष्टपे ॥ ६१७ ॥ विष्णूनां योऽन्तिम विष्णुर्वदेवाङ्गजोऽभवत् । स द्विजैर्गदितो भक्तैः परमेष्ठी निरञ्जनः ॥ ६१८ ॥
परीक्षा.
॥ २४ ॥
Page #53
--------------------------------------------------------------------------
________________
SSACROCOCCADASAKARS
मीनः कुर्मः पृथुप्रोथो, नरसिंहोऽथ वामनः।रामो रामश्च रामश्च, (कृष्णश्च) बुद्धः कल्की दश स्मृताः॥६१९॥ यमुक्त्वा निष्कलं प्राहुर्दशावर्तगतं पुनः । भण्यते स बुधैर्नाप्तः, पूर्वापरविबाधतः ॥ २०॥ प्रक्रम बलिवन्धस्य, कथयामि तवाधुना । तं योऽन्यथा जनैर्हतः, प्रसिद्धिं मुग्धबुद्धिभिः ॥६२१ ॥ बद्धो विष्णुकुमारण, योगिना लब्धिभागिना । मित्रद्विजो बलिर्दुष्टः, संयतोपद्रवोद्यतः ॥ ६२२ ॥ विष्णुना वामनीभूय, बलिर्वद्धः क्रमैत्रिभिः । इत्येवमन्यथा लोकहीतो मूढमोहितैः ॥ ६२३ ॥ नित्यो निरअनः सूक्ष्मो, मृत्यूत्पत्तिविवर्जितः । अवतारमसौ प्राप्तो, दशधा निष्कलः कथम् ? ॥ २४ ॥ पूर्वापरविरोधाऽऽढ्यं, पुराणं लौकिकं तव । वदाम्यन्यदपीत्युक्त्वा , खेटविग्रहमत्यजत् ॥ ६२५ ॥ वक्रकेशमहाभारः, पुलीन्द्रः कज्जलच्छविः । विद्याप्रभावतः स्थूल-पादपाणिरभूदसौ ॥ ६२६ ॥ ततः पवनवेगोऽपि, मार्जारः कपिलेक्षणः । मार्जारविद्यया कृष्णो, विलुप्तश्रवणोऽजनि ॥ ६२७ ॥ प्रविश्य पत्तनं कुम्भे, विडालं विनिवेश्य सः। तूर्यमाताड्य घण्टां च, निविष्टो हेमविष्टरे ॥ ६२८॥ तूर्यस्वने श्रुते विप्राः, प्राहुरागत्य वेगतः। किं रे वादमकृत्वा त्वं, वर्णपीठमधिष्ठितः १ ॥ ६२९ ॥ ततोऽयोचदसौ विप्रा!, वादनामापि वेमि नो । करोम्यहं कथं वादं, पशुरूपो वनेचरः? ॥ ६३०॥ यद्येवं त्वं कथं मू(रू)ढो, मूर्ख! काञ्चनविष्टरे । निहत्य तरसा तूर्य, भद्र! वादनिवेदकम् ॥ ६३१॥
Page #54
--------------------------------------------------------------------------
________________
धर्म-14
परीक्षा.
॥२५॥
सोऽवादीदहमारूढः, कौतुकेनात्र विष्टरे । न पुनर्वादिदर्पण, तूर्यमास्फाल्य माहनाः! ॥ ६३२ ॥ नाईत्वं यदि मूर्खस्य, हेमपीठाधिरोहणे । उत्तिष्ठामि तदा विप्रा!, इत्युक्त्वाऽवततार सः ॥ ६३३ ॥ विप्रैरुक्तः किमायातस्त्वमति ? ततोऽवदत् । मार्जारविक्रयं कर्तु-मायातोऽहं वनेचरः ॥ ६३४ ॥ ओतोः किमस्य माहात्म्यं ?, किं मूल्यं विद्यते ? वद । इत्यसौ ब्राह्मणैरुक्तो, निजगाद नभश्चरः ॥ ६३५॥ अस्य गन्धेन नश्यन्ति, देशे द्वादशयोजने । आखवो निखिलाः सद्यो, गरुडस्येव पन्नगाः ॥ ६३६ ॥ मूल्यं पलानि पञ्चाशत् , वर्णस्यास्य महौजसः। तदाऽयं गृह्यतां विप्रा!, यदि वोऽस्ति प्रयोजनम् ॥ ६३७ ॥ मिलित्वा ब्राह्मणाः सर्वे, वदन्ति स्म परस्परम् । बिडालो गृह्यतामेप, मूषकक्षपणक्षमः ॥ ६३८ ॥ एकत्र वासरे द्रव्यं, मूषकैर्यविनाश्यते । सहस्रांशोऽपि नो तस्य, मूल्यमेतस्य दीयते ॥ ६३९ ॥ मीलयित्वा ततो मूल्यं, क्षिप्रमग्राहि स द्विजैः । दुरापे वस्तुनि प्राज्ञैर्न कार्या कालयापना ॥ ६४०॥ नभश्चरस्ततोऽवादीत् , परीक्ष्य गृह्यतामयम् । इत्युक्त्वा(क्ता) ब्राह्मणास्तस्याङ्गोपाङ्गानि व्यलोकयन् ॥ ६४१॥ कर्णनाशं निरीक्ष्यास्य, प्रोचिरे तं द्विजातयः । कर्णच्छेदः कथं जातो?, बिडालस्याथ सोऽवदत् ॥६४२॥ गतरात्री वयं मार्गश्रान्ताः सुप्ता यदा तदा । भक्षितो मूपकैरस्य, कर्णः सुरगृहाङ्गणे ॥ ६४३॥ बभाषिरे ततो विप्रा, वचसस्ते परस्परम् । विरोधो जायते मूर्ख!, पूर्वापरविचारणात् ॥ ६४४ ॥
SASARAKA
॥२५॥
Page #55
--------------------------------------------------------------------------
________________
मूषका गन्धतो यस्य, देशे द्वादशयोजने । नश्यन्ति तस्य कर्ण किं, भक्षयन्ति त एव हि ? ॥६४५ ॥ ततोऽवदन्मनोवेगः, किमस्य दोषमात्रतः । गताः परे गुणाः सर्वे?, ततः प्राहुर्द्विजातयः ॥ ६४६ ॥ गता एव गुणा अस्य, दोषतो मिल ! किं न हि ? । कञ्जिकाबिन्दुतो दुग्धं, विनश्यति सुचार्वपि ॥ ६४७ ॥ खगोऽवदद्गुणा नास्य,प्रयान्ति दोषतोऽमुतः। कराः किं भाखतो ध्वान्त-मर्दिता नाशमानुयुः १ ॥६४८॥ वनेचरा वयं निःखदेहजाताः पशूपमाः। भवद्भिः पण्डितैः साध, न क्षमा अत्र जल्पितुम् ॥ ६४९ ॥ जजल्पुर्ब्राह्मणा नास्ति, तव दूषणमत्र मोः !। बिडालदोषहानि च, कुरुष्व सोऽवदत्ततः ॥ ६५०॥ दोषवारणमस्याहं, करोम्यत्र द्विजाः! परम् । बिभेति मे मनः सार्धं, भवद्भिर्जल्पतोऽधिपः ॥ ६५१ ॥ कूपमण्डूकतुल्यस्य, पुरखात् सत्यजल्पने । अपि सजायते शङ्का, मनसि ब्रामणा! मम ॥ ६५२ ॥ खीयं लघु गुरु ब्रूते, सत्यं श्रुतं न मन्यते । यः परार्थखरूपाज्ञ-स्तमाहुः कूपभेकभम् ॥ ६५३ ॥ एकदाऽन्धेः समायातो, हंसः कूपनिवासिना । मण्डूकेनेत्यसौ पृष्टः, कियानन्धिः स इत्यवक् ॥ ६५४ ॥ गरिष्ठोऽसाववग्बाहू, प्रसार्य किमियानिति ? । हंसः प्राह महीयान् भो!, ममैतङ्कपतोऽपि हि ॥ ६५५ ।। मण्डूकेनैवमुक्त सोऽम्भोधिविस्तारमुक्तवान् । हंसवाक्यमिदं सत्यं, मण्डूको न प्रपन्नवान् ॥ ६५६ ॥ एवं मण्डूकतुल्यो यः, सत्यं न प्रतिपद्यते । निवेधं तस्य तत्त्वं न, बुधैः सार्थकवाग्गुणैः ॥ ६५७ ॥
AURANA
Page #56
--------------------------------------------------------------------------
________________
॥२६॥
अथ प्राहुरिमं विप्रा, वयं मूर्खाः किमीरशाः। न विनो येन युक्त्याऽपि, घटमानं वचः स्फुटम् ॥ ६५८॥5 परीक्षा ततोऽमाणीत् खगाधीशनन्दनो बुधनन्दनः। यद्येवं श्रूयतां विप्राः!, स्पष्टयामि मनोगतम् ॥ ६५९ ॥ तापसस्तपसामासीत् , मण्डपः कौशिकामिधः। निवासो गुणरत्नानां, महसामिव भास्करः॥६६॥ विशुद्धविग्रहरेष, नक्षत्रैरिव चन्द्रमाः। निविष्टो भोजनं भोक्तुं, तापसैरेकदा सह ॥ ६६१॥ संस्पर्शभीतचेतस्काश्चण्डालमिव गर्हितम् । एनं निषण्णमालीक्य, सर्वे ते तरसोत्थिताः॥६६२॥ तेन ते तापसाः पृष्टाः, सह(सं)भुआनाः समुत्थिताः । सारमेयमिवालोक्य, किं मां यूयं निगद्यताम् ॥६६३॥ अभाषि तापसैरेष, तापसानां बहिर्भव । कुमारब्रह्मचारी त्वमदृष्टतनयाऽऽननः॥ ६६४ ॥ अपुत्रस्य गतिर्नास्ति, वर्गो नैव च नैव च । ततः पुत्रमुखं दृष्ट्वा, श्रेयसे क्रियते तपः॥ ६६५॥ तेन गत्वा ततः कन्या, याचिताः खजना निजाः । वयोऽतीततया नादुस्तस्मै तां ते कथञ्चन ॥ ६६६ ॥ भूयोऽपि तापसाः पृष्टा, वेगेनागत्य तेन ते । स्थविरस्य न मे कन्यां, कोऽपि दत्ते करोमि किम् ? ॥ ६६७ ॥ तैरुक्तं विधवां वापि, त्वं संगृह्य गृहीभव । नोभयोर्विद्यते दोष, इत्युक्तं तापसागमे ॥६६८ ॥ पत्यौ प्रबजिते क्लीवे, प्रनष्टे पतिते मृते । पञ्चखापत्सु नारीणां, पतिरन्यो विधीयते ॥ ६६९॥
॥२६॥ तेनातो विधवाऽग्राहि, तम्पसादेशवर्तिना । खयं हि विषये लोलो, गुर्वादेशेन किं पुनः ॥ ६७० ॥
Page #57
--------------------------------------------------------------------------
________________
**
***
तस्य तां सेवमानस्य, कन्याऽजनि मनोरमा । नीतिं सर्वध(ज)नाभ्यथ्या, संपत्तिरिव रूपिणी ॥ ६७१॥ अमुष्य बन्धुरा कन्या, साऽजनिष्टाऽष्टवर्षिणी । परोपकारिणी लक्ष्मीः, कृपणस्येव मन्दिरे ॥ ६७२॥ अवादीदेकदा कान्तामसौ मण्डपकौशिकः । तीर्थयात्रां प्रिये कुर्मः, समस्तापविनाशिनीम् ॥ ६७३ ॥ सुतामिमां कस्य हस्ते, न्यासीकुर्वे प्रिये ! वद ? । वर्णवर्णा सुलावण्यां, यौवनागममण्डिताम् ॥ ६७४ ॥ यस्य चैषाऽप्य॑ते कन्या, गृहीत्वा सोऽपि तिष्ठति । न कोऽपि विद्यते लोके, रामारत्नपराङ्मुखः ॥ ६७५ ॥ द्विजिह्वसेवितो रुद्रो, रामादत्तार्धविग्रहः । मन्मथानलतप्ताङ्गः, सर्वथा विषमेक्षणः ॥ ६७६ ॥ देहस्थां पार्वतीं हित्वा, जाह्नवीं यो निषेवते । स मुञ्चति कथं कन्यामासाद्योत्तमलक्षणाम् ॥ ६७७ ॥ यस्य ज्वलति कामाग्नि-हृदये दुर्निवारणः । दिवानिशं महातापो, जलधेरिव वाडयः ॥ ६७८ ॥ कथं तस्यार्पयाम्येनां, धूर्जटेः कामिनः सुताम् । रक्षणायार्यते दुग्धं, मार्जारस्य बुधैर्न हि ॥६७९॥ युग्मम् ॥ सहस्रैर्यो न गोपीनां, तृप्तः षोडशभिहरिः । निषेवितोऽम्भोधिरिव, नदीलक्षैर्गुणोत्तमैः ॥ ६८० ॥ गोपीर्निषेवते हित्वा, यः पना हृदयस्थिताम् । स प्राप्य सुन्दरां रामां, कथं मुञ्चति माधवः १ ॥ ६८१ ॥ ईदृशस्य कथं विष्णोरर्पयामि शरीरजाम् । चौरस्य हि करे रत्नं, केन त्राणाय दीयते ?.॥ ६८२॥ नृत्तदर्शनमात्रेण, मा(सा)रं वृत्तं मुमोच यः । स ब्रह्मा कुरुते किं न, सुन्दरां प्राप्य कामिनीम् ? ॥ ६८३ ॥
*
*
Page #58
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
एकदा विष्टरक्षोमे, जाते सति पुरन्दरः । पप्रच्छ धिषणं साघो!, केनाक्षोभि ममासनम् ॥ ६८४॥ जगाद धिषणो देव!, ब्रह्मणः कुर्चतस्तपः । अर्धाष्टा(अब्दार्धा)ष्टसहस्राणि, वर्त्तन्ते राज्यकाझ्या ॥ ६८५ ॥ प्रभो! तपःप्रभावेण, तस्यायं महता तव । अजनिष्टासनक्षोभस्तपसा किं न साध्यते ॥६८६ ॥ हरे! हर तपस्तस्य, त्वं प्रेर्य स्त्रियमुत्तमाम् । नोपायो वनितां हित्वा, तपसो हरणेऽपरः ॥ ६८७ ॥ ग्राहं ग्राहमसौ स्त्रीणां, दिव्यानां तिलमात्रकम् । रूपं निवर्तयामास, भव्यां रामां तिलोत्तमाम् ॥ ६८८ ॥ मनो मोहयितुं दक्षं, जीर्ण मद्यमिवोर्जितम्। ब्रह्मणः पुरतश्चक्रे, सा नृत्तं रससङ्कुलम् ॥६८९ ॥ शरीरावयवा गुह्या, दर्शिता दक्षया तया । मेघा वर्धयितुं सद्यः, कुसुमायुधपादपम् ॥ ६९० ॥ पादयोङ्योरोविस्तीर्णे जघनस्थले । नाभिविम्बे स्तनद्वन्द्वे, ग्रीवायां मुखपङ्कजे ॥ ६९१ ॥ दृष्टिविश्रम्य विश्रम्य, धावमाना समन्ततः । ब्रह्मणो विग्रहे तस्या-श्चिरं चिकीड चञ्चला ॥ ६९२ ॥. विभेद हृदयं तस्य, मन्दसञ्चारकारिणी। विलासविभ्रमाधारा, सा विन्ध्यस्येव नर्मदा ॥ ६९३ ॥ रक्तं विज्ञाय तं दृष्टया, दक्षिणापश्चिमोत्तराः। भ्रमयन्ती मनस्तस्य, बभ्राम क्रमतो दिशः ॥ ६९४ ॥ लज्जमानः स देवानां, वलिना न निरीक्षते । लज्जाभिमानमायाभिः, सुन्दरं क्रियते कुतः ? ॥ ६९५ ॥ तपो वर्षसहस्रोत्थं, दत्वा प्रत्येकमस्तधीः । एकैकस्यां स काष्ठायां, दिक्षुस्तां व्यधान्मुखम् ॥ ६९६ ॥
SARAKARRAONKAKA
||॥ २७॥
Page #59
--------------------------------------------------------------------------
________________
अत्यासक्तदृशं दृष्ट्वा, साऽऽरुरोह नभस्तलम् । योषितो रक्तचित्तानां वञ्चमां कां न कुर्वते ॥ ६९७ ॥ पञ्चवर्षशतोत्थस्य, तपसो महसा स ताम् । दिदृक्षुरकरोद् व्योम्नि, रासभीयमसौ शिरः ॥ ६९८ ॥ न बभूव तपस्तस्य, न नृत्तं न विलोकनम् । अभूदुभयविध्वंसो, ब्रह्मणो रागसङ्गिनः ॥ ६९९ ॥ सा तं सर्व्वतपोरिक्तं, कृत्वाऽगात् सुरसुन्दरी । मोहयित्वाऽखिलं रामा, वञ्चयन्ति हि रागिणम् ॥ ७०० ॥ इमामनीक्षमाणोऽसौ, विलक्षत्वमुपागतः । दर्शनागतदेवेभ्यः, कुप्यति स्म निरस्तधीः ॥ ७०१ ॥ खरवक्रेण देवानां प्रावर्त्तत स खादने । विलक्षः सकलोऽन्येभ्यः, स्वभावेनैव कुप्यति ॥ ७०२ ॥ अवोचन्नमरा गत्वा, शम्भोरेतस्य चेष्टितम् । आत्मदुःखप्रतीकारे, यतते सकलो जनः ॥ ७०३ ॥ चकर्त्त मस्तकं तस्य, शम्भुरागत्य पञ्चमम् । परापकारिणो मूर्धा, छिद्यते कोऽत्र संशयः १ ॥ ७०४ ॥ त्वदीयहस्ततो नेदं, पतिष्यति शिरो मम । इति तं शप्तवानेष, ब्रह्महत्यापरं रुषा ॥ ७०५ ॥ कुरुष्वानुग्रहं साधो !, ब्रह्महत्याकृतो ममे । इत्येवं गदितो ब्रह्मा, तमूचे पार्वतीपतिम् ॥ ७०६ ॥ असृजा पुण्डरीकाक्षो, यदेदं पूरयिष्यति । हस्ततस्ते तदा शम्भो !, पतिष्यति शिरो मम ॥ ७०७ ॥ प्रतिपद्य वचस्तस्य, कपालप्रतमग्रहीत् । प्रपञ्चो भुवनव्यापी, देवानामपि दुस्त्यजः ॥ ७०८ ॥ ब्रह्महत्यांनिराशा (सा)य, सोऽगमद्धरिसंनिधिम् । पवित्रीकर्तुमात्मानं, न हि कं श्रवते जनः १ ॥ ७०९ ॥
Page #60
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
॥२८॥
ब्रमा मृगगणाकीर्णमविपद्गहनं वनम् । तीव्रकामाग्निसन्ततः, कन याति विचेतनः ॥७१०॥ . विलोक्यनुमतीमृक्षीं, ब्रह्मा तत्र न्यषेवत । ब्रह्मचर्योपतप्तानां, रासभ्यप्यप्सरायते ॥ ७११॥ आसाद्य तरसा गर्ने, सा पूर्णे समये ततः । असूत जाम्बवं पुत्रं, प्रसिद्धं भुवनत्रये ॥७१२॥ यः कामातमना ब्रह्मा, तिरश्चीमपि सेवते । स सुन्दरां कथं कन्यामेनां मोक्ष्यति मूढधीः ? ॥७१३ ॥ अहल्यां चितभूभलिं, दृष्ट्वा गौतमवल्लभाम् । अतिकामाकुलो जातो, विडोजाः पारदारिकः ॥७१४ ॥ गौतमेन क्रुधा शप्तः, स सहस्रभगोऽभवत् । दुःखं न प्राप्यते केन, मन्मथाऽऽदेशवर्त्तिना ? ॥ ७१५॥ मुनेऽनुगृह्यतामेष, त्रिदशैरिति भाषिते । सहस्राक्षः कृतस्तेन, भूयोऽनुग्रहकारिणा ॥७१६॥ इत्थं कामेन मोहेन, मृत्युना यो न पीडितः। नासौ निषणो लोके, देवः कोऽपि विलोक्यते ॥ ७१७ । एक एव यमो देवः, सत्यशौचपरायणः। विपक्षमर्दको धीरः, समवर्तीह विद्यते ॥ ७१८ ॥ स्थापयित्वाऽस्य सांनिध्ये, कन्यां यात्रा करोम्यहम् । ध्यात्वेति स्थापिता तेन, दुहिता यमसन्निधौ ॥७१९॥ सस्त्रीकस्तीर्थयात्रार्थ, गतो मण्डपकौशिकः । भूत्वा निराकुलः प्राज्ञो, धर्मकृत्यैः(त्ये) प्रवर्तते ॥ ७२०॥ मनोभवतरुक्षोणी, दृष्ट्वा सा समवर्तिना । अकारि प्रेयसी खस्य, नास्ति रामासु निःस्पृहः ।। ७२१ ॥ परापहारभीतेन, सा कृतोदरवर्तिनी । वल्लभां कामिनी कामी, क न स्थापयते कुधीः? ॥ ७२२ ॥
ला॥२८॥
Page #61
--------------------------------------------------------------------------
________________
कृष्ट्वा कृष्ट्वा तया सार्धं, भुक्त्वा भोगमसौ पुनः । गिलित्वा कुरुतेऽन्तःस्था, नाशशङ्कितमानसः ॥ ७२३ ॥ इत्थं तया समं तस्य, भुआनस्य रतामृतम् । कालः प्रावर्त्ततात्मानं पश्यतस्त्रिदशाधिकम् ॥ ७२४ ॥ खटिका पुस्तिका रामा, परहस्तं गता सती । नष्टा ज्ञेयाऽथवा पुंसा, घृष्टा स्पृष्टोपलभ्यते ॥ ७२५ ॥ पवनेनैकदाऽवाचि, पावको, भद्र १ सर्वदा । एकः सुधाभुजां मध्ये, यमो जीवति सौख्यतः ॥ ७२६ ॥ तेनैका सा वधूच्धा, सुरतामृतवाहिनी । यामालिकय दृढं शेते, सुखसागरमध्यगः ॥ ७२७ ॥ न तया दीयमानेऽसौ सुखे तृप्यति पावने। नितम्बिन्या जले नित्यं गङ्गयेव पयोनिधिः ॥ ७२८ ॥ कथं मे जायते सङ्गः, समवर्तिखिया समम् ? । पावकेनेति पृष्टोऽसौ, निजगाद समीरणः ॥ ७२९ ॥ रक्ष्यमाणाऽमुना तन्वी, न द्रष्टुमपि लभ्यते । कुत एव पुनस्तस्याः, सङ्गमोऽस्ति विभावसो ! ॥ ७३० ॥ स्वकीयया श्रिया सर्वा, जयन्ती सुरसुन्दरीः । रतं निषेव्य सा तेन, जठरस्था विधीयते ॥ ७३१ ॥ एकाकिनी 'स्थिता स्पष्टं, याममेकं विलोचनैः । बहिःशङ्काऽवसरे सा, केवलं दृश्यते सती ॥ ७३२ ॥ अवाचि वहिना वायो ?, यामेनैकेन निश्चितम् । स्त्रीर्गृह्णामि त्रिलोकस्थाः, कैवाऽऽस्यैकत्र योषिति १ ॥७३३ ॥ एकाकिनीं यौवनस्थां युवानः स्मरविह्वलाम् । कुर्वन्ति सुन्दरीं नात्र, चित्रं किमपि विद्यते ॥ ७३४ ॥ उक्त्वेति वह्निस्तत्रागाद्यत्र मुक्त्वा वहिः स्त्रियम् । विदधाति बहिःशङ्कां यमो गङ्गातटे शुचिः ॥ ७३५ ॥
Page #62
--------------------------------------------------------------------------
________________
官
॥ २९ ॥
निधा ( ध्या) य वनिता वहिस्तां प्रविष्टः सुरापगाम् । विधाय मञ्जुलं रूपं तस्याः सङ्गं प्रचक्रमे ॥ ७३६ ॥ नियन्त्रणाविषण्णा स्त्री, दृष्ट्वाऽन्यं बेगतो नरम् । गृह्णात्यजेव पणचं, तासां यद्यन्रणं क्रुधे ॥ ७३७ ॥ विधाय वहिना सार्धं स सा प्राह भो ! निजे । स्थाने ब्रज यतः स्वाम्यागमनावसरो मम ॥ ७३८ ॥ त्वयाऽऽश्लिष्ट समाञ्चेद्धि, वीक्षते नासिकां तदा । लुनाति मे त्वां च हन्ति, जारं कः क्षमते बली ? ॥७३९ ॥ तामालिङ्ग दृढं वह्निर्जगाद दयिते ! यदि । गच्छामि त्वां विमुच्याशु, तदा मां हन्ति मन्मथः ॥ ७४० ॥ वरं यमेन तेऽध्यक्षं, हतोऽहं निशितेषुभिः । त्वया विना दुरन्तेन, न पुनः कामवहिना ॥ ७४१ ॥ इत्थं वदन्तं तं स्नेहाद्, गिलित्वा साऽन्तरादधे । रोचमाणो नरो नार्या, सद्यो हृदि निवेश्यते ॥ ७४२ ॥ तदन्तःस्थं तमज्ञात्वा तामन्तिकमुपागतः । उदरस्थां यमश्चक्रे, स्त्रीप्रपञ्चो हि दुर्गमः ॥ ७४३ ॥ ततो हुताशेन विना, यागहोमादिकाः क्रियाः । यान्तीर्नाशं वीक्ष्य देवाश्चाभवन्व्याकुला नराः ॥ ७४४ ॥ इन्द्रेणावोचि पवनस्त्वमग्निं भो ! विमार्गय । निवासमस्य सख्येन त्वं वेत्सि परितो व्रजन् । ७४५ ॥ ऊंचे वायुस्त्रिलोक्यांस, देवराज ! गवेषितः । एकत्र देशे न पुनस्तत्र तं शोधयाम्यतः ॥ ७४६ ॥ इत्युक्तिपूर्वकं भोज्यं, परिकल्प्य समीरणः । शक्रप्रभृतिदेवानां चक्रे धाम्नि निमन्त्रणम् ॥ ७४७ ॥ गृहागतानां तेषां स, प्रत्येकं पीठमेककम् । दत्वाऽथ यमस्य पीठत्रितयं स ददौ मुदा ॥ ७४८ ॥
परीक्षा.
॥ २९ ॥
Page #63
--------------------------------------------------------------------------
________________
स्वस्वस्थाने निविष्टेषु देवेषु महिषध्वजः । प्राह वायो ! ममादः किमासनत्रय ढौकनम् ? ॥ ७४९ ॥ यदि मेऽन्तर्गत कान्ता, द्वितीया विद्यते तदा । भागतो द्वितयं देयं, निमित्तं त्रितये वद ॥७५०॥ वदति स्म ततो वायुर्भद्रोद्गिल मनः प्रियाम् । निबुध्यसे स्वयं साधो !, भागत्रितयकारणम् ॥ ७५१ ॥ प्रेतभर्त्ता ततः कान्तां दृष्ट्वोद्गीण सवहिकाम् । क्षिप्रं वभाण तां भद्रे !, त्वमुद्गिल हुताशनम् ॥ ७५२ ॥ तयोद्गीर्णे ततो वहौ, भाखरे विस्मिताः सुराः । अदृष्टपूर्वके दृष्टे, विस्मयन्ते न किं जनाः ? ७५३ ॥ योषा गिलति या बर्हि, ज्वलन्तं मदनातुरा । दुष्करं दुर्गमं वस्तु, न तस्या विद्यते ध्रुवम् ॥ ७५४ ॥ क्रुद्धो यमोऽनलं दृष्ट्वा, दण्डमादाय धावितः । जारे निरीक्षितेऽध्यक्षं, कस्य संपद्यते क्षमा ? ॥ ७५५ ॥ दण्डपाणिं यमं दृष्ट्वा, जातवेदाः पलायितः । नीचानां जार चौराणां, स्थिरता जायते कुतः ? ॥ ७५६ ॥ . तरुपाषाणवर्गेषु, प्रविश्य चकितः स्थितः । जारचौरा न तिष्ठन्ति, प्रस्पष्टा हि कदाचन ॥ ७५७ ॥ यः प्रविष्टस्तदा वह्निस्तरुजालोपलेषु सः । स्पष्टत्वं याति नाद्यापि प्रयोगव्यतिरेकतः ॥ ७५८ ॥ पुराणमीदृशं विप्रा !, ज्ञायते भवतां नवा । खेटेनेत्युदिते विप्रैर्भद्वैवमिति भाषितम् ॥ ७५९ ॥ दवीयसोऽपि सर्वेषां, जानानस्य शुभाशुभम् । विशिष्टानुग्रहं शश्वत् कुर्वतो दुष्टनिग्रहम् ॥ ७६० ॥ खोदरस्थप्रियान्तःस्थे, पावके समवर्त्तिनः । अज्ञातेऽपि यथा विप्रा !, देवत्वं न पलायते ॥ ७६१ ॥
Page #64
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
॥३०॥
छिन्नेऽपिमूषकैः कर्णे, मदीयस तथा स्फुटम् । बिडालस्य न नश्यन्ति, गुणा गुणगरीयसः॥७६२॥त्रिमिर्विषेकम्। आशंसिषुस्ततो विप्राः,शोभनंभाषितं त्वया।विज्ञा विज्ञवचः श्रुत्वा, यथार्थ दूषयन्ति न ॥७६३॥ शतधा भो विशीर्यन्ते, पुराणानि विचारणे । वसनानीव जीर्णानि, किं कुर्मो भद्र ! दुःशके १॥७६४ ॥ तेषामिति वचः श्रुत्वा, प्राह खेचरनन्दनः । श्रूयतां ब्रामणा ! देवः, संसारदुमपावकः ॥ ७६५ ॥ लावण्योदकवेलाभिर्मन्मथाऽऽवासभूमिभिः । त्रिलोकोत्तमरामाभिर्गुणसौन्दर्यखानिभिः ॥ ७६६ ॥ विध्यन्तीभिर्जनं सर्व, कटाक्षेक्षणमार्गणैः । न यस्य भिद्यते चेत-स्तं देवं नमत त्रिधा ॥ ७६७ ॥ युग्मम् ॥ विहाय पावनं योग, शङ्करः शिवकारणम् । शरीरार्धगतां चक्रे, पार्वतीमेकमानसः ॥ ७६८ ॥ विष्णुना कुर्वताऽऽदेशं, यदीयं सुखकाङ्क्षिणा । अकारि हृदये पना, गोपीनखविदारिते ॥ ७६९ ॥ दृष्ट्वा दिव्यवधूनृत्तं, ब्रह्माऽभूचतुराननः । वृत्तं तृणमिव त्यक्त्वा, ताडितो येन सायकैः॥ ७७० दुर्वारर्मार्गणैस्तीक्ष्णैर्येनाऽऽहत्य पुरन्दरः। सहस्रभगतां नीतः, कृत्वा दुष्कीर्तिभाजनम् ॥ ७७१ ॥ शासिताशेषदोषेण, सर्वेभ्योऽपि बलीयसा । यमेन विभ्यताऽन्तःस्था, सदाऽकारि प्रिया यतः ॥ ७७२ ॥ मुखीभूतोऽपि देवानां, त्रिलोकोदरवर्तिनाम् । ग्रावानोकहवर्गेषु, वह्निर्येन प्रवेशितः ॥ ७७३॥ स जितो मन्मथो येन, सर्वेषामपि दुर्जयः। तस्य प्रसादतः सिद्धिर्जायते परमेष्ठिनः॥७७४॥ सप्तभिः कुलकम् ॥
Page #65
--------------------------------------------------------------------------
________________
SAMAKALAKARKALANKAR
विप्राणां पुरतः कृत्वा, परमात्मविचारणाम् । उपेत्योपवनं मित्रमवादीत् खचराङ्गजः ॥ ७७५ ॥ श्रुतो मित्र! त्वया देवविशेषः परमं मतः (परसंमतः) । विचारणाऽसहस्त्याज्यो, विचारचतुराशयः ॥७७६।। सर्वत्राष्ट गुणाः स्याता, देवानामणिमादयः। यस्तेषां विद्यते मध्ये, लघिमा स परो गुणः ॥७७७॥ पार्वतीस्पर्शतो ब्रह्मा, विवाहे पार्वतीपतेः। क्षिप्रं पुरोहितीभूय, क्षुभितो मदनार्हितः ॥ ७७८ ॥ नर्तनप्रक्रमे शम्भुस्तापसीक्षोभणोद्यतः। विषहे दुस्सहान्दी (हां नी )तो, लिङ्गच्छेदनवेदनाम् ॥ ७७९ ॥ अहिल्लयाऽमराधीशश्छायया यमपावको। कुन्त्या दिवाकरो नीतो, लघिमानमखण्डितम् ॥ ७८० ॥ इत्थं न कोऽपि देवोऽस्ति, निर्दोषो लोकसम्मतः। परायत्तीकृतो यो न, हत्वा मकरकेतुना ॥७८१ ॥ इदानीं श्रूयतां साधो !, निर्दिष्टं जिनशासने । रासभीयशिरश्छेदप्रक्रमं कथयामि ते ॥ ७८२ ॥ ज्येष्ठ(ठा)गर्भभवः शम्भुस्तपः कृत्वा सुदुश्चरम् । सात्यकेरगजो जातो, विद्यानां परमेश्वरः ॥ ७८३॥ स भन्नो दशमे वर्षे, विद्यावैभवदृष्टितः । नारीभिभूरिभोगाभिवृत्ततः को न चाल्यते ? ॥ ७८४ ॥ खेटकन्याः स दृष्ट्वाष्टी, विमुच्य चरणं क्षणात् । तदीयजनकैर्दत्ताः, खीचकार स्मरातुरः ॥७८५॥ अमुष्यासहमानास्ता, रतकर्म विपेदिरे । नाशाय जायते कार्ये, सर्वत्रापि व्यतिक्रमः ॥ ७८६ ॥ रतकर्मक्षमा गौरी, याचित्वा स्वीकृता ततः। उपाये यतते योऽपि, कर्तुकामो हि कासितम् ॥७८७॥
ॐॐॐॐॐॐॐ
Page #66
--------------------------------------------------------------------------
________________
धर्म
॥ ३१ ॥
25%
एकदाऽथ तया सार्धं, रन्त्वा स्वीकुर्वतः सतः । नष्टा त्रिशूलविद्या सा, सतीव परभर्तृतः ॥ ७८८ ॥ नाशे त्रिशूलविद्यायाः, स साधयितुमुद्यतः । ब्रह्माणीमपरां विद्यामतिमानपरायणः ।। ७८९ ॥ निधाय प्रतिमाम, तदीयां कुरुते जपम् । यावत्तावदसौ विद्या, विक्रियां कर्तुमुद्यता ॥ ७९० ॥ वादनं नर्त्तनं गानं, प्रारब्धं गगने तथा ( या ) । यावन्निरीक्षते तावद्ददर्श वनितोत्तमाम् ॥ ७९१ ॥ अधःकृत्य मुखं यावत्, प्रतिमां स निरीक्षते । तावत्तत्र नरं दिव्यं ददर्श चतुराननम् ॥ ७९२ ॥ वालेयकं शिरो मूर्ध्नि, वर्धमानमवेक्ष्य सः । चकर्त्त तरसा तस्य, शतपत्रमिवोर्जितम् ॥ ७९३ ॥ गलित्वा तत् स्थिरीभूय, न पपातास्य पाणितः । सुखसौभाग्यविध्वंसि, हृदयादिव पातकम् ॥ ७९४ ॥ व्यर्थीकृत्य गता विद्या, तं सा संहत्य विक्रियाम् । निरर्थके नरे नारी, न कापि व्यवतिष्ठते ॥ ७९५ ॥ वर्धमानं जिनं दृष्ट्वा, स्मशाने प्रतिमास्थितम् । रात्रावुपद्रवं चक्रे, स विद्यानरशङ्कितः ॥ ७९६ ॥ प्रभाते स जिनं ज्ञात्वा, पश्चात्तापकरालितः । पादावमर्शनं चक्रे, स्तावं स्तावं विषण्णधीः ॥ ७९७ ॥ जिनांहिस्पर्शमात्रेण, कपालं पाणितोऽपतत्। सद्यस्तस्य विनीतस्य, मानसादिव कल्मषम् ॥ ७९८ ॥ ईशः प्रक्रमः साधो !, खरमस्तककर्त्तने । अन्यथा कल्पितो लोकैर्मिध्यात्वतमसावृतैः ॥ ७९९ ॥ दर्शयाम्यधुना मित्र !, तवाश्चर्यकरं परम् । निगद्येति मुने रूपं स जग्राह खगात्मजः || ८०० ॥
परीक्षा.
॥ ३१ ॥
Page #67
--------------------------------------------------------------------------
________________
*
*
*
*
सार्धं पवनवेगेन, गत्वा पश्चिमया दिशा । दक्षः पुष्पपुरं भूयं(यः), प्रविष्टो धर्मवासितः ॥ ८.१॥ प्रताब्य खेचरो भेरी-मारूढः कनकासने । स वाद्यागमनाऽऽशकां, कुर्वाणो द्विजमानसे ॥ ८०२ ॥ निर्गता ब्राह्मणाः सर्वे, श्रुत्वा तं भेरिनिःखनम् । पक्षपातपरा मेघप्रध्वानं शरभा इव ॥ ८०३ ॥ वादं करोषि किं साधो !, ब्राह्मणैरिति भाषिते । खेटपुत्रोऽवदद्विप्रा!, वादनामापि वेनि न॥८०४॥ द्विजाः प्राहुस्त्वया भेरी, किं मूर्खण सता हता? । खेटेनोक्तं हता मेरी, कौतुकेन मया द्विजाः!॥८०५॥ आजन्मापूर्वमालोक्य, निविष्टः काञ्चनासने । न पुनर्वादिदर्पण, मह्यं मा कोपिषुर्द्विजाः! ॥ ८०६ ॥ विप्रैः पृष्टो गुरुर्भद्र, कस्त्वदीयो निगद्यताम् ? । स प्राह मे गुरुर्नास्ति, तपोऽग्राहि मया खयम् ॥ ८०७ ॥ अभाणिषुस्ततो विप्राः, सुबुद्धे! गुरुणा विना । कारणेन त्वयाऽग्राहि, तपः केन ? खयं वद ।। ८०८ ।। खगाङ्गभूरुवाचातः, कथयामि परं द्विजाः!। विभेमि श्रूयतां स्पष्टं, तथाहि निगदामि वः॥ ८०९ ॥ हरिर्नामाभवन्मत्री, चम्पायां गुणवर्मणः । एकाकिना शिला दृष्टा, तरन्ती तेन वारिणि ॥ ८१०॥ आश्चर्ये कथिते तत्र, राज्ञाऽसौ बन्धितो रुषा । पाषाणः प्लवते तोये, नेत्यश्रद्दधता सता ॥ ८११॥ गृहीतो ब्रामणः कापि, पिशाचेनेष निश्चितम् । कथं ब्रूतेऽन्ययेदृक्षमसंभाव्यं सचेतनः ॥ ८१२ ॥ असत्यं गदितं देव !, मयेदं मुग्धचेतसा । इत्येवं भणितं तेन, राज्ञाऽसौ मोचितः पुनः॥ ८१३ ॥
म मा कोपिति
6, सुबुद्धे ! गुरुणास प्राह मे
Page #68
--------------------------------------------------------------------------
________________
परीक्षा.
॥३२॥
विचित्रवाद्यसङ्कीर्ण, सङ्गीतं मन्त्रिमा ततः। वानराः शिक्षिता रम्यं, वशीकृत्य मनीषितम् ॥ ८१४॥ ततस्तद्दर्शितं राज्ञस्तेनोद्यानविवर्तिनः। एकाकिनः सतो नित्यं, चित्तव्यामोहकारणम् ॥ ८१५ ॥ यावद्दर्शयते राजा, भटानामिह मादृ(मोद)तः। संहृत्य वानरा गीतं, तावन्नष्टा दिशोदिशम् ॥ ८१६ ॥ मत्री जगाद भो वीरा!, भूतनाग्राहि पार्थिवः । इत्युक्त्वा बन्धयामास, भटैस्तं दृढबन्धनैः ॥ ८१७ ॥ तदेव भाषते भूयो, यदा बद्धोऽपि पार्थिवः । हसित्वा तुष्टचित्तेन, मत्रिणा मोचितस्तदा ॥ ८१८॥ यथा वानरसङ्गीतं, त्वयाऽदर्शि बने विभो!। तरन्ती सलिले दृष्टा, सा शिलापि मया तथा ॥ ८१९ ॥ अश्रद्धेयं न वक्तव्यं, प्रत्यक्षमपि वीक्षितम् । जानानैः पण्डितैनूनं, वृत्तान्तं नृपमत्रिणोः ॥ ८२०॥ प्रत्येष्यथ यतो यूयं, वाक्यं नैकाकिनो मम । कथयामि ततो नाहं, पृच्छ्यमानोऽपि माहनाः ! ॥ ८२१॥ तेजल्पिषुस्ततो भद्र!, किं वाला वयमीदृशाः। घटमानं वचो युक्त्या, न जानीमो वयं स्फुटम् ॥८२२॥ अमाषिष्ट ततः खेटो, यूयं यदि विचारकाः । निगदामि तदा स्पष्ट, श्रूयतामेकमानसैः॥८२३॥ श्रावको मुनिदत्तोऽस्ति, श्रीपुरे स पिता मम । एकस्परहं तेन, पठनाय समर्पितः ॥ ८२४ ॥ प्रेषितो जलमानेतुं, समर्याहं कमण्डलुम् । एकदा मुनिना तेन, रममाणश्चिरं स्थितः ॥ ८२५॥ एत्य छात्रैरहं प्रोक्तो, नश्य रुष्टो गुरुस्तव । क्षिप्रमागत्य भद्रासौ, करिष्यति नियन्त्रणाम् ॥ ८२६ ॥
35555
Page #69
--------------------------------------------------------------------------
________________
पुरे सन्ति परत्रापि, साधवोऽध्यापकाः स्फुटम् । चिन्तयित्वेत्यहं नंड्डा, ततो यातः पुरान्तरम् ॥ ८२७ ॥ मदासक्तमहीपीठो, गजः सम्मुखमागतः । प्रक्षरन्निर्भरः शैल, इव दृष्टो मया पुरे (रः) ॥ ८२८ ॥ हस्तं प्रसार्य मां दृष्ट्वा, धावितः स मतङ्गजः । नियन्तृयन्त्रणोल्लङ्घी, समवर्त्तीव मूर्त्तिमान् ॥ ८२९ ॥ कमण्डलुं प्रविष्टोऽह - मपश्यन् शरणं परम् । अपारयन्नहं कर्त्तुमन्यत्राशु पलायनम् ॥ ८३० ॥ वेगेनागत्य तत्रैव, प्रविष्टोऽयं मतङ्गजः । विरुद्धमानसः क्रुद्ध, उत्पाटयितुमुद्यतः ॥ ८३१ ॥ पाटनासक्तचित्तं तं विलोक्याहं विनिर्गतः । कमण्डलूर्ध्ववक्त्रेण, जीवितोद्यमवान्न कः १ ॥ ८३२ ॥ तस्यैव वदनेनाशु, निर्गतोऽयं मतङ्गजः । पुच्छं तत्र विलग्नं तु, स व्यपासितुमक्षमः ॥ ८३३ ॥ पुच्छाकर्षणजक्लेशाद्विह्वलः सोऽपतद्भुवि । तथास्थितं तं मुक्त्वाऽहं गतः स्वस्थमनाः पुरे || ८३४ ॥ जिनेन्द्रमन्दिरं तत्र दृष्ट्वा नत्वा जिनेश्वरम् । दुःखगर्भजवैराग्यान्मुनिमार्गमुपात्तवान् ॥ ८३५ ॥ विहरन्नगरग्रामाऽऽकीर्णां भूमिमिहागतः । नैकत्र यतयो यस्मात्तिष्ठन्त्यप्रतिबन्धिनः ॥ ८३६ ॥ इदं सङ्क्षेपतः प्रोक्तं, मया वश्चरितं निजम् । एवं तदुक्तमाकर्ण्य, प्राहुर्हास्ययुजो द्विजाः ॥ ८३७ ॥ प्रवेशं निर्गमं वा कः, श्रद्धत्तेऽत्र कमण्डलौ ? । हस्तिनः क्लिष्टपुच्छस्य, स्यातां तत्र कथं हि तौ ? ॥ ८३८ ॥ अनौ नीरं कर्ज जातु, शिलायां तिमिरं रवौ । जायते न पुनर्मूर्ख !, वचसः सत्यता तव ॥ ८३९ ॥
Page #70
--------------------------------------------------------------------------
________________
धर्म
11 33 ||
खेटो जगाद भो विप्राः !, किं नैतद्वच इष्यते । एतादृशानि वाक्यानि, घनान्येव भवन्मते ॥ ८४० ॥ सूत्रकण्ठास्ततोऽवोचन्, यद्यसंभाव्यमीदृशम् । दृष्टं वेदे पुराणे वा, तदा भद्र! निगद्यताम् ॥ ८४१ ॥ सर्वथाऽस्माकमग्राह्यं पुराणं शास्त्रमीदृशम् । न न्यायनिपुणाः कापि न्यायहीनं हि गृहते ॥ ८४२ ॥ ऋषिरूपधरोऽवादीत्ततः खेचरनन्दनः । निवेदयामि जानामि, परं विप्रा ! विभेम्यहम् ॥ ८४३ ॥ स्ववृत्तेऽपि मयाऽऽख्याते, रुष्टा यूयमिति द्विजाः ! । किं न वेदपुराणार्थेऽकोषिष्यत पुनर्मम ? ॥ ८४४ ॥ सूत्र कण्ठैस्ततोऽभाषि, त्वं भाषस्वाविशङ्कितः । त्वद्वाक्यसदृशं शास्त्रं त्यक्षामो निश्चितं वयम् ॥। ८४५ ।। खेचरेण ततोऽवाचि, यूयं यदि विचारकाः । कथयामि तदा विप्राः ! श्रूयतामेकमानसैः ॥ ८४६ ॥ एकदा धर्मपुत्रेण, सभायामिति भाषितम् । आनेतुं कोऽत्र शक्नोति, फणिलोकं रसातलात् ॥ ८४७ ॥ अर्जुनेन ततोऽवाचि, गत्वाऽहं देव ! भूतलम् । सप्तभिर्मुनिभिः सार्धमानयामि फणीश्वरम् ॥। ८४८ ॥ ततो गाण्डीवमारोप्य, क्षोणी शांतमुखैः शरैः । भिन्ना निरन्तरैः क्षिप्रं, कामेनेव वियोगिनी ॥ ८४९ ॥ रसातलं ततो गत्वा दशकोटिबलान्वितः । आनीतो भुजगाधीशो, मुनिभिः सप्तभिः समम् ॥ ८५० ॥ अभाषिष्ट ततः खेटः, किं वो युष्माकमागमः । ईदृशोऽस्ति नवा ? ब्रूत, तेऽवोचन्नस्ति निश्चितम् ॥ ८५१ ॥ ततः खेटोsवदद्वाणविवरेणाप्यणीयसा । दशकोटिबलोपेतो, यथाऽऽयाति फणीश्वरः ।। ८५२ ॥
परीक्षा.
॥ ३३ ॥
Page #71
--------------------------------------------------------------------------
________________
तदानीं न कथं हस्ती, विवरेण कमण्डलोः । निर्गच्छति द्विजा ! बेत, त्यक्त्वा मत्सरमअसा ॥ ८५३ ॥ भवतामागमः सत्यो, न पुनर्वचनं मम । पक्षपातं विहायैकं, परमत्र न कारणम् ।। ८५४ ॥ भूमिदेवैस्ततोऽवाचि, कुअरः कुण्डिकोदरे । कथं माति? कथं भग्नं, न पात्रं हस्तिभारतः॥ ८५५॥ हस्तिनो निते देहे, कुण्डिकाछिद्रतोऽखिले । विलग्य निविडस्तत्र, पुच्छवालः कथं स्थितः १ ॥ ८५६ ॥ श्रद्दध्महे वचो नेदं, त्वदीयं भद्र ! सर्वथा । नभश्चरस्ततोऽवादीत् , सत्यमेतदपि स्फुटम् ॥ ८५७ ॥ पीतमङ्गुष्ठमात्रेण, सर्वसागरजीवनम् । अगस्तिमुनिना विप्राः, श्रूयते भवदागमे ॥ ८५८॥ अगस्तिजठरे माति, सागरीयं पयोऽखिलम् । न कुण्डिकोदरे हस्ती, मया साधं कथं द्विजाः! ॥८५९ ॥ नष्टामेकार्णवे सृष्टिं, स्वकीयां कमलासनः । बभ्राम व्याकुलीभूय, सर्वत्रापि विमार्गयन् ॥ ८६०॥ उपविष्टस्तरोर्मूले, तेन सर्वपमात्रिकाम् । अगस्त्योऽदर्शि शाखायां, कुण्डिकां पाणिना वहन् ॥ ८६१॥ अगस्तिमुनिना दृष्टः, सोऽभिवायेति भाषितः । बंभ्रमीषि विरञ्चे ! त्वं, क्वैवं व्याकुलमानसः ॥ ८६२॥ स शंसति स्म मे साधो!, सृष्टिः कापि पलायिता। गवेषयन्निमा मूढो, प्रमामि प्रहिलोपमः ॥ ८६३ ।। अगस्त्येनोदितो धाता, कुण्डिका जठरे मम । तां प्रविश्य निरीक्षख, मा मान्यत्र गमो विधे! ॥ ८६४ ॥ प्रविष्टोऽत्र ततः स्रष्टा, श्रीपति वटपादपे। पत्रे-शयितमद्राक्षीदुच्छूनजठरान्तरम् ॥ ८६५॥
Page #72
--------------------------------------------------------------------------
________________
| परीक्षा.
॥३४॥
भवादिषसोपेन्द्रः, किं शेषे ? कमलापते! । उत्तम्भितोदरोऽत्यन्तनिश्चलीमृतविग्रहः॥ ८६६॥ अमाषि विष्णुना स्रष्टा, सृष्टिमेकार्णवे तव । अहमालोक्य नश्यन्ती, कृतवानुदरान्तरे ॥ ८६७॥ शाखाम्यासहरिचक्रे, वटवृक्षे महीयसि । पर्णे सुप्तोऽस्मि विस्तीर्णे, ततोऽत्राध्मातकुक्षिकः॥८६८ ॥ पितामहस्ततोऽलापीच्छ्रीपते !ऽकारि शोभनम् । यदरक्षि त्वया सृष्टिजन्ती विप्लवे क्षयम् ॥ ८६९॥ ममोत्सुकमिमां द्रष्टुं, श्रीपते ! वर्त्तते मनः । अपत्यविरहोऽत्यन्तं, सर्वेषामपि दुस्सहः ॥ ८७०॥ उपेन्द्रेण ततोऽभाषि, प्रविश्य जठरं मम । आननेन निरीक्षख, त्वं किं दुःखायसे वृथा ? ॥ ८७१ ॥ तत्प्रविश्य ततो दृष्ट्वा, सृष्टिं स्रष्टाऽतुषत्तराम् । अपत्यदर्शने कस्य, न सन्तुष्यति मानसम् ॥ ८७२ ॥ तत्र स्थित्वा चिरं वेधाः, सृष्टिं दृष्ट्वाऽखिलां निजाम् । नाभिपङ्कजनालेन, हरेर्निरगमत्ततः ॥ ८७३ ॥ दृष्ट्वा वृषणवालाग्रं, विलमं तत्र स स्थिरम् । निष्क्रष्टुं दुःशकं ज्ञात्वा, विगोपकविशङ्कितः ॥ ८७४ ॥ तदेव कमलं कृत्वा, खस्यासनमधिष्ठितः। विश्वं व्याप्तवती माया, न देवैरपि मुच्यते ॥ ८७५ ॥ युग्मम् ॥ ततः पद्मासनो जातः, प्रसिद्धो भुवने विधिः। महद्भिः क्रियमाणो हि, प्रपञ्चोऽपि प्रसिद्धयति ॥ ८७६ ॥ ईदृशो वः पुराणार्थः, किं सत्यो ? वितथोऽथ किम् । बेत निर्मत्सरीभूय, सन्तो नासत्यवादिनः ॥ ८७७ ॥ अवोचन्नवनीदेवाः, ख्यातोयं स्फुटमीदृशः । उदितो भास्करो भद्र ! पिधातुं केन शक्यते ? ॥ ८७८ ॥
॥ ३४ ॥
Page #73
--------------------------------------------------------------------------
________________
++++++++++
मनोवेगस्ततोऽवादीत्, कर्णिकाविवरे विधेः । केशो लगति चेत् किं न, हस्तिपुच्छं कमण्डलौ ? ॥ ८७९ ॥ भज्यते नातसीस्तम्भः, स विश्वस्य कमण्डलोः । भारेणैकेभयुक्तस्य, भिण्डो मे भज्यते कथम् ? ॥ ८८० ॥ विश्वं सर्षपमात्रेऽपि, सर्व माति कमण्डलौ । न सिन्धुरो मया सार्धं, कथं विप्रा महीयसि ? ॥ ८८१ ॥ क स्थितः खोदरान्तस्थे, विष्टपत्रितये हरिः ? । कागस्त्यः सोऽतसीस्तम्भः ?, क्व भ्रान्तश्च प्रजापतिः ? ॥ ८८२ ॥ क्षितौ व्यवस्थितो भिण्डस्तत्र सेभः कमण्डलुः । चित्रं न घटते पक्षो, मम यो घटते पुनः ॥ ८८३ ॥ सर्वज्ञो व्यापको ब्रह्मा, यो जानाति चराचरम् । सृष्टिस्थानं कथं नासौ, बुध्यते ? येन मार्गति ॥ ८८४ ॥ आक्रष्टुं यः क्षमः क्षिप्रं नरकादपि देहिनः । असौ वृषणवालाग्रं, न कथं कमलासनः ? ॥ ८८५ ॥ यो ज्ञात्वा प्रलये धात्री, त्रायते सकलां हरिः । सीतापहरणं नासौ, कथं वेत्ति ? न रक्षति ? ॥ ८८६ ॥ यो मोहयति निःशेष- मसाविन्द्रजिता कथम् । विमोह श्रीपतिर्बद्धो, नागपाशैः सलक्ष्मणः १ ॥ ८८७ ॥ यस्य स्मरणमात्रेण, नश्यन्ति विपदोऽखिलाः । प्राप्तः सीतावियोगाद्याः, स कथं विपदः खयम् १ ॥ ८८८ ॥ निजानि दश जन्मामि नारदाय जगाद यः । स पृच्छति कथं कान्तां, खकीयां फणिनां पतिम् १ ॥ ८८९ ॥ "राजीवपाणिपादास्या, रूपलावण्यवाहिनी। फणिराज त्वया दृष्टा, भामिनी गुणशालिनी” ॥ ८९० ॥ अनादिकालमिथ्यात्व - वातेनाप्रगुणीकृतान् । कः क्षमः प्रगुणीकर्तुं, लोकान् जन्मशतैरपि ॥ ८९१ ॥
Page #74
--------------------------------------------------------------------------
________________
R
क्षुधा तृष्णा भयद्वेषौ, रागो मोहो मदो गदः । चिन्ता जन्म जरा मृत्युर्विषादो विस्मयो रतिः॥ ८९२॥ |
परीक्षा. खेदः खेदस्तथा निद्रा, दोषाः साधारणा इमे । अष्टादशापि विद्यन्ते, सर्वेषां दुःखहेतवः ॥ ८९३॥ क्षुधाग्निज्वालया तप्तः, क्षिप्रं शुष्यति विग्रहः । इन्द्रियाणि न पश्चापि, प्रवर्तन्ते खगोचरे॥ ८९४ ॥ विलासो विभ्रमो हासः, संभ्रमो विनयो नयः । तृष्णया पीड्यमानस्य, नश्यन्ति तरसाऽखिलाः॥ ८९५॥ वातेनेव हतं पत्रं, शरीरं कम्पतेऽखिलम् । वाणी पलायते भीत्या, विपरीतं विलोकते ॥ ८९६ ॥ दोषं गृह्णाति सर्वस्य, विना कार्येण रुष्यति । द्वेषाऽऽकुलो न कस्यापि, मन्यते गुणमस्तधीः ॥ ८९७ ॥ पञ्चाक्षविषयाऽऽसक्तः, कुर्वाणः परपीडनम् । रागातुरमना जीवो, युक्तायुक्ते न पश्यति ॥ ८९८ ॥ कान्ता मे मे सुता मेऽर्थाः, गृहं मे मम वान्धवाः । इत्थं मोहपिशाचेन, मोद्यते सकलो जनः ॥ ८९९ ।। 8 ज्ञानजातिकुलैश्वर्यतपोरूपवलादिभिः । पराभवति दुर्वृत्तः, समदः सकलं जनम् ॥ ९०.॥ पवनश्लेष्मपित्तोत्थैस्तापितो रोगपावकः । कदाचिल्लभते सौख्यं, न परायत्तविग्रहः ॥ ९०१॥ कथं मित्रं ? कथं द्रव्यं ?, कथं पुत्राः कथं प्रियाः?। कथं ख्यातिः? कथं प्रीतिरिति ध्यायति चिन्तया ॥९०२॥5॥३५॥ श्वभ्रवासाधिकेऽसाते, गर्भे कृमिकुलाकुले । जन्मिनो जायते जन्म, भूयो भूयोऽसुखावहम् ॥ ९०३॥ आदेशं कुरुते यस्य, शरीरमपि नात्मनः । कस्तस्य जायते वश्यो, जरिणो हतचेतसः? ॥ ९०४ ॥
-
RA
Page #75
--------------------------------------------------------------------------
________________
नामाप्याकर्णितं यस्य, चित्तं कम्पयतेतराम् । साक्षादुपागतो मृत्युः, स न किं कुरुते भयम् ? ॥ ९०५ ॥ उपसर्गे महारोगे, पुत्रमित्रधनक्षये । विषादः खल्पसत्त्वस्य, जायते प्राणहारकः ॥ ९०६ ॥ आत्मासंभविनीं भूति, विलोक्य परभाविनीम् । ज्ञानशून्यस्य जीवस्य, विस्मयो जायते परः ॥९०७ ॥ सर्वामध्यमये हेये, शरीरे कुरुते रतिम् । बीभत्से कुथिते नीचः, सारमेयो यथा शवे ॥ ९०८॥ व्यापारं कुर्वतः खेदो, देहिनो देहमईकः । जायते वीर्यहीनस्य, विकलीकरणक्षमः ॥९०९॥ श्रमेण दुर्निवारण, देहो व्यापारभाविना । तापितः खेद्यते क्षिप्रं, घृतकुम्भ इवामिना ॥ ९१० ॥ निद्रया मोहितो जीवो, न जानाति हिताहितम् । सर्वव्यापारनिर्मुक्तः सुरयेव विचेतनः ॥ ९११ ॥ हरः कपालरोगातः, शिरोरोगी हरिर्मतः । हिमेतररुचिः कुष्ठी, पाण्डुरोगी विभावसुः ॥ ९१२ ॥ निद्रयाऽधोक्षजो व्याप्तश्चित्रभानुर्बुभुक्षया । शङ्करः सर्वदा रत्या, रागेण कमलासनः ॥९१३ ॥ रामा सूचयते राग, द्वेषं वैरिविदारणम् । मोहं विनापरिज्ञान, भीतिमायुधसंग्रहः ॥ ९१४ ॥ एतैर्ये पीडिता दोषैस्तैर्मुच्यन्ते कथं परे? । सिंहानां इतनागानां, न खेदोऽस्ति मृगक्षये ॥ ९१५॥ सर्वे रागिणि विद्यन्ते, दोषा नात्रास्ति संशयः । रूपिणीव सदा द्रव्ये, गन्धस्पर्शरसादयः ॥ ९१६ ॥ योकमूर्तयः सन्ति, ब्रमविष्णुमहेश्वराः। मिथस्वदाऽपि कुर्वन्ति, शिरश्छेदादिकं कथम् ॥९१७ ॥
ॐॐॐॐॐ
ARATARAKSE
Page #76
--------------------------------------------------------------------------
________________
परीक्षा.
एते नष्टा यतो दोषा, भानोरिव तमश्चयाः। स खामी सर्वदेवानी, पापनिईलनक्षमः ॥ ९१८ ॥ अक्षणो यजलखान्तर्वीज निक्षिप्त (क्षेप) मासवान् । बभूव बुहुदस्तस्मात्तस्माच जगदण्डकम् ॥९१९ ॥ तत्र द्वेधा कृते जाता, जगत्रयव्यवस्थितिः । यद्येवमागमे प्रोक्तं, तदा तत् क स्थितं जलम् १॥ ९२०॥ निम्नगापर्वतक्षोणीवृक्षाधुत्पत्तिकारणम् । समस्तकारणाभावे, लभ्यते क्व विहायसि ? ॥ ९२१ एकखापि शरीरस्य, कारणं यत्र दुर्लभम् । त्रिलोककारणं मूर्त, द्रव्यं तत्र क लभ्यते ? ॥ ९२२॥ कथं विधीयते सृष्टि-रशरीरेण वेधसा? । विधानेनाऽशरीरेण, शरीरं क्रियते कथम् १॥९२३॥ विधाय भुवनं सर्व, खयं नाशयतो विधेः । लोकहत्या महापापा, भवन्ती केन वार्यते ॥९२४ ॥ कृतकृत्यस्य शुद्धस्य, नित्यस्य परमात्मनः। अमूर्तस्याखिलजस्य, किं लोककरणे फलम् ? ॥ ९२५ ॥ विनाश्य करणीयस्य, क्रियते किं विनाशनम् ? । कृत्वा विनाशनीयस्य, जगतः करणेन किम् ? ॥९२६ ॥ पूर्वापरविरुद्धानि, पुराणान्यखिलानि वः। श्रद्धेयं तत् कथं विप्रा!, न्यायनिष्ठमनीषिभिः!॥ ९२७ ॥ इत्युक्त्वा खेचरः पृष्ट्वा, क्षितिदेवाननुत्तरान् । निर्गत्योपवनं गत्वा, खमित्रं न्यगदीदिति ॥ ९२८ ॥ श्रुतो देवविशेषो यः, पुराणार्थश्च यस्त्वया । न विचारयतां तत्र, घटते किञ्चन स्फुटम् ॥ ९२९ ॥ नारायणश्चतुर्बाहु-विरश्चिश्चतुराननः । त्रिनेत्रः पार्वतीनाथः, केनेदं प्रतिपद्यते ॥ ९३० ॥
Page #77
--------------------------------------------------------------------------
________________
एकास्यो द्विभजो वक्षः, सर्वो जगति दृश्यते । मिथ्यात्वाकलिलोकै-रन्यथा परिकल्प्यते ॥ ९३२॥ अनादिनिधनो लोको, व्योमस्थोऽकृत्रिमः स्थिरः । नैतस्य विद्यते का, गगनस्येव कश्चन ॥ ९३२॥ खकर्मप्रेरिताः सर्वे, पर्यटन्ति शरीरिणः । गतिचतुष्टये दुःख-सुखभाजः पृथक् पृथक् ॥ ९३३ ॥ नन्ति ये विपदः खस्य, न विष्णुब्रह्मशम्भवः । परेषां सुखदुःखानि, कथं कुर्वन्ति ते पुनः? ॥ ९३४ ॥ न यः शमयते घाम, निजमग्निकरालितम् । सोऽन्यगेहशमे शक्त, इति कैः प्रतिपद्यते ? ॥ ९३५ ॥ रागद्वेषमहामोह-मोहिताः सुखदानि ये । न विदन्ति खकृत्यानि, ते कथं मुक्तिदर्शिनः? ॥ ९३६ ॥ कामभोगातुरैनीचै-रन्यथास्थं जगत्रयम् । अन्यथा कथितं श्वभ्रवासदुःखभयोज्झितैः ॥ ९३७ ॥ उन्मार्गेश्छादिते मुक्ति-मार्गे संसारगामिभिः । यः करोति विचारं न, स कथं शिवमश्नुते ? ॥ ९३८ ॥ छेदनस्तापनस्ताडनैः कनकं यथा। परीक्ष्यते तथा धर्म-स्तपःशीलदयायमैः ॥ ९३९ ॥ देवं गुरुं च ये धर्म, परीक्ष्योपासते धिया। ते कर्मशृङ्खला यान्ति, भित्त्वा सद्यो महोदयम् ॥ ९४०॥ देवो देवेन धीमद्भिः, परीक्ष्यो गुरुणा गुरुः । धर्मो धर्मेण धर्मार्थ-साधकैनरपुङ्गवः ॥९४१॥ ध्वस्तका जगद्वेदी, देवो विश्वपतिर्मतः । गुरुः सङ्गपरित्यक्तो, धर्मो जीवदयामयः ॥ ९४२॥ इत्युक्त्वा खेचरो मित्रं, पुनः माह विशुद्धधीः । तवान्यदपि मित्राहं, दर्शयामि कुतूहलम् ॥ ९४३ ॥
Page #78
--------------------------------------------------------------------------
________________
धर्म
॥ ३७ ॥
निगद्येति मुमोचर्षि – रूपं खेचरनन्दनः । पुरं विवेश मिश्रेण, समं तापसवेषभाक् ॥ ९४४ ॥ सघण्टां भेरिमाताढ्य, निषिष्टो हेमविष्टरे । आगत्य ब्राह्मणाः प्राहुरागतस्तापसः कुतः १ ॥ ९४५ ॥ किं त्वं व्याकरणं वेत्सि ?, किं वा तर्क सविस्तरम् ? । करोषि ब्राह्मणैः सार्धं, किं वादं शास्त्रपारगैः १ ॥ ९४६ ॥ तेनोक्तमहमायातो, भूदेवा ! ग्रामतोऽमुतः । वेद्मि व्याकरणं तर्क, वादं वापि न कञ्चन ॥ ९४७ ॥ विप्राः प्राहुर्वेद क्रीडां विमुच्य त्वं यथोचितम् । स्वरूपपृच्छिभिः सार्धं, क्रीडा कर्तुं न युज्यते ॥ ९४८ ॥ खेचरेण ततोऽवाचि, तापसाकारधारिणा । कथयामि निजं वृत्तं, युष्मत्तोऽहं परं चके ॥ ९४९ ॥ युक्sपि भाषिते विप्राः !, कुर्वते निर्विचारकाः । आरोप्यायुक्ततां दुष्टा, रभसोपद्रवं परम् ॥ ९५० ॥ सूत्रकण्ठास्ततोऽवोचन् वद भद्र ! यथोचितम् । सर्वे विचारका विप्रा युक्तपक्षानुरागिणः ॥ ९५१ ॥ तदीयं वचनं श्रुत्वा, जगाद खगनन्दनः । निगदामि तदाभीष्टं, यदि यूयं विचारकाः ॥ ९५२ ॥ वृहत्कुमारिका माता, साकेतनगरे मम । दत्ता स्वकीयतातेन, मदीयजनकाय सा ।। ९५३ ॥ श्रुत्वा तूर्यरथं हस्ती, कृतान्त इव दारुणः । मत्तो भङ्क्त्वाऽऽगतः स्तम्भं, विवाहसमये तयोः ॥ ९५४ ॥ ततः पलायितो लोकः, समस्तप्रेऽपि विदूरतः । विवाहकरणं मुक्त्वा, स्थिरत्वं क्व महाभये ? ॥ ९५५ ॥ वधूः पलायमानेन, वरेण व्याकुलात्मना । स्वांसस्पर्शनतश्चेष्टा, पातिता वसुधातले ॥ ९५६ ॥
परीक्षा.
॥ ३७ ॥
Page #79
--------------------------------------------------------------------------
________________
-
84535A4
यत्वा विधानतः । महादश वर्षाणि, सुमित्राणिगति ते ।
पातयित्वा वर्धू नष्टो, भर्ता पश्यत पश्यत । लोकैरित्युदिते क्वापि, लज्जमानो वरो मतः ॥ ९५७ ॥ सार्धमासे ततो भूते, गर्भः स्पष्टत्वमागतः। उदरेण समं तस्या, नवमासैवर्धत ॥ ९५८।। मात्रा पृष्टा ततः पुत्रि!, केनेदमुदरीकृतम् । साऽऽचचक्षे न जानामि, वरांसस्पर्शतः परम् ॥ ९५९ ॥ आगतास्तापसा गेहं, भोजयित्वा विधानतः। मातामहेन मे पृष्टाः, क्व यूयं वातुमुद्यताः । ॥९६० ॥ एतैर्निवेदितं तस्य, भो दुर्भिक्षं भविष्यति । अत्र द्वादश वर्षाणि, सुभिक्षे प्रस्थिता क्यम् ॥ ९६१ ॥ त्वमप्येहि सहास्माभिर्मुथा माऽत्र बुभुक्षया । कश्चित् कुरूपकारं वा, प्रणिगधेति ते ययुः ॥ ९६२ ॥ मया श्रुत्वा वचस्तेषां, मातृगर्मनिवासिना । विचिन्तितमिदं चित्ते, क्षुधाचकितचेतसा ।। ९६३ ॥ संपत्स्यते ऽत्र दुर्भिक्षं, वर्षद्वादशकं यदि । किं क्षुधा म्रियमाणोऽहं, करिष्ये निर्गतस्तदा ॥ ९६४ ॥ चिन्तयित्वेति वर्षाणि, गर्मेऽहं द्वादश स्थितः । अशनाय भयत्रस्तः, क्व देही नावतिष्ठते॥९६५॥ आजग्मुस्तापसा भूय-स्ते गर्भमधितस्थुषि । मयि मातामहावासं, दुष्कालस्य व्यतिक्रमे ॥ ९६६ ॥ प्रणम्य तेऽय संपृष्टा, मत्तातेनाचचक्षिरे । सुभिक्षमधुना जातं, प्रस्थिता विषय निजम् ॥ ९६७॥ मयि श्रुत्वा वचस्तेषां, मर्मतो निर्विवासति । अजनिष्ट सवित्री मे, वेदनाऽऽक्रान्तविग्रहा. ९६८॥ कन्यां क्षित्वा पुरश्युल्याः,पतितावा विचेतसः। निर्गयोदरतो मातुर्निग्यतामि ल मलनि ॥ ९६९ ॥
-
-
ES
Page #80
--------------------------------------------------------------------------
________________
परीक्षा.
॥३८॥
उत्थाय पात्रमादाय, जननी भणिता मया । देहि मे भोजनं मातः!, क्षुधितो नितरामहम् ॥ ९७०॥ पिता मे तापसान् प्राह, दृष्टः कोऽपि तपोधनाः!। युष्माभिर्जातमात्रोऽपि, याचमानोऽत्र भोजनम् ॥९७१॥ तैरुक्तमयमुत्पातो, गेहानिर्धाव्यतां स्फुटम् । भविष्यत्यन्यथा साधो!, तव विघ्नपरम्परा ॥ ९७२॥ ततोऽहं गदितो मात्रा, याहि रे यममन्दिरम् । तापको मम दुर्जात!, स ते दास्यति भोजनम् ॥ ९७३ ॥ मयाऽवाचि ततो मातरादेशो मम दीयताम् । तया न्यगदि याहि त्वं, निर्गत्य मम गेहतः ॥ ९७४ ॥ ततोऽहं भस्मना देहमवगुण्ड्य विनिर्गतः। गतो मुण्डशिरो भूत्वा, तापसस्तापसैः सह ॥ ९७५ ॥ स्थितोऽहं तापसस्थाने, कुर्वाणो दुष्करं तपः। न श्रेयस्कार्यमारभ्य, प्रमाद्यन्ति हि पण्डिताः ॥ ९७६ ॥ मया गतवता स्मृत्वा, साकेतपुरमेकदा । माता विवाह्यमाना खा, वरेणान्येन वीक्षिता ॥९७७ ॥ विनिवेद्य खसंबन्धं, मया पृष्टाः तपोधनाः । आचक्षते न दोषोऽस्ति, परेणास्या विवाहने ॥ ९७८॥ द्रौपद्याः पञ्च भर्तारः, कथ्यन्ते यत्र पाण्डवाः। जनन्यास्तव को दोषस्तत्र भर्तृवये सति ? ॥ ९७९ ॥ एकदा परिणीतापि, विपन्ने दैवयोगतः। भर्तयक्षतयोनिः स्त्री, पुनः संस्कारमर्हति ॥९८०॥ प्रतीक्षेताष्ट वर्षाणि, प्रसूता वनिता सती । अप्रसूता तु चत्वारि, प्रोषिते सति भर्तरि ॥ ९८१ ॥ पञ्चखेषु गृहीतेषु, कारणे प्रति भर्तृषु । न दोषो विद्यते स्त्रीणां, व्यासादीनामिदं वचः ॥९८२ ॥
॥३८॥
Page #81
--------------------------------------------------------------------------
________________
%
**%%%%%
ऋषीणां वचसाऽनेन ज्ञात्वा मातुरदोषताम् । एकावस्थं तपः कुर्वन्, वत्सरं तापसाश्रमे ॥ ९८३ ॥ महीमटाट्यमानोऽहं तीर्थयात्रापरायणः । ततः पत्तनमायातो, युष्मदीयमिदं द्विजाः ॥ ९८४ ॥ आचक्षत ततो विप्राः, कोपविस्फुरिताधराः । ईदृशं शिक्षितं दुष्ट !, क्वासत्यं जल्पितुं त्वया ॥ ९८५ ॥ कृत्वैकत्रानृतं सर्व, नूनं त्वं वेधसा कृतः । असंभाव्यानि कार्याणि परथा भाषसे कथम् ? ॥ ९८६ ॥ आचष्टे स्म ततः खेटो, विप्राः ! किं जल्पतेदृशम् । युष्माकं किं पुराणेषु, कार्यमीदृग् न विद्यते ? ॥ ९८७ ॥ ततोऽभाष्यत भूदेवैरीदृशं यदि वीक्षितम् । त्वया वेदे पुराणे वा क्वचिद्भद्र ! तदा वद ॥ ९८८ ॥ आख्यत् खेटो द्विजा ! वच्मि, परं तेभ्यो विभेम्यहम् । विचारेण विना यूयं, ये गृहीथाखिलं वचः ॥ ९८९ ॥ येषां वेदपुराणेषु ब्रह्महत्या पदे पदे । ते गृहीथ कथं यूयं कथ्यमानं सुभाषितम् ? ॥ ९९० ॥ पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ ९९९ ॥ मनुव्यासवशिष्टानां वचनं वेदसंयुतम् । अप्रमाणयतः पुंसो, ब्रह्महत्या दुरुत्तरा ॥ ९९२ ॥ 'अवादि वैदिकैर्भद्र !, वाक्यतः पातकं कुतः ? । निशातो गदितः खङ्गो, लुनीते रसनां बहिः ॥ ९९३ ॥ वचनोचारमात्रेण, कल्मषं यदि जायते । तदोष्णो वह्निरित्युक्ते, वदनं किं न दह्यते ? ॥ ९९४ ॥ आचक्ष्व तं (तत्) पुराणार्थे, यथावृत्तमशङ्कितः । वयं नैयायिकाः सर्वे, गृह्णीमो न्यायभाषितम् ॥ ९९५ ॥
Page #82
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
॥ ३९॥
सतः खपरशास्त्रज्ञो, ब्याचष्टे गगनायनः । यद्येवं श्रूयता विप्राः!, स्पष्टयामि मनोगतम् ॥ ९९६ ॥ एकत्र सुसयोनार्यो-भगीरथ्याख्ययोईयोः ॥ संपन्नगर्मयोः पुत्रः, ख्यातोऽजनि भगीरथिः॥९९७ ॥ यदि स्त्रीस्पर्शमात्रेण, गर्मः संभवति स्त्रियाः। मातुर्मे न कथं जातः, पुरुषस्पर्शतस्तदा ॥९९८ ॥ धृतराष्ट्राय गान्धारी, द्विमासे किल दास्यते । तावद्रजखला जाता, पूर्व सामं प्र(सा मत्र)दानतः ॥ ९९९ ॥ चतुर्थे वासरे स्नात्वा, फनसालिङ्गने कृते । वर्धयन्नुदरं तस्या, गर्भोऽजनि महामरः ॥ १००० ।। धृतराष्ट्राय सा दत्ता, पित्रा गर्भावलोकनैः । लोकापवादनोदाय, सर्वोऽपि यतते जनः ॥ १००१॥ यदूढया तया जातं, फनसस्य फलं परम् । बभूव जठरे तस्याः, पुत्राणां शतमूर्जितम् ॥ १००२ ॥ खेटः प्राह किमीदृक्षः, पुराणार्थोऽस्ति वा नवा? | ते प्राहुर्नितरामस्ति, को भद्रेमं निषधति? ॥ १००३ फनसालिङ्गने पुत्राः, सन्तीत्यवितथं यदि । तदा नृस्पर्शतः पुत्रप्रसूतिर्वितथा कथम् ? ॥ १००४॥ श्रुत्वेति वचनं तस्य, भाषितं द्विजपुङ्गवैः । त्वं भर्तृस्पर्शतो जातो, भद्र ! सत्यमिदं वचः ॥१००५ ॥ तापसीयं वचः श्रुत्वा, वर्षद्वादशकं स्थितः । जनन्या जठरे नेदं, प्रतिपद्यामहे परम् ॥ १००६ ॥ जगाद खेचरः पूर्व, सुभद्राया मुरद्विषा । चक्रव्यूहप्रपञ्चस्य, व्यधीयत निवेदनम् ॥ १००७ ॥ तदश्रावि कथं मातुर्गर्भस्थेनाभिमन्युना! । कथं मया न भूदेवास्तापसानां वचः पुनः? ॥ १००८ ॥
॥३२॥
Page #83
--------------------------------------------------------------------------
________________
" मयेनं " मुनिना धौते, खकौपीने सरोवरे । पीतं शुक्ररसोऽभ्येत्य, मण्डूक्या सलिलस्थया ।। १००९ ॥ तदीयपानतो गर्भे, संपन्ने सति दर्दुरी । साऽसूत सुन्दरां कन्यां संपूर्ण समये सति ॥ १०१० ॥ न जातेरस्मदीयाया, योग्येयं शुभलक्षणा । इति ज्ञात्वा तया क्षिप्ता, मण्डूक्या नलिनीदले ।। १०११ ॥ एकदा यतिना दृष्टा, सा सरोवरमीयुषा । स्वीकृंता सेहतो ज्ञात्वा, स्वबीजबलसंभवा ॥ १०१२ ॥ उपायैर्विविधैस्तेन सा प्रपाल्य विवर्धिता । अपत्यपालने सर्वो, निसर्गेण प्रवर्त्तते ॥ १०१३ ॥ उदक्यया तया तस्य, कौपीनं शुक्रकश्मलम् । परिधाय कृतं स्त्रानं, कदाचिद्यौवनोदये ॥ १०१४ ॥ जातं तस्यास्ततो गर्भ, विज्ञाय निजबीजजम् । तं मुनिः स्तम्भयामास, कन्यादूषणशङ्कितः ॥ १०१५ ॥ सप्तवर्षसहस्राणि, गर्भोऽसौ निश्चलीकृतः । अतिष्ठदुदरे तस्याः, कुर्वाणः पीडनं परम् ॥ १०१६ ॥ परिणीता ततो भव्या, रावणेन महाश्रिया । वितीर्णा मुनिनाऽसूत, पुत्रमिन्द्रजिताभिधम् ॥ १०१७ ॥ पूर्वमिन्द्रजिते जाते, सप्तवर्षसहस्रकैः । बभूव रावणः पश्चात् ख्यातो मन्दोदरीपतिः ॥ १०१८ ।। सप्तवर्षसहस्राणि, कथमिन्द्रजितः स्थितः । सवित्रीजठरे नाहं, वर्षद्वादशकं कथम् ॥ १०१९ ॥ जजल्पुर्याज्ञिकाः साधो!, तव सत्यमिदं वचः । परमुत्पन्नमात्रेण, तपोऽग्राहि कथं त्वया । ॥ १०२० ॥ १ " मयेन ऋषिणा "
Page #84
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
॥४०॥
परिणीताऽभवत्कन्या, कथं ते जननी पुनः? । सुदुर्घटमिदं ब्रूहि, सन्देहध्वान्तविच्छिदे ॥ १०२१॥ नभश्चरोऽवदद्वच्मि, श्रूयतामवधानतः । पारासरोऽजनिष्टात्र, तापसस्तापसार्चितः॥ १०२२ ॥ असावुत्तरितुं नावा, कैवा वाह्यमानया। प्रविष्टः कन्यया गङ्गां, नवयौवनदेहया ॥ १०२३॥ तामेष भोक्तुमारेभे, दृष्ट्वा तारुण्यशालिनीम् । पुष्पायुधशरैभिन्नः, स्थानास्थाने न पश्यति ॥१०२४ ॥ चकमे सापि तं बाला, शापदानविभीलुका । अकृत्यकरणेनापि, सर्वो रक्षति जीवितम् ॥ १०२५ ॥ तपःप्रभावतोऽकारि, तेन तत्र तमखिनी। सामग्रीतो विना कार्य, किञ्चनापि न सिध्यति ॥ १०२६ ॥ सुरतानन्तरं जात-स्तयोासः शरीरजः । याचमानो ममादेशं, देहि तातेति भाक्तिकः ॥ १०२७ ॥ अत्रैव वत्स ! तिष्ठ त्वं, कुर्वाणः पावनं तपः । पारासरो ददौ तस्मै, नियोगमिति तुष्टधीः ॥ १०२८ ॥ भूयो योजनगन्धाख्यां, सौगन्ध्या व्याप्तदिग्मुखाम् । आगात् पारासरः कृत्वा, कुमारी योग्यमाश्रमम्॥१०२९॥ तापसःपितुरादेशा-जननानन्तरं कथम् । व्यासो मातुरहं नास्मि, कथमेतद्विचार्यताम् ? ॥ १०३० ॥ धीवरी जायते कन्या, व्यासेऽपि तनये सति । मयि माता न मेऽत्रास्ति, किं परं पक्षपाततः? ॥ १०३१॥ अर्कसङ्गात् सुते जाते, कन्या भूयोऽभवद्यथा । कुन्ती तथैव मे माता, पुत्रे मय्यपि किं न सा? ॥१०३२॥ उद्दालकर्षिर्गङ्गायां, क्षरितं वीर्यमात्मनः । गृहीत्वा पद्मपत्रस्थं, चकार जनविश्रुतः ॥ १०३३ ॥
॥४०॥
Page #85
--------------------------------------------------------------------------
________________
सखीवृता रघोः पुत्री, चन्द्रवत्यभिधानतः । खातुं रजस्वला गङ्गामियाय गुणमण्डिता ॥ १०३४ ॥ आघायमाणे कमले, शुक्रं तत् पत्रसंस्थितम् । प्रविष्टं जठरे तस्या, बभूव गर्भसंभवः ॥ १०३५ ॥ विलोक्य तां गर्भवती, त्रस्तो लोकापवादतः । पिता निवेशयामास, सद्य एकाकिनी बने ॥१०३६ ॥ साऽसूत तनयं वाला, तृणविन्दुमुनेर्मठे । इवार्थनाशं दुर्नीतिः, कीर्तिविध्वंसकारणम् ॥ १०३७ ॥ गवेषय खं जनकं, ब्रज त्वमिति भाषिणी । मञ्जूषायां निवेश्यैपा, वालं गङ्गाजलेऽमुचत् ॥ १०३८॥ तरन्तीं तत्र मयां, निष्काश्योद्दालको मुनिः । खवीर्यजं सुतं ज्ञात्वा, जग्राह ज्ञानभास्करः ॥१०३९ ॥ तत्रागतां चन्द्रवती, मार्गयन्ती सुतं निजम् । प्रदर्य बालं तामाह, भव त्वं मे प्रियाऽधुना ॥ १०४०॥ साऽऽचष्ट पितृदत्ताऽहं, भवामि स्त्री मुने! तव । गच्छ त्वं मम निःशङ्क, जनकं प्रार्थयाधुना ॥ १०४१ ॥ प्रार्थितस्तेन भूमीशः, कृत्वा तां कन्वकां पुनः । विवाय दयितां चक्रे, साधोतस्य प्रमोदतः ॥ १०४२ ॥ अथ चन्द्रवती कन्या, कथं जातेऽपि देहजे? । कथं न जायते माता, मदीया मयि कथ्यताम् ॥ १०४३ ॥ इत्थं निरुत्तरीकृत्य, वैदिकानेष खेचरः। विमुच्य तापसाकारं, गत्वा काननमभ्यधात् ॥ १०४४ ॥ अहो लोकपुराणानि, विरुद्धानि परस्परम् । न विचारयते कोऽपि, मित्र ! मिथ्यात्वमोहितः ॥ १०४५ ॥ अपत्यं जायते स्त्रीणां, फनसालिङ्गने कुतः । मनुष्यस्पर्शतो बल्यो, न फलन्ति कदाचन ॥ १०४६ ॥
Page #86
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
॥४१॥
अन्सर्वती कथं नारी, नारीपापजायते । गोसनेम नौटा, कापि मम्भवती मम ॥१०४७॥ मण्डूकी मामु खते, केनेदं प्रतिपयते न शालितले मया तुटा, जाक्माना हि कोलकाः ॥ १०४८॥ शुक्रभक्षणमात्रेण, यद्यपत्यं प्रजायते । किं कृत्यं धवसनेम, तदापत्याय योषिताम् ? ॥ १०४९। स्तःस्पर्शनमात्रेण, जायन्ते यदि सूनवः। बीजसङ्गममात्रेण, दत्ते ससं तदा धरा ॥ १०५०॥ आमाते कमले गर्भः, शुक्राक्ते यदि जायते । भक्तमिश्रे तदा पात्रे, तृप्तिः केन निवार्यते ॥ १०५१ ॥ कथं विज्ञाय मण्डूकी, कन्यां धत्तेजिनीदले ? । भेकानामीशं ज्ञानं, कदा केनोपलभ्यते ॥ १०५२॥ रविधर्मानिलेन्द्राणां, भवेयुः सङ्गतः सुताः । कुन्त्याः सत्या विदग्धस्य, कस्येदं हदि तिष्ठति ॥ १०५३ ॥ देवानां यदि नारीभिः, सङ्गमो जायते सह । देवीभिः सह मानां, न तदा दृश्क्ते कथम् ? ॥ १०५४ ॥ सर्वाशुचिमये देहे, मानुषे कश्मले कथम् ? । निर्धातुविग्रहा देवा, रमन्ते मलवर्जिताः ॥ १०५५ ॥ अविचारणरम्याणि, परशास्त्राणि कोविदैः । यथा यथा विचार्यन्ते, विशीर्थन्ते तथा तथा ॥ १०५६ ॥ देवा(वाँ)स्तपोधनान् मुक्त्वा, कन्याः कुर्वन्ति योषितः । महाप्रभाषसंपन्ना, नेदं श्रद्दधते पुनः ॥ १०५७॥ वे पारदारिकीभूय, सेवन्ते फरयोषितः । प्रभाषो जायते तेषा, विटानां कथ्यते कथम् ? ॥ १.५८ ॥ किं मित्रासत्प्रलापेन, कृतेनानेन वच्मि ते । उत्पत्तिं कर्णराजस्व, जिनशासनशंसिताम् ॥ १०५९ ॥
॥४१॥
Page #87
--------------------------------------------------------------------------
________________
व्यासस्य भूभृतः पुत्रास्त्रयो जाता गुणालयाः। धृतराष्ट्रोऽपरः पाण्डुर्विदुरश्रति विश्रुताः ॥ १०६०॥ एकदोपवने पाण्डू, रममाणो मनोरमे । निरक्षत लतागेहे, खचरी काममुद्रिकाम् ॥ १०६१॥ यावत्तिष्ठति तत्रासौ, कृत्वा मुद्रां कराङ्गुलौ । अगाञ्चित्राङ्गदस्तावत्तस्याः खेटो गवेषकः ॥ १०६२ ॥ तस्य सा पाण्डुना दत्ता, निःस्पृहीभूतचेतसा । परद्रष्ये महीयांसः, सर्वत्रापि पराङ्मुखाः ॥ १०६३ ॥ स विलोक्य विलोभत्वं, तममन्यत बान्धवम् । अन्यवित्तस्पृहाशून्या, जायन्ते जगतो मताः ॥ १०६४ ॥ तमाचष्ट ततः खेटः, साधो! त्वं मे सुबान्धवः । योऽन्यदीयं सदा द्रव्यं, पाषाणमिव पश्यति ॥ १०६५ ॥ विषण्णो दृश्यसे किं त्वं?, बन्धो सूचय कारणम्।न गोप्यं क्रियते किञ्चित् , सुहृदो हि पटीयसा ॥१०६६॥ अमाषिष्ट ततः पाण्डुः, साधो! सूर्यपुरे नृपः । विद्यन्तेऽन्धकवृष्ण्याख्यस्त्रिदिवे मघवानिव ॥ १०६७ ॥ तस्यास्ति' सुन्दरा कन्या, कुन्ती मकरकेतुना । ऊवीकृतपताकेव, त्रिलोकजविना सत्ता ॥ १०६८॥ सा तेन भूभृता पूर्ण, दत्ता मन्मथवर्धिनी । इदानीं न पुनर्दत्ते, विलोक्य मम सेगिताम् ॥ १०६९ ।। अनेन हेतुना बन्धो!, विषादो मानसेऽजनि । कुठार इच काठाना, गर्मणां नर्मकर्तकः ॥ १०७०।। चित्रानदस्ततोऽवोचत्, साधो! मुश्च विषण्णताम् । नाशथापितकोप, कुलप्य मम मावितम् ॥ १०७१॥ गृहाणा त्वमिमा मित्र!, मदीयां काममुद्रिकाम् । कामरूपधसे भूत्वा, तां मजखा मनःनियार॥१०७२ ।।
Page #88
--------------------------------------------------------------------------
________________
धर्म
॥ ४२ ॥
पश्चाद्गर्भवतीं जाता, स ते दास्यति ता खयम् । न दूषिता स्त्रियं सन्तो, वासयन्ति निजे गृहे ॥ १०७३ ॥ - सोऽगात्तस्यास्ततो गेहं गृहीत्वा काममुद्रिकाम् । स्वयं हि विषये लोलो, लब्धोपायो न किं जनः १ ॥ १०७४॥ खेच्छया स सिषेवे तां, कामाकारधरो रहः । मनःप्रियां प्रियां प्राप्य, खेच्छा हि क्रियते न कैः १ ॥ १०७५ ॥ तेन तां सेवमानेन, कुमारीं दिनसप्तकम् । यूना निरोपितो गर्भः, कोशो नीतिमिवानघाम् ॥ १०७६ ॥ आयासीन्निर्वृतो भूत्वा, हित्वा तत्रैव तामसौ । सिद्धे मनीषिते कृत्ये, निर्वृतिं लभते न कः ? ॥ १०७७ ॥ ज्ञात्वा गर्भवतीं मात्रा, निभृतं सा प्रसाधिता । गुह्यं छादयते सर्वो, गृहदूषणभीलुकः ॥ १०७८ ॥ मञ्जूषायां विनिक्षिप्य, देवनद्यां प्रवाहितः । तदीयस्तनयो मात्रा, गृहदूषणभीतया ॥ १०७९ ॥ गङ्गया नीयमानां तामादित्यो जगृहे नृपः । संपत्तिमिव दुनिया, दृष्ट्वा चम्पापुरीपतिः ॥ १०८० ॥ तस्या मध्ये ददर्शासौ, बालं पावनलक्षणम् । सरखत्या इवानिन्द्यमर्थ विद्वज्जनार्चितम् ॥ १०८१ ॥ कर्णे गृहीतो भूपालो, बालेन सुखदर्शनम् । आजुहाव महाप्रीत्या, ततस्तं कर्णसंज्ञया ॥ १०८२ ॥ अवीवृधदसौ बालमपुत्रः पुत्रकाङ्क्षया । अद्रव्यो द्रव्यलोलेन, द्रव्यराशिमिवोर्जितम् || १०८३ ॥ चम्पायां सोऽभवद्राजा, तत्रातीते महोदये । आदित्ये भुवनानन्दी, व्योमनीव निशाकरः ॥ १०८४ ॥ आदित्येन यतोsवर्द्धि, भूभृताऽऽदित्यजस्ततः । ज्योतिष्केण पुनर्जातो, नादित्येन महामनाः ॥ १०८५ ॥
परीक्षा.
॥ ४२ ॥
Page #89
--------------------------------------------------------------------------
________________
- % % জ*
निर्द्धातुकेन देवेन, न नाय जन्यते नरः । पाषाणेन कदा धात्र्यां, जन्यन्ते सस्यजातयः १ ॥ १०८६ ॥ वितीर्णा पाण्डवे कुन्ती, विज्ञायान्धकवृष्णिना । गान्धारी धृतराष्ट्राय, दोषं प्रच्छाद्य धीमता ॥ १०८७ ॥ इत्यन्यथा पुराणार्थी, व्यासेन कथितोऽन्यथा । रागद्वेषग्रहग्रस्ता, न हि विभ्यन्ति पापतः ॥ १०८८ ॥ युक्तितो घटते यन्न, तद्रुवन्ति न धार्मिकाः । युक्तिहीनानि वाक्यानि भाषन्ते पापिनः परम् ।। १०८९ ॥ व्यासो योजनगन्धायाः, पुत्रः स ह्यपरो मतः । धन्याया राजकन्यायाः सत्यवत्याः पुनः परः ॥ १०९० ॥ परः पारासरो राजा, तापसोऽसौ पुनः परः । एकतां कुर्वते लोकास्तयोर्ना मविमोहिताः ॥ १०९१ ॥ दुर्योधनादयः पुत्रा, गान्धार्या धृतराष्ट्रजाः । कुन्तीमाद्योः सुताः पञ्च पाण्डवाः प्रथिता भुवि ।। १०९२ ॥ गान्धारीतनयाः सर्वे, कर्णेन सहिता नृपम् । जरासन्धं व्यषेवन्त पाण्डवाः केशवं पुनः ॥ १०९३ ॥ जरासन्धं रणे हत्वा वासुदेवो महाबलः । वभूव धरणीपृष्ठे, समस्ते धरणीपतिः ॥ १०९४ ॥ कुन्तीशरीरजाः कृत्वा, तपो जग्मुः शिवास्पदम् । मद्रीशरीरजौ भव्यौ, सर्वार्थसिद्धिमीयतुः ॥ १०९५ ॥ ईदृशोऽयं पुराणार्थी, व्यासेन कथितोऽन्यथा । मिथ्यात्वाकुलचित्तानां, तथ्या भाषा कुतस्तनी ? ॥ १०९६ ॥ अप्रसिद्धिकरीं दृष्ट्वा, पूर्वापरविरुद्धताम् । भारते निर्मिते व्यासः, प्रदध्याविति मानसे ।। १०९७ ॥ निरर्थकं कृतं कार्य, यदि लोके प्रसिद्ध्यति । असंबद्ध विरुद्धार्थ, तदा शास्त्रमपि स्फुटम् ॥ १०९८ ॥
********
Page #90
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
॥ ४३ ॥
स ताम्रभाजनं क्षिप्त्वा, जाह्नवीपुलिने ततः । तस्योपरि चकारोचं, वालुकापुअमूर्जितम् ॥ १०९९ ॥ तदीयं सिकतापुआं, विलोक्य सकलैर्जनैः । परमार्थमजानानैश्चक्रिरे धर्मकातिमिः ॥ ११०० ॥ यावत् स्त्रानं विधायासौ, वीक्षते ताम्रभाजनम् । तावत्तत्पुअसङ्घाते, न स्थानमपि बुद्धयते ॥ ११०१॥ पुलिनव्यापकं दृष्ट्वा, वालुकापुञ्जसञ्चयम् । विज्ञाय लोकमूढत्वं, स श्लोकमपठीदिमम् ॥ ११०२॥ दृष्टानुसारिभिर्लोकः, परमार्थाविचारिभिः । तथा खं हार्यते कार्य, यथा मे ताम्रभाजनम् ॥ ११०३ ॥ मिथ्याज्ञानतमोव्याते, लोकेऽस्मिन्निर्विचारके । एकः शतसहस्राणां, मध्ये यदि विचारकः ॥ ११०४ ।। विरुद्धमपि मे शास्त्रं, यास्यतीदं प्रसिद्धताम् । इति ध्यात्वा तुतोपासी, दृष्ट्वा लोकविमूढताम् ॥ ११०५ ॥ विज्ञायेत्थं पुराणानि, लौकिकानि मनीपिभिः । न कार्याणि प्रमाणानि, वचनानीव वैरिणाम् ॥ ११०६ ॥ दर्शयामि पुराणं ते, मित्रान्यपि लौकिकम् । उक्त्वेति परिजग्राह, स रक्तपटरूपताम् ॥ ११०७ ॥ द्वारेण पञ्चमेनासौ, प्रविश्य नगरं ततः । आरूढः कानके पीठे, भेरीमाहत्य पाणिना ॥ ११०८ ॥ समेत्य भूसुरैरुक्तो, दृश्यसे त्वं निचक्षणः । किं करोषि समं ? वादमस्माभिर्वत्सि किञ्चन? ॥ ११०९ ॥ आख्यदेप न जानामि, किश्चिन्छास्त्रमहं द्विजाः । अपूर्व भेरिमाताड्य, निविष्टोऽष्टापदासने ॥ १११० ॥ ते प्राहुर्मुश्च भद्र! त्वं, वर्करं प्राञ्जलं वद । सद्भाववादिभिः सार्ध, तत्कुर्वाणो विनिन्द्यते ॥ ११११ ॥
||४३।।
Page #91
--------------------------------------------------------------------------
________________
स प्राह दृष्टमाचर्य, सूचयामि परं चके । निर्विचारतया यूयं मा ग्रहीष्टान्यथा स्फुटम् ॥ १११२ ॥
वादिपुः समाचक्ष्व मा भैषीभद्र ! सर्वथा । वयं विवेचकाः सर्वे, न्यायवासितमानसाः ॥ १११३ ॥ ततो रक्तपटः प्राह यद्येवं श्रूयतां तदा । उपासकसुतावावां, बन्दकानामुपासकौ ॥ १११४ ॥ एकदा रक्षणायावां, यष्टिपाणी नियोजितौ । शोषणाय खवासांसि क्षोण्यां निक्षिप्य भिक्षुभिः ॥ १११५ ॥ आवयो रक्षतोस्तत्र, भिक्षुवासांसि यत्नतः । आजग्मतुः शृगालौ द्वौ, भीषणौ स्थूलविग्रहौ ।। १११६ ॥ त्रस्तावावां ततो यावदारूढौ स्तूपमुर्जितम् । तावदुत्पतितौ तत्तौ, गृहीत्वा वेगतो दिवि ॥ १११७ ॥ श्रुत्वाssवयोः खनं यावन्निर्गच्छन्ति तपखिनः । योजनानि गतौ तावद, द्वादशैतौ मदास्पदौ ॥ १११८ ॥ मुक्त्वा स्तूपमिमौ भूम्यामावां खादितुमुद्यतौ । गृद्धौ तौ नखि (सौनश्चि) कांश्चित्रानद्राष्टां शस्त्रधारिणः ॥ १११९॥ तावस्मद्भक्षणं त्यक्त्वा, तेभ्यो भीतौ पलायितौ । करोति भोजनारम्भं, न कोऽपि प्राणसंशये ॥ १२२० ॥ ततः पापर्धिकैः सार्धमागत्य विषयं शिवम् । आवाभ्यां मन्त्रितं द्वाभ्यां निश्चलीकृत्य मानसम् ॥ ११२१ ॥ परकीयमिमं प्रासौ, देशमाशाविमोहितौ । कथं मार्गमजानन्तौ यावो गृहमशम्बलौ ? ॥ ११२२ ॥ रक्तानि सन्ति वस्त्राणि, मुण्डयावः परं शिरः । आयां किं नु करिष्यामो गेहेनानर्थकारिणा १ ॥ ११२३ ॥ आवाभ्यां इत्थमालोच्य, गृहीतं व्रतमात्मना । स्वयंमेव प्रवर्तन्ते, पण्डिता धर्मकर्मणि ॥ ११२४ ॥
Page #92
--------------------------------------------------------------------------
________________
धर्म
॥ ४४ ॥
भ्रमन्तौ धरणीमावां, नगराकरमण्डिताम् । भवदीयमिदं स्थानमागच्छावो द्विजाऽऽकुलम् ॥ ११२५ ॥ शृगालस्तूपकोत्क्षेपनयनाश्चर्यमीदृशम् । दृष्टं प्रत्यक्षमावाभ्यामिदं वो विनिवेदितम् ॥ ११२६ ॥ इदं वचनमाकर्ण्य, क्षितिदेवा वभाषिरे । असत्यमीदृशं भद्र!, व्रतस्थो भाषसे कथम् ? ॥ ११२७ ॥ एकीकृत्य ध्रुवं राष्ट्रा, त्रैलोक्यासत्यवादिनः । कृतस्त्वमन्यथेदृक्षः, किमसत्यो न दृश्यते ? ॥ ११२८ ॥ इदं विप्रवचः श्रुत्वा, जगाद नृपनन्दनः । वितथानि पुराणेषु, मेदृशानि किमु द्विजाः १ ॥ ११२९ ॥ दोषं परस्य सर्वोऽपि पश्यति स्वस्य नो पुनः । कलङ्कं शशिनि नेत्रं, कज्जलं नात्मनः पुनः ॥ ११३० ॥ विप्रा बभाषिरे भद्र ?, पुराणेषु यदीदृशम् । त्वयेक्षितं तदा ब्रूहि, त्यजामोऽसत्यवाक्यतः ॥ ११३१ ॥ श्रुत्वेत्याख्यन्मनोवेगस्त्यक्ष्यथ ब्राह्मणा यदि । तदाऽसत्यं पुराणार्थ, त्रवीम्यहमशेषतः ॥ ११३२ ॥ हत्वा त्रिशिरःखराद्यान् वने रामः सलक्ष्मणः । यावदास्ते ससीताकस्तावलङ्केश आगतः ॥ ११३३ ॥ स प्रदर्श्य स्वर्णमृगं, छलात् सीतामपाहरत् । हत्वा शकुन्तं तद्रक्षोद्यतं रामभ्रमप्रदम् ॥ ११३४ ॥ सुग्रीवादिकपिव्यूहैर्वृतो रामोऽपि शुद्धये । आदिदेश हनूमन्तं प्रियायाः को न शुद्धिकृत् ? ॥ ११३५ ॥ सीताशुद्धिकरे तस्मिन्नायाति लक्ष्मणोऽग्रजः । वानरैर्वन्धयामास, सेतुमम्भोधिजीवने ॥ ११३६ ॥ एकैको वानरः पञ्च जगामान धराधरान् । गृहीत्वा हेलयाऽऽकाशे, कुर्वन् क्रीडामनेकधा ॥ ११३७ ॥
परीक्षा.
41188 11
Page #93
--------------------------------------------------------------------------
________________
रामायणाभिधे शास्त्रे, वाल्मीकिमुनिना कृते । किं भो दाशरथेर्वृत्तं किमित्थं कथ्यते न वा ? ॥ ११३८ ॥ asaraarci सत्यं केनेदं क्रियतेऽन्यथा । प्रभातं छाद्यते जातु न केनापि हि पाणिना । ११३९ ॥ ततो रक्तपटोsलापीद्यद्येको वानरो द्विजाः ! । आदाय पर्वतान् पञ्च, गगने याति लीलया ।। ११४० ॥ शृगालौ तौ तदा स्तूपमेकमादाय मांसलौ । व्रजन्तौ नभसि क्षिप्रं वार्येते केन कथ्यताम् ? ॥। ११४१ ॥ भवदीयमिदं सत्यं, मदीयं नात्र दृश्यते । विचारशून्यतां हित्वा, कारणं न परं मया । ११४२ ॥ युष्माकमीदृशे शास्त्रे, देवधर्मावपीशौ । कारणे कश्मले कार्य, निर्मलं जायते कुतः ? ॥ ११४३ ॥ नास्माकं युज्यते मध्ये, मिथ्याज्ञानवृतात्मनाम् । ईदृशानामवस्थातुमित्युक्त्वा निर्ययौ ततः ॥ १९४४ ॥ मुक्त्वा रक्तपटाकारं, मित्रमूचे मनोजवः । सर्वासंभावनीयार्थी, परशास्त्रं श्रुतं त्वया ॥। ११४५ ॥ एतदुक्तमनुष्ठानं, कुर्वाणो नाश्रुते फलम् । सिकतापीलने तैलं, कदा केनोपलभ्यते ? ॥। ११४६ ॥ वानरै राक्षसा हन्तुं शक्यन्ते न कथञ्चन । क्व महाष्टगुणा देवाः ? क्व तिर्यचो विचेतसः ? ॥। ११४७ ॥ उत्क्षिप्यन्ते कथं शैला ? गरीयांसः प्लवङ्गमैः । कथं तिष्ठन्त्यकूपारेऽगाधनिर्मुक्तपाथसि ? | ११४८ ॥ वरप्रसादतो जातो, यद्यवध्यो दिवौकसाम् । तदाऽसौ मानवीभूय, हन्यते किं नु रावणः ? | ११४९ ॥ अमरा वानरीभूय, निजघ्न राक्षसाधिपम् । नैषापि युज्यते भाषा, नेप्सिता लभ्यते गतिः ॥ ११५० ॥
Page #94
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
SHARMA
सर्ववेदी कथं दत्ते, शङ्करो वरमीदृशम् ? । देवानामपि दुर्वारो, भुवनोपद्रवो यतः ॥ ११५१ ।। नार्थः परपुराणेषु, चिन्त्यमानेषु दृश्यते । नवनीतं कदा तोये, मध्यमाने हि लभ्यते ? ॥ ११५२॥ शाखामृगा भवन्त्येते, न सुग्रीवपुरस्सराः । न लोककल्पिता मित्र!, राक्षसा रावणादयः ॥ ११५३ ॥ विद्याविनयसंपन्ना, जिनधर्मपरायणाः । शुचयो मानवाः सर्वे, सदाचारमहौजसः ॥ ११५४ ॥ ततः शाखामृगाः प्रोक्ता, यतः शाखामृगध्वजाः । सिद्धानेकमहाविद्या, राक्षसा राक्षसध्वजाः ॥ ११५५ ॥ | गौतमेन यथा प्रोक्ताः, श्रेणिकाय महीभुजे । श्रद्धातव्यास्तथा भव्यैः, शशाङ्कोज्वलदृष्टिभिः ॥ ११५६ ॥ परकीयं परं साधो!, पुराणं दर्शयामि ते । इत्युक्त्वा श्वेतभिक्षुत्वं, जग्राहासौ समित्रकः ॥ ११५७ ॥ एप द्वारेण पष्ठेन, गत्वा पुष्पपुरं ततः । आस्फाल्य सहसा भेरीमारूढःकनकासने ॥११५८ ॥ आगत्य ब्राह्मणैः पृष्टः, किं वेत्सि? को गुरुस्तव? । कर्तुं शक्नोपि किं वादं ? सौष्ठवं दृश्यते परम् ॥ ११५९ ॥ तेनोक्तं वेद्मि नो किञ्चिद्विद्यते न गुरुर्मम । वादनामापि नो वेद्मि, वादशक्तिः कुतस्तनी ? ॥ ११६० ॥ अदृष्टपूर्वकं दृष्ट्वा, निविष्टोऽष्टापदासनम् । प्रताड्य महतीं भेरी, महाशब्ददिदृक्षया ॥ ११६१ ॥ आभीरतनयो मूल्, सर्वशास्त्रवहिष्कृतौ । पर्यटावो महीं भीत्या, गृहीत्वाऽऽवां वयं तपः ॥ ११६२ ॥ तेऽभापन्त कुतो भीत्या, युवाभ्यां स्वीकृतं तपः! । उपरोधेन जल्प त्वमस्माकं कौतुकं परम् ॥ ११६३ ॥
॥४५॥
Page #95
--------------------------------------------------------------------------
________________
श्वेतभिक्षुस्ततोऽजल्पीदाभीरविषये पिता। आवयोररुणश्रीको, वृक्षग्रामव्यनस्थितिः ॥ ११६४ ॥ अन्येयुरविपालेन, पित्रा जाते ज्वरे सति (ज्वरोद्गमे) । आवामूरणरक्षार्थ, प्रहितावटवीं गतौ ॥ ११६५ ॥ वहुशाखाप्रशाखादयः, कुदन्तीय फलानतः । कपित्थपादपो दृष्टस्तत्रावाभ्यां महोदयः ॥ ११६६ ॥ ततोऽयादि मया भ्राता, कपिखादनचेतसा । अहमभि कपित्थानि, रक्ष भ्रातरवीरिमाः ॥ ११६७ ॥ ततः पालयितुं याते, सोदरेऽस्मिन्नवीगणम् । दुरारोहं तमालोक्य, कपित्थं चिन्तितं मया ॥ ११६८ ॥ न शक्नोम्यहमारोढुं, दुरारोहेऽत्र पादपे । खादामि कथमेतानि, बुभुक्षाक्षीणकुक्षिकः ॥ ११६९ ॥ खयमत्र सुखं गत्वा ?, विचिन्त्येति चिरंमया। छित्वा शिरो निजंक्षिप्त, सर्वप्राणेन पादपे ॥ ११७० ॥ युग्मम् ॥ यथा यथा कपित्थानि, खेच्छयात्ति शिरो मम । महासुखकरी तृप्ति, गात्रं याति तथा तथा ॥ ११७१ ॥ विलोक्य जठरं पूर्णमधस्तादेत्य मस्तके । कण्ठे निष्षन्धिके लग्ने, गतो द्रष्टुमवीरहम् ॥ ११७२ ॥ यावत्ततो ब्रजामि स्म, भ्रातृसङ्गममुत्सुकः तावच्छयितमद्राक्षं, भ्रातरं काननान्तरे ॥ ११७३ ॥ उत्थाप्य स मया पृष्ट, एता याताः क मेषिकाः। तेनोकं मयि सुप्ते ताः, कापि भ्रातः! पलायिताः॥११७४॥ भ्राता ततो मया प्रोक्तो, नंष्ट्वा यावः कुतश्चन । निग्रहीष्यति विज्ञाय, कोपिष्यति पिताऽऽवयोः ॥११७५॥ यष्टिकम्बलमुण्डत्वं, लक्षणं लिङ्गमावयोः । विद्यते श्वेतमिथूणां, सुखभोजनसाधनम् ॥ ११७६ ॥
ACANCYCLk
Page #96
--------------------------------------------------------------------------
________________
| परीक्षा.
॥४६॥
परं गतौ मरिष्यावः, परदेशे बुभुक्षया । निर्लिङ्गी येन तेनावां, भवतो (वावो) भद्रलिझिनौ ॥ ११७७॥ कुलेन सितवस्त्राणां, यतो नौ भाक्तिकः पिता । श्वेतभिक्षु भवावस्तत्, नान्यलिङ्गः प्रयोजनम् ॥ ११७८॥ इति ज्ञात्वा खयं भूत्वा, श्वेताम्बरतपोधनौ । आयातौ भवतां स्थानं, हिण्डमानौ महीतलम् ॥ ११७९ ॥ ते प्राहुन विभेपि त्वं, यद्यपि श्वभ्रयानतः । तथापि युज्यते वक्तुं, नेदृशं व्रतवर्तिनाम् ॥ ११८० ॥ अभाषिष्ट ततः खेटो, धृतश्वेताम्बराकृतिः। किं वाल्मीकिपुराणे वो, विद्यते नेदृशं वचः? ॥११८१॥ ऊचुस्ततो द्विजा दृष्टं, त्वया क्वापि यदीदृशम् । तदा व्याचक्ष्व निःशङ्कस्ततोऽवादीनभश्चरः॥ ११८२॥ यो विंशतिमहावाहुर्महाधैर्यो दशाननः । सोऽभवद्राक्षसाधीशो, विख्यातो भुवनत्रये ॥ ११८३ ॥ तेनाराधयता शम्भु, स्थेयसी भक्तिमीयुषा । छिन्नानि करवालेन, मस्तकानि नवात्मनः ॥ ११८४ ॥ फुल्लाधरदलैस्तेन, पूजितो मुखपङ्कजैः। ततो गौरीपतिर्भक्त्या, वरार्थी कुरुते न किम्? ॥ ११८५ ॥ निजेन वाहुना श्रव्यं, कृत्वा रावणहस्तकम् । सङ्गीतं कर्तुमारेभे, देवगान्धर्वमोहकम् ॥११८६ ॥ गौरीवदनविन्यस्ता, दृष्टिमाकृष्य धूर्जटिः । विलोक्य सहसा तस्य, दत्तवानीप्सितं वरम् ॥ ११८७ ॥ निष्पन्धि योजिता भूयस्तत्र मूर्धपरम्परा । उष्णाभिरश्रुधाराभिः, सिञ्चन्ती धरणीतलम् ॥ ११८८ ॥ किमीदृशः पुराणार्थो, वाल्मीकीयोऽस्ति भो! नवा? | निगद्यतां तदा सत्यं, यूयं चेत् सत्यवादिनः॥११८९॥
ता॥४६॥
Page #97
--------------------------------------------------------------------------
________________
ते व्याचचक्षिरे साधो!, सत्यमेवेदमीदृशम् । प्रत्यक्षमीक्षितं ख्यातं, केऽन्यथाकर्तुमीशते ॥ ११९० ॥ श्वेतभिक्षुस्ततोऽयोचन्मूर्धानो यदि कर्त्तिताः । रावणस्य नवाऽऽलग्नास्तदेको न कथं मम ? ॥ ११९१ ॥ युष्मदीयमिदं सत्यं, नास्मदीयं वचः पुनः । कारणं नात्र पश्यामि, मुक्त्वा मोहविज़म्भणम् ॥ ११९२ ॥ हरः शिरांसि लूनानि, पुनर्योजयते यदि । खलिङ्गं तापसैश्छिन्नं, तदानीं किं न योजितम् ? ॥ ११९३ ॥ खोपकाराक्षमः शम्भुर्नान्येपामुपकारकः । न स्वयमर्थ(यं मार्य)मानो हि, परं रक्षति वैरितः ॥ ११९४ ॥ अन्यच्च श्रूयतां विप्राः!, पुत्रं दधिमुखाभिधम् । श्रीकण्ठब्राह्मणख्यातं, शिरोमात्रमजीजनत् ॥ ११९५ ॥ श्रुतयः स्मृतयस्तेन, निर्मलीकरणक्षमाः । स्वीकृताः सकलाः क्षिप्रं, सागरेणेव सिन्धवः ॥ ११९६ ॥ तेनागस्त्यो मुनिर्दृष्टो, जातु कृत्वाऽभिवादनम् । त्वयाऽद्य मे गृहे भोज्यमिति भक्त्या निमत्रितः ॥११९७॥४ अगस्तिम्तमभापिष्ट, क्वास्ति ते भद्र! तद्गृहम् ! । मां त्वं भोजयसे यत्र, विधाय परमादरम् ॥ ११९८ ॥ तेनागद्यत किं पित्रोर्गेई साधो! ममास्ति नो? । मुंनिनोक्तं न ते तेन, संबन्धः कोऽपि विद्यते ॥ ११९९ ॥ दानयोग्यो गृहस्थोऽपि, कुमारो नेष्यते गृही। दानधर्मक्षमा साधी, गृहिणी गृहमुच्यते ॥ १२००॥ निगद्येति गते तस्मिंस्तेनोक्तौ पितराविदम् । कौमार्यदोपविच्छेदो, युवाभ्यां क्रियतां मम ॥ १२०१॥ ताभ्यामुक्तः स ते पुत्र!, कोपि दत्ते न दिक्करीम् । आवां निराकरिष्यावः, कान्ताश्रद्धां तथापि ते ॥१२०२॥
4-SC
Page #98
--------------------------------------------------------------------------
________________
परीक्षा.
द्रव्येण भूरिणा ताभ्यां, गृहीत्वा निःखदेहजाम् । कृत्वा महोत्सवं योग्यं, तयाऽसौ परिणायितः॥१२०३॥ ताभ्यामेष ततोऽवाचि, खल्पकालव्यतिक्रमे । नावयोरस्ति वत्स! खं, त्वं खां पालय वल्लभाम् ॥ १२०४ ॥ ततो दधिमुखेनोक्ता, स्ववधूरेहि वल्लभे । बजावः क्वापि जीवावः, पितृभ्यां पेल्लितो गृहात् ॥ १२०५ ॥ ततः पतित्रताऽऽरोप्य, सिकके दयितं निजम् । वभ्राम धरणीपृष्ठे, दर्शयन्ती गृहे गृहे ॥ १२०६ ॥ पालयन्तीमिमां दृष्ट्वा, तादृशं विकलं पतिम् । चक्रिरे महती भक्तिं, ददानाः कनकं प्रजाः ॥ १२०७ ॥ तथा पतिव्रता पूजां, लभमाना पुरे पुरे । एकदोजयिनी प्राप्ता, भूरिडिम्भाऽऽकुला सती ॥ १२०८ ॥ सा टिण्टां कीलके मुक्त्वा, सिककं कान्तसंयुतम् । गता प्रार्थयितुं भोज्यमेकदा नगरान्तरे ॥ १२०९ ॥ परस्परं महायुद्धे, जातेऽत्र द्यूतकारयोः । एकम्यैकः शिरश्छेद, चक्रे खड्ड्रेन वेगतः ॥ १२१० ॥ असिनोत्क्षिप्यमाणेन, विलुने सति सिक्कके । मूर्धा दधिमुखस्यैत्य, लग्नस्तत्र कबन्धके ॥ १२११ ॥ ततो दधिमुखो भूत्वा, लमनिष्पन्धिमस्तकः । सर्वकर्मक्षमो जातो, नरः सर्वाङ्गसुन्दरः ॥ १२१२ ॥ किं जायते नवा सत्यमिदं वाल्मीकिभाषितम् । निगद्यतां मम क्षिप्रं, पर्यालोच्य खमानसे ॥ १२१३ ॥ अशंसिपुर्द्विजास्तथ्यं, केनेदं क्रियतेऽन्यथा । उदितोऽनुदितो भानुर्भण्यमानो न जायते ॥ १२१४ ॥ खेटेनावाचि तस्याऽसौ, निश्छेदोऽन्यकवन्धके । यदि निष्पन्धिको लग्नस्तदाऽच्छेदि कथं न मे? ॥१२१५॥
ACCSCROCRACHAN
12
॥४७॥
Page #99
--------------------------------------------------------------------------
________________
MAHARASHTRA
सितेन करवालेन, रावणेन द्विधा कृतः । तथाऽङ्गदः कथं लग्नो, योज्यमानो हनूमता ॥ १२१६ ॥ आराध्य देवतां लब्ध्वा, ततः पिण्डं मनीषितम् । दानवेन्द्रो ददौ देव्यास्तनयोत्पत्तिहेतवे ॥ १२१७ ॥ द्विधाकृत्य तया दत्ते, सपल्या मोहतो दले । द्विधागर्भस्तयोर्देव्योर्भवति स्म द्वयोरपि ॥ १२१८ ॥ जातं खण्डद्वयं दृष्ट्वा, संपूर्ण समये सति । ताभ्यां नीत्वा बहिः क्षिप्त, जरसा सन्धितं पुनः॥ १२१९ ॥ तत्र जातो जरासन्धो, विनिर्जितनरामरः । सर्वकर्मक्षमः ख्यातो, महनीयपराक्रमः ॥ १२२० ॥ शकलद्वितयं लग्नं, योज्यमानं गतवणम् । सव्रणो न कथं मूर्धा, मदीयः कथ्यतां द्विजाः ॥ १२२१ ॥ जरासन्धाङ्गदौ यत्र, द्विधाकृतकलेवरौ । जीवितौ मिलितो तत्र, न किं मे मूर्धविग्रहौ ? ॥ १२२२ ॥ एकीकृत्य कथं स्कन्दः, षट्रखण्डोऽपि विनिर्मितः ? । प्रतीयते न मे योगश्छिन्नयोर्मूर्धदेहयोः ॥ १२२३ ॥ अथ षड्दनो देवः, षोढाऽप्येकत्वमश्नुते । तदयुक्तं यतो नार्या, देवः संपद्यते कुतः? ॥ १२२४ ॥ निरस्ताशेषरक्तादिमलायां देवयोषिति । शिलायामिव गर्भस्य, सम्भवः कथ्यतां कथम् ? ॥ १२२५ ॥ द्विजैरुक्तमिदं सर्च, सूनृतं भद्र ? भाषितम् । परं कथं फलैर्मूओ, जग्धैः पूर्ण तवोदरम् ? ॥१२२६ ॥ ततोऽवदत् श्वेतभिक्षुर्यदि भुक्ते द्विजवजे । तृप्यन्ति पितरो नीताः, किं नाङ्गं मूर्मि मे तदा? ॥ १२२७ ॥ निरुत्तरानथालोक्य, खेटपुत्रौ द्विजन्मनः । निर्गत्य काननं यातौ, भूरिभूरुहभूषितम् ॥ १२२८ ॥
Page #100
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
॥४८॥
आसीनौ पादपस्याधो, मुक्त्वा श्वेताम्बराकृतिम् । सज्जनस्येव नम्रस्य, विचित्रफलशालिनः ॥ १२२९ ॥ ऊचे पवनवेगस्तं, जिघृक्षुर्जिनशासनम् । मित्र ! द्विजादिशास्त्राणां, विशेषं मम सूचय ॥ १२३०॥ तमुवाच मनोवेगो, वेदशास्त्रं द्विजन्मनाम् । प्रमाणं मित्र! धर्मादावकृत्रिममदूषणम् ॥ १२३१ ॥ हिंसा निवेद्यते येन, जन्मोरुहवर्धिनी । प्रमाणीक्रियते तन्न, ठकशास्त्रमिवोत्तमैः ॥ १२३२ ॥ वेदेन गदिता हिंसा, जायते धर्मकारणम् । न पुनष्ठकशास्त्रेणे, न विशेषोऽत्र दृश्यते ॥ १२३३ ॥ नापौरुषेयता हेतुर्वेदे धर्मनिवेदने । तस्या विचार्यमाणायाः, सर्वथाऽनुपपत्तितः ॥ १२३४ ॥ अकृत्रिमः कथं वेदः?, कृतस्ताल्वादिकारणैः । प्रासादोऽकृत्रिमो नोक्तस्तक्षव्यापारनिर्मितः ॥ १२३५ ॥ ताल्लादि कारणं तस्य, व्यञ्जकं न तु कारणम् । नात्रावलोक्यते हेतुः, कोऽपि निश्चयकारणम् ॥ १२३६ ॥ यथा कुम्भादयो व्यङ्गया, दीपकैय॑जकैर्विना । विजायन्ते तथा शब्दा, विना ताल्वादिभिर्न किम्?॥१२३७॥ कृत्रिमेभ्यो न शास्त्रेभ्यो, विशेषः कोऽपि दृश्यते । अपौरुषेयता तस्य, वैदिकैः कथ्यते कथम् ? ॥ १२३८ ॥ व्यज्यन्ते व्यापका वर्णाः, सर्वे ताल्लादिभिर्न किम् ? । व्यञ्जकैरेकदा कुम्भा, दीपकैरिव सर्वथा ॥ १२३९॥ सर्वज्ञेन विना तस्य, केनार्थः कथ्यते स्फुटम् ? । न वयं भाषते खार्थ, विसंवादोपलब्धितः ॥ १२४० ॥ ऐदंयुगीनगोत्रर्षिशाखादीनि सहस्रशः । अनादिनिधनो देवः, कथं सूचयितुं क्षमः? ॥ १२४१ ॥
॥४८॥
Page #101
--------------------------------------------------------------------------
________________
पारम्पर्यण स ज्ञेयो, नेदृशं सुन्दरं बचः । सर्वज्ञेन विना मूलं, पारम्पर्य कुतस्तनम् ! ॥ १२४२ ॥ समस्तैरप्यसर्वहर्वेदो ज्ञातुं न शक्यते । सर्वे विचक्षुपो मार्ग, कुतः पश्यन्ति काङ्क्षितम् ॥ १२४३॥ कालेनानादिना नष्ट, कः प्रकाशयते पुनः । असर्वज्ञेषु सर्वेषु, व्यवहारमिवादिमम् ॥ १२४४ ॥ नापौरुषेयता सार्था, सर्वत्रापि मता सताम् । पन्था हि जारचौराणां, मन्यते कैरकृत्रिमः ? ॥ १२४५ ॥ अथ पुम्भिः(अध्वर्युभिः)कृता यागे,हिंसा संसारकारिणी। पापर्धिकैरिवारण्ये, प्राणिपीडाकरी यतः॥१२४६॥ हन्यमाना हठाजीवा, याज्ञिकैःखादिकैरिव । खग यान्तीति मे चित्रं, सक्लेशब्याकुलीकृताः॥ १२४७ ।। या धर्मनियमध्यानसङ्गतैः साध्यतेऽङ्गिभिः । कथं खर्गगतिः साध्या, हन्यमानैरसौ हठात् ॥ १२४८ ॥ वैदिकानां वचो ग्राह्य, न हिंसासाधु साधुभिः । खादिकानां कुतो वाक्यं, धार्मिकैः क्रियते हदि ? ॥१२४९॥ न जातिमात्रतो धर्मी, लभ्यते देहधारिभिः । सत्यशौचतपःशीलध्यानखाध्यायवर्जितैः ॥ १२५० ॥ आचारमात्रभेदेन, जातीनां भेदकल्पनम् । न जातिाह्मणीयाऽस्ति, नियता कापि तात्त्विकी ॥१२५१॥ ब्राह्मणक्षत्रियादीनां, चतुर्णामपि तत्त्वतः । एकैव मानुषीर्जातिराचारेण विभिद्यते ॥ १२५२ ॥ भेदे जायेत विप्रायां(णां), क्षत्रियो न कथञ्चन । शालिजाती मया दृष्टः, कोद्रवस्य न संभवः ॥ १२५३॥ ब्राह्मणोऽवाचि विप्रेण, पवित्राचारधारिणा । विप्रायां शुद्धशीलायां, जनितो नेदमुत्तरम् ॥ १२५४ ॥
Page #102
--------------------------------------------------------------------------
________________
धर्म
॥ ४९ ॥
न विप्राप्रियोरति सर्वदा शुद्धशीलता । कालेनानादिना गोत्रस्खलनं क न जायते १ ।। १२५५ ॥ संयमो नियमः शीलं तपो दानं दया दमः । विद्यन्ते तात्त्विका यस्यां सा जातिर्महिता सताम् ॥ १-२५६॥ दृष्ट्वा योजनगन्धादिप्रसूतानां तपखिनाम् । व्यासादीनां महापूजां तपसि क्रियतां मतिः ।। १२५७ ॥ शीलवन्तो गताः खर्ग, नीचजातिभवा अपि । कुलीना नरकं प्राप्ताः, शीलसंयमनाशिनः ॥ १२५८ ।। गुणैः संपद्यते जातिर्गुणध्वंसे विपद्यते । यतस्ततो बुधैः कार्यो, गुणेष्वेवादरः परः ॥ १२५९ ॥ जातिमात्रमदः कार्यो, न नीचत्यप्रवेशकः । उच्चत्वदायकः सद्भिः कार्यः शीलसमादरः ।। १२६० ॥ मन्यन्ते स्नानतः शौचं शीलसत्यादिभिर्विना । ये तेभ्यो न परे सन्ति, पापपादपवर्धकाः ॥ १२६१ ॥ शुक्रशोणितनिष्पन्नं, मलाहारविवर्धितम् । पयसा सा ( शो ) ध्यते गात्रमाश्रये किमतः परम् ? ॥ १२६२ ॥ मलो विशोध्यते वाह्यो, जलेनेति निगद्यताम् । पापं निहन्यते तेन, कस्येदं हृदि वर्ध ( ) ते ? | १२६३ ॥ मिथ्यात्वा संयम (मा) ज्ञानैः, कल्मपं प्राणिनाऽर्जितम् । सम्यक्त्वसंयमज्ञानैर्हन्यते नान्यथा स्फुटम् ॥१२६४॥ कपायैरर्जितं पापं सलिलेन निवार्यते । एतज्जडात्मनो त्रू (न्मनु ) ते, नान्ये मीमांसका ध्रुवम् ॥ यदि शोधयितुं शक्तं, शरीरमपि नाम्बुना । अन्तः स्थितं मनो दुष्टं, कथं तेन विशोध्यते ? ।। १२६६ ॥ गर्भादिमृत्युपर्यन्तश्चतुर्भूतभवो भवी । नापरो विद्यते येषां तैरात्मा वञ्चयते ध्रुवम् ॥ १२६७ ॥
१२६५ ॥
ट्रकक
परीक्षा.
॥ ४९ ॥
Page #103
--------------------------------------------------------------------------
________________
शरीरे दृश्यमानेऽपि न चैतन्यं विलोक्यते । शरीरं च न चैतन्यं, यतो भेदस्तयोस्ततः ॥ १२६८ ॥ चक्षुपा वीक्ष्यते गात्रं, चैतन्यं संविदा यतः । भिन्नज्ञानोपलम्भेन, ततो भेदस्तयोः स्फुटम् ॥ १२६९ ॥ प्रत्यक्षमीक्ष्यमाणेषु, सर्व्वभूतेषु वक्तृषु । अभावः परलोकस्य, कथं मूढैर्विधीयते ॥ १२७० ॥ दुग्धाम्भसोर्यथा भेदो, विधानेन विधीयते । तथात्मदेहयोः प्राज्ञैरात्मतत्त्वविचक्षणैः ॥ १२७१ ॥ बन्धमोक्षादितत्त्वानामभावः क्रियते यकैः । सर्वदर्शन निन्द्येभ्यस्तेभ्यो धृष्टोऽस्ति कः परः ? ॥ १२७२ ॥ कर्मभिर्वध्यते नात्मा, सर्वथा यदि सर्वदा । संसारसागरे घोरे, वम्भ्रमीति तदा कथम् ? || १२७३ ॥ सदा नित्यस्य शुद्धस्य, ज्ञानिनः परमात्मनः । व्यवस्थितिः कुतो देहे, दुर्गन्धामेध्यमन्दिरे ? ॥ १२७४ ॥ सुखदुःखादिसंवित्तिर्यदि देहस्य जायते । निर्जीवस्य तदा नूनं, भवन्ती केन वार्यते ? ॥ १२७५ ॥ आत्मा वर्तमानोऽपि यत्र तत्र न बध्यते । बन्धबुद्धिमकुर्वाणो, नेदं वचनमञ्चति (ञ्चितम्) | १२७६ ॥ कथं निर्बुद्धिको जीवो, यत्र तत्र प्रवर्त्तते । प्रवृत्तिर्न मया दृष्टा, पर्वतानां कदाचन ॥ १२७७ ॥ मृत्युबुद्धिमकुर्वाणो, वर्त्तमानो महाविषे । जायते तरसा किं न, प्राणी प्राणविवर्जितः १ ॥ १२७८ ॥ यद्यात्मा सर्वथा शुद्धो, ध्यानाभ्यासेन किं तदा । शुद्धे प्रवर्तते कोऽपि, शोधनाय न काश्वने ॥ १२७९ ॥ नात्मनः साध्यते शुद्धिर्ज्ञानेनैव कदाचन । न भेषजावबोधेन, व्याधिः क्वापि निहन्यते ॥ १२८० ॥
Page #104
--------------------------------------------------------------------------
________________
धर्म
॥ ५० ॥
ध्यानं श्वासनिरोधेन, दुर्धियः साधयन्ति ये । आकाशकुसुमैर्नूनं, शेखरं रचयन्ति ते ॥ १२८१ ॥ देहेऽवतिष्ठमानोऽपि नात्मा मूढैरवाप्यते । प्रयोगेन विना काष्ठे, चित्रभानुरिव स्फुटम् ॥ १२८२ ॥ ज्ञानसम्यक्त्वचारित्रैरात्मनो हन्यते मलः । ददानोऽनेकदुःखानि, त्रिभिर्व्याधिरिवोर्जितः ॥ १२८३ ॥ अनादिकालसंसिद्धं, संबन्धं जीवकर्म्मणोः । रत्नत्रयं विना नूनं नान्यो ध्वंसयितुं क्षमः ॥ १२८४ ॥ न दीक्षामात्रतः क्वापि, जायते कलिलक्षयः । शत्रवो न पलायन्ते, राज्यावस्थितिमात्रतः ॥ १२८५ ॥ ये दीक्षणेन कुर्वन्ति, पापध्वंसं विबुद्धयः । आकाशमण्डलाग्रेण, ते च्छिन्दन्ति रिपोः शिरः ॥ १२८६ ॥ मिथ्यात्वाविरमणा (व्रतकोपा) दियोगैः कर्म्म यदर्ज्यते । कथं तच्छक्यते हन्तुं, तदा भावं विनाङ्गिभिः १ ॥ १२८७ ॥ सूरीणां यदि वाक्येन, पुंसां पापं पलायते । क्षीयन्ते वैरिणो राज्ञां वधू (बन्धु) नां वचसा तदा ॥ १२८८ ॥ नश्यन्ते दीक्षया रोगा, यया नेह शरीरिणाम् । न सा नाशयितुं शक्ता, कर्म्मबन्धं पुरातनम् ॥ १२८९ ॥ गुरूणां वचसा ज्ञात्वा, रत्नत्रितयसेवनम् । कुर्वतः क्षीयते पापमिति सत्यं वचः पुनः ॥ १२९० ॥ आत्मना विहितं पापं, कषायवशवर्त्तिना । दीक्षया क्षीयते विप्राः (क्षिप्रं ), केनेदं प्रतिपद्यते १ ॥ १२९१ ॥ सकषाये यदि ध्याने, शाश्वतं लभ्यते पदम् । वन्ध्यातनुजसौभाग्यवर्णने द्रविणं तदा ॥ १२९२ ॥ नेन्द्रियाणां जयो येषां न कपायविनिग्रहः । न तेषां वचनं तथ्यं, विटानामिव विद्यते ॥ १२९३ ॥
परीक्षा.
॥ ५० ॥
Page #105
--------------------------------------------------------------------------
________________
ऊर्ध्वाधोद्वारनिर्यातो, भविष्यामि जुगुप्सितः । इति ज्ञात्वा विदार्याङ्ग, जनन्या यो विनिर्गतः ॥ १२९४ ॥ मांसस्य भक्षणे गृद्धो,दोषाभावं जगाद यः। बुद्धस्य तस्य मूढस्य,कीदृशी विद्यते क्रिया?(कृपा)॥१२९५॥युग्मम्॥ कायं कृमिकुलाकीर्ण, व्याघ्रभार्यानने कुभीः(धीः) । यो निचिक्षेप जानानः, संयमस्तस्य कीदृशः१ ॥१२९६॥ सर्वशून्यत्वनैरात्म्यक्षणिकत्वानि भाषते । यः प्रत्यक्षविरुद्धानि, तस्य ज्ञानं कुतस्तनम् ? ॥ १२९७ ॥ कल्पिते सर्वशून्यत्वे, यत्र बुद्धो न विद्यते । बन्धमोक्षादितत्त्वानां, कुतस्तत्र व्यवस्थितिः ॥ १२९८॥ खर्गापवर्गसौख्यादिभागिनः स्फुटमात्मनः । अभावे सकलं वृत्तं, क्रियमाणमनर्थकम् ॥ १२९९ ॥ क्षणिके हन्तृहन्तव्यदातृदेयादयोऽखिलाः । भावा यत्र विरुध्यन्ते, तद्गृहन्ति न धीधनाः ॥ १३०० ॥ प्रमाणबाधितः पक्षः, सर्वो यस्येति सर्वथा । सार्वज्ञं विद्यते तस्य, न बुद्धस्य दुरात्मनः ॥ १३०१॥ वाणारसीनिवासस्य, ब्रह्मा पुत्रः प्रजापतेः। उपेन्द्रो वसुदेवस्य, सात्यकोगिनो हरः॥ १३०२॥ सृष्टिस्थिति निवासानां, कथ्यन्ते हेतवः कथम् । एते निसर्गसिद्धस्य, जगतो हतचेतनैः ॥ १३०३॥ युग्मम्॥ यदि सर्वविदामेषां, मूर्तिरेकास्ति तत्त्वतः। तदा ब्रह्ममुरारिभ्यां, लिङ्गान्तः किं न वीक्षितः १ ॥ १३०४ ॥ सर्वज्ञस्य विरागस, शुद्धस्य परमेष्ठिनः । किञ्चिज्ज्ञाः रागिणोऽशुद्धा, जायन्तेऽवयवाः कथम् ? ॥ १३०५॥ प्रलयस्थितिसर्गाणां, विधातुः पार्वतीपतेः । लिङ्गच्छेदकरः शाप-तापसैर्दीयते कथम् ? ॥ १३०६ ॥
Page #106
--------------------------------------------------------------------------
________________
15.
॥५१॥
5 054-
ये यच्छन्ति महाशापं, धूर्जटेरपि तापसाः । निर्मिन्नास्ते कथं बाणैर्मन्मथेन निरन्तरैः ? ॥ १३०७॥ परीक्षा. स्रष्टारो जन्तो देवा, ये गीर्वाणनमस्कृताः । प्राकृता इव कामेन, किं ते त्रिपुरुषा जिताः ॥ १३०८ ॥ कामेन येन निर्जित्य, सर्वे देवा विडम्बिताः । स कथं शम्भुना दग्धस्तृतीयाक्षिकृशानुना ? ॥ १३०९॥ ये रागद्वेषमोहादिमहादोषवशीकृताः । ते वदन्ति कथं देवाः, धर्म धार्थिनां हितम् ? ॥ १३१०॥ न देवा लिङ्गिनो धर्मा, दृश्यन्तेऽन्यत्र निर्मलाः । यान्निषेव्य च जीवेन, प्राप्यते शाश्वतं पदम् ॥ १३११॥ देवो रागी यतिः सङ्गी, धर्मो हिंसानिपेवितः। कुर्वन्ति काङ्खितां लक्ष्मी, जीवानामन्य(ति)दुर्लभाम्॥१३१२॥ ईदृशीं हृदि कुर्वाणा, धिषणां सुखसिद्धये । ईदृशीं किं न कुर्वन्ति, निराकृतिविचेतनाः ॥ १३१३ ॥ वन्ध्यास्तनन्धयो राजा,शिलापुत्रो महत्तमः।मृगतृष्णाजले नाती,कुरुतःसेवितौ श्रियम्॥१३१४॥त्रिभिर्विशेषकम् र द्वेषमोहमदा यस्य, नाङ्गे कुर्वन्ति संस्थितिम् । भास्करस्य तमांसीव, ध्यायामस्तं जिनेश्वरम् ॥ १३१५ ॥ ध्वस्तैनसा केवलेन, योऽवगच्छति विष्टपम् । तमाप्तपुङ्गवं देवं, सेवन्ते पण्डिता नराः ॥ १३१६ ॥ विद्धदेवासुरैर्ये न, ताडिताः स्मरसायकैः । ते भवन्ति महात्मानो, गुरवो विजितेन्द्रियाः ॥ १३१७ ॥ दयामूलः सत्यशौचास्तेयब्रह्मादिपल्लवः । दत्ते धर्मतरुः सर्वशर्मसंपत्फलवजम् ॥ १३१८ ॥ उदिता युक्तिभिर्यन, विधयो बाधवर्जिताः । वन्धमोक्षादिवस्तूनां, तदाहुः शास्त्रमुत्तमाः ॥१३१९ ॥
4-23-10-20
Page #107
--------------------------------------------------------------------------
________________
मद्यमांसाङ्गनासक्ता,यदि स्यु मिकास्तदा।सौण्डा वाहि(खाट्कि)कविटा(घा)स्तदा यान्ति सुरालयम्॥१३२०॥ कोधलोभपराभूताः, पुत्रदारधनादराः । पातयन्ति भवाम्भोधौ, यतयः संयमोज्झिताः ॥ १३२१॥ मदमत्सरविद्वेषरागग्रस्तेऽत्र विष्टपे । दुर्लभः शिवमार्गो यत्तत्त्वं भव परीक्षकः ॥ १३२२ ॥ भवस्यान्तकरो देवो, गुरुः कामादिवर्जितः । धर्मो दयामयो नित्यमिति तत्त्वानि सन्तु मे ॥ १३२३ ॥ श्रुत्वा पवनवेगोऽथ, परदर्शनदुष्टताम् । पप्रच्छेति मनोवेग, सन्देहतिमिरच्छिदे ॥ १३२४ ॥ परस्परविरुद्धानि, कथं जानासि भूरिशः । दशेनान्यन्यदीयानि , कथ्यतां मम सन्मते ! ॥१३२५॥ आकर्ण्य भारती तस्य, मनोवेगोऽगदीदिति । उत्पत्तिरन्यतीर्थानां, श्रूयतां मित्र ? वच्मि ते ॥१३२६ ॥ उत्सर्पिण्यवसर्पिण्यो, वर्त्तते भारते सदा । दुर्निवारौ महावेगौ, त्रियामावासराविव ॥ १३२७ ॥ तत्र तत्रारकाः षट् स्युः, सुषमासुषमादयः । परस्परमहाभेदा, वर्षे वा शिशिरादयः ॥ १३२८ ॥ कोटीकोट्या दशाब्धीनां, प्रत्येकमनयोः प्रमा। तत्रावसर्पिणी ज्ञेया, वर्तमाना विचक्षणैः ॥ १३२९ ॥ कोटीकोव्योऽम्बुराशीनां,सुषमासुषमादिना(मोदिता)।चतस्रो गदितास्तिस्रो, द्वितीया सुषमा समा॥१३३०॥ तेषामेव तृतीया द्वे, सुषमादुष्षमोदिते । तासु त्रियेकपल्यानि, जीवितं क्रमतोऽङ्गिनाम् ॥ १३३१ ॥ त्रिद्यकका मताः क्रोशाः, क्रमतोऽत्र तनूच्छ्रितिः। त्रियेकदिवसैतेषामाहारो भोगभागिनाम् ॥ १३३२ ॥
RACANCCCCCCCCCES
Page #108
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
॥५२॥
आहारं क्रमतस्तुल्यो, बदरामलकाक्षकैः। परेषां दुर्लभोज्पृष्यः, सर्वेन्द्रियबलप्रदः ॥ १३३३ ॥ नास्ति खखामिसंबन्धो, नान्यगेहगमागमौ । न हीनो नाधिकस्तत्र, न व्रतं नापि संयमः ॥ १३३४ ॥ सप्तमिः सप्तकस्तत्र, दिनानां जायतेऽङ्गिनाम् । सर्वभोगक्षमो देहो, नवयौवनभूषणः ॥ १३३५॥ नरस्त्रियोर्युगं तत्र, जायते सहभावतः । कान्तिद्योतितसर्वाशं(), ज्योत्स्ना चन्द्रमसोरिव ॥ १३३६ ॥ आर्यमाह्वयते नाथं, प्रेयसी प्रियभाषिणी। तत्रासौ प्रेयसीमायाँ, चित्रचाटुक्रियोद्यतः॥ १३३७॥ दशाङ्गो दीयते भोगस्तेषां कल्पमहीरुहैः । दशानिर्मलाकारैधम्मैरिव सविग्रहः ॥ १३३८ ॥ मद्यतूर्यगृहज्योतिर्भूषाभोजनविग्रहाः । स्रग्दीपवस्त्रपात्राङ्गा, दशधा परिकल्पिताः ॥ १३३९ ॥ कल्प(पल्य)स्य चाष्टमे भागे, सति शेषे व्यवस्थिते । तृतीयारे समुत्पन्नाश्चतुर्दश कुलङ्कराः ॥ १३४०॥ प्रतिश्रुदादिमस्तत्र, द्वितीयः सन्मतिः स्मृतः । क्षेमङ्करधरौ प्राज्ञौ, सीमङ्करधरौ ततः॥ १३४१ ॥ ततो विमलवाहोऽभूचक्षुष्मानष्टमस्ततः । यशखी नवमो जैनैरभिचन्द्रः परो मतः ॥ १३४२ ॥ चन्द्राभो मरुदेवोऽन्यः, प्रसेनोऽत्र त्रयोदश । नाभिराजो बुधैरन्त्यः, कुलकारी निवेदितः ॥ १३४३ ॥ एते बुद्धिधनाः सर्वे, दिव्यज्ञानविलोचनाः । लोकानां दर्शयामासुः, समस्तां भुवनस्थितिम् ॥ १३४४ ॥ मरुदेव्यां महादेव्यां, नाभिराजो जिनेश्वरम् । प्रभात इव पूर्वस्यां, तिग्मरश्मिमजीजनत् ॥ १३४५ ॥
Page #109
--------------------------------------------------------------------------
________________
विवाहावसरे भर्तुरयोध्यां त्रिदशेश्वरः । भक्त्या वर्णमयीं चक्रे, दिव्यप्राकारमन्दिराम् ॥ १३४६ ॥ सुमङ्गलसुनन्दाख्ये, कन्ये सह पुरन्दरः । जिनेन योजयामास, नीतिकीर्ती इवामले ॥ १३४७ ॥ एतयोः कान्तयोस्तस्य, पुत्राणामभवच्छतम् । ब्राह्मीं च सुन्दरी कन्यां, मानसाहादनक्षमाम् ॥ १३४८ ॥ जिनः कल्पद्रुमापाये, लोकानामाकुलात्मनाम् । दिदेश पक्रियाः पृष्टो, जीवनस्थितिकारिणीः ॥ १३४९ ॥ संसारे दृश्यते देही, नासौ दुःखनिधानके । गोचरीक्रियते यो न, मृत्युना विश्वगामिना ॥ १३५० ॥ न किञ्चनात्र जीवानां, संसारक्षयकारिणाम् । रत्नत्रयविहायकमपरं विद्यते ध्रुवम् ॥ १३५१ ॥ विचिन्त्येति जिनो गेहाद्विनिर्गन्तुं प्रचक्रमे । संसारासारतावेदी, कथं गेहेऽवतिष्ठते ? ॥ १३५२ ॥ आरूढः शिविकां देवो, मुक्ताहारविभूपिताम् । आनेतुं स्वयमायातां, सिद्धिभूमिमिवामलाम् ॥ १३५३ ॥ उत्क्षिप्तां पार्थिवैरेतामग्रहीपुर्दिवौकसः । समस्ता धर्मकार्येषु, व्याप्रियन्ते महाधियः ॥ १३५४ ॥ समेत्य शकटोद्यानं, देवो वटतरोरधः । पर्यङ्कासनमास्थाय, भूषणानि निराकरोत् ॥ १३५५ ॥ पञ्चभिर्मुष्टिभिः क्षिप्रं, ततोऽसौ दृढमुष्टिकः । केशानुत्पाटयामास, कृतसिद्धनमत्कृतिः ॥ १३५६ ॥ कल्याणाको महासत्त्वो, नरामरनिषेवितः । ऊर्वीभूय ततस्तस्थौ, सुवर्णाद्रिरिव स्थिरः ॥ १३५७ ॥ कृत्वा पटलिकान्तस्तान् , जिनेन्द्रस्य शिरोरुहान् । आरोप्य मस्तके शक्रश्चिक्षेप क्षीरसागरे ॥१३५८॥
Page #110
--------------------------------------------------------------------------
________________
परीक्षा.
॥५३॥
चत्वार्यमी(मा) सहस्राणि, भूपा जातास्तपोधनाः । सद्भिराचरितं कार्य, समस्तः श्रयते जनः॥१३५९॥ षण्मासाभ्यन्तरे भयाः, सर्वे ते नृपपुङ्गवाः । दीनचित्तैरवज्ञानः, सह्यन्ते न परीषहाः ॥ १३६०॥ वयमत्र स्थिताः सेवां, विदधाना विभोर्वने । ध्यात्वेति तापसास्तस्थुस्तत्र कन्दादिखादिनः ॥ १३६१ ॥ व्रतं कच्छमहाकच्छौ, तापसीयं वितेनतुः । समस्ततापसश्रेष्ठौ, फलमूलादिभक्षिणी ॥ १३६२ ॥ विधाय दर्शनं साङ्ख्यं, कुमारेण मरीचिना । व्याख्यातं निजशिष्यस्य, कपिलस्य पटीयसा ॥ १३६३ ॥ पापण्डानां विचित्राणां, सत्रिषष्टिशतत्रयम् । क्रियाऽक्रियादिवादानां, खखरुच्यभिवादिनाम् ॥ १३६४ ॥ चार्वाकदर्शनं कृत्वा, भूपी शक्रबृहस्पती । प्रवृत्ती खेच्छया कर्तु, खकीयेन्द्रियपोपणम् ॥ १३६५ ॥ श्रावकाः पूजिताः पूर्व, भक्तितो भरतेन ये । चक्रिपूजनतो जाता, ब्राह्मणास्ते मदोद्धताः ॥ १३६६ ॥ । अभवदादित्ययशाः, पुत्रो भरतचक्रिणः । सोमो वाहुवलेस्ताभ्यां, वंशो सोमार्कसंज्ञको ॥ १३६७ ॥ कुशिष्यः पार्श्वनाथस्य, तपस्वी मौण्डिलायणः । अहंद्वाक्यप्रत्यनीको, विदधे बुद्धदर्शनम् ॥ १३६८ ॥ शुद्धोदनसुतं बुद्धं, परमा(परा)त्मानमकल्पयत् । प्राणिनः कुर्वते किं न, कोपवैरिपराजिताः ? ॥ १३६९ ॥ पणमासानवहद्विष्णोर्वलभद्रः कलेवरम् । यतस्ततो भुवि ख्यातं, कङ्कालमभवद्वतम् ॥ १३७० ॥ कियन्तस्तव कथ्यन्ते, मिथ्यादर्शनवर्तिभिः । नरः पापण्डभेदा ये, विहिता गणनातिगाः ? ॥ १३७१ ॥
॥५३॥
Page #111
--------------------------------------------------------------------------
________________
पाषण्डाः समये तुर्ये, बीजरूपेण ये स्थिताः । प्ररूढा (रु) विस्तरं प्राप्ताः, कलिकालावनाविमे ॥ १३७२ ॥ विरागः केवलालोक - विलोकितजगत्रयः । परमेष्ठी जिनो देवः, सर्वगीर्वाणवन्दितः ॥ १३७३ ॥ यत्र निर्वाण संसारी, निगद्येते सकारणौ । सर्ववाधकनिर्मुक्तावागमोऽसौ बुधैर्मतः ॥ १३७४ ॥ आर्जवं मार्द्दवं सत्यं शौचं त्यागः क्षमा तपः । ब्रह्मचर्यमसङ्गत्वं, संयमो दशधा वृपः ॥ १३७५ ॥ त्यक्तायान्तरो ग्रन्थो, निष्क्रयो विजितेन्द्रियः । परीषहसहः साधुर्भवाम्भोनिधितारकः ॥ १३७६ ॥ निर्वाणनगरद्वारं, संसारदहनोदकम् । एतच्चतुष्टयं ज्ञेयं, सर्वदा सिद्धिहेतवे ॥ १३७७ ॥ सम्यक्त्वज्ञानचारित्रतपः सन्मुक्तिदायकम् । चतुष्टयमिदं हित्वा नापरं मुक्तिकारणम् ॥ १३७८ ॥ समस्ता लब्धयों लब्धा, भ्रमता जन्मसागरे । न लब्धिश्चतुरङ्गस्य, मित्र ! क्का (त्रैका ) पि शरीरिणाम् ॥ १३७९ ॥ देशो जातिः कुलं रूपं, पूर्णाक्षत्वमरोगता । जीवितं दुर्लभं जन्तोर्देशना श्रवणं ग्रहः ॥ १३८० ॥ एषु सर्वेषु लब्धेषु, जन्मद्रुम कुठा रिकाम् । लभते दुःखतो बोधिं, सिद्धिसौघप्रवेशिकाम् ।। १३८१ ॥ यच्छुभं दृश्यते वाक्यं, तज्जैनं परदर्शने । मौक्तिकं हि यदन्यत्र तदब्धौ जायतेऽखिलम् ॥ १३८२ ॥ जिनेन्द्रवचनं मुक्त्वा, नापरं पापनोदनम् । भिद्यते भास्करेणैव, दुर्भेद्यं शार्षरं तमः ॥ १३८३ ॥ आदिभूतस्य धर्मस्य, जैनेन्द्रस्य महीयसः । अपरे नाशका धर्माः, शस्यस्य शलभा इव ।। १३८४ ॥
*
Page #112
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
॥५४॥
मिथ्यात्वग्रन्थिरहाय, दुर्भेद्यस्तस्य सर्वथा। अनेन वचसाऽभेदि, वज्रेणेव महीधरः ॥ १३८५॥ ऊचे पवनवेगोऽथ, भिन्नमिथ्यात्वपर्वतः । हा हारितं मया जन्म, खकीयं दुष्टबुद्धिना ॥ १३८६ ॥ . स्यक्त्वा जिनवचोरलं, हा मया मन्दमेघसा । गृहीतोऽन्यवचोलेष्टुनिराकृत्य वचस्तव ॥ १३८७ ॥ त्वया दत्तं मया पीतं, नही जिनवचोऽमृतम् । सकलं पश्यता भ्रान्तं, मिथ्यात्वविषपायिना ॥ १३८८ ॥ त्वया निवार्यमाणेन, मिथ्यात्वविषमुत्कटम् । निषेवितं मया मुक्त्वा, सम्यक्त्वामृतमुत्तमम् ॥ १३८९ ॥ वन्धुस्त्वमेव मे तातस्त्वमेव सद्गुरुः सुहृत् । भवान्धकूपतो येनोद्धृतोऽहं नियतं त्वया ॥ १३९०॥ त्रिधा शुद्धा मयाऽग्राहि, जिनशासनमुत्तमम् । तथा कुरु यथाऽथ स्यां, व्रतरत्नविभूषितः॥१३९१ ॥ जिनवाग्वासितं मित्रं, गृहीत्वाऽसौ मनोजवः । ययौ पुरीमुज्जयिनी, मित्रकार्यविचक्षणः ॥ १३९२ ॥ जैनसाधोः पुरस्तत्र, नत्वा न्यषदतां क्रमौ । तौ भक्त्या मोहभूच्छायोच्छेदाय रविसंस्थितेः॥ १३९३ ॥ अधो जैनमतियोगी, मनोवेगमभाषत । सोऽयं पवनवेगस्ते, मित्रं भद्र ! मनःप्रियम् ॥ १३९४ ॥ यस्यारोपयितुं धर्म, संसारार्णवतारकम् । त्वया पृष्टो मुनिः कृत्वाऽत्यादरं केवली तदा ॥ १३९५ ॥ मनोवेगस्ततोऽवादीन्मस्तकस्थकरद्वयः । एवमेतदसौ साधो !, प्राप्तो व्रतजिघृक्षया ॥ १३९६ ॥ . मयेत्वा पाटलीपुत्रं, दृष्ट्वान्तैर्विविधैरयम् । सम्यक्त्वं लम्भितः साधो !, मुक्तिसमप्रवेशकम् ॥ १३९७॥
॥५४॥
Page #113
--------------------------------------------------------------------------
________________
*** *** ***++%
यथायं वान्तमिध्यात्वो, व्रताभरणभूषितः । इदानीं जायते भव्यस्तथा साधो ! विधीयताम् ॥ १३९८ ॥ ततः साधुरभाषिष्ट, देवात्मगुरुसाक्षिकम् । सम्यक्त्वपूर्वकं भद्र ! गृहाण श्रावकं व्रतम् ।। १३९९ ॥ साक्षीकृत्य व्रतग्राही, व्यभिचारं न गच्छति । व्यवहारीव येनेदं तेन ग्राह्यं ससाक्षिकम् ॥ १४०० ॥ रोप्यमाणं न जीवेषु, सम्यक्त्वेन विना व्रतम् । सफलं जायते शस्यं, केदारेष्विव वारिणा । १४०१ ॥ सम्यक्त्वसहिते जीवे, निश्चलीभवति व्रतम् । सगर्त्तापूरके देशे, देववेश्मेव दुर्धरम् ॥ १४०२ ॥ जीवाजीवादितत्त्वानां भाषितानां जिनेश्वरैः । श्रद्धानं कथ्यते सद्भिः सम्यक्त्वं व्रतरोपकम् ॥ १४०३ ॥ दोषैः शङ्कादिभिर्मुक्तं, संवेगाद्यैर्गुणैर्युतम् । दधतो दर्शनं पूतं, फलवजायते व्रतम् ॥ १४०४ ॥ पञ्चधाणुव्रतं तत्र, त्रेधाऽवाचि गुणव्रतम् । शिक्षात्रतं चतुर्धेति, व्रतं द्वादशधा स्मृतम् ॥ १४०५ ॥ अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमसङ्गता । पञ्चधाणुव्रतं ज्ञेयं, देशतः कुर्वतः सतः ॥ १४०६ ॥ परिगृह व्रतं रक्षेन्निधाय हृदये सदा । मनीषितसुखाधायि, निधानमिव सद्मनि ॥ १४०७ ॥ प्रमादतो व्रतं नष्टं, लभ्यते न पुनः शुचि । समर्थ चिन्तितं दातुं दिव्यं रत्तमिवाम्बुधौ ॥। १४०८ ॥ द्विविधा देहिनः सन्ति, त्रसस्थावरभेदतः । रक्षणीयास्त्रसास्तत्र, गेहिना व्रतमिच्छता । १४०९ ॥ सा द्वित्रिचतुष्पञ्चहृषीकाः सन्ति भेदतः । चतुर्विधाः परिज्ञाय, रक्षणीया हितैषिभिः ॥ १४१० ॥
%%%% •
Page #114
--------------------------------------------------------------------------
________________
धर्म
॥ ५५ ॥
आरम्भजमनारम्भं, हिंसनं द्विविधं स्मृतम् । अहो मुञ्चति द्वेधा, द्वितीयं सगृहः पुनः ॥ १४११ ॥ स्थावरेष्वपि जीवेषु विधेयं न निरर्थकम् । हिंसनं करुणाधारैर्मोक्षकाचैरुपासकैः ॥ १४१२ ॥ देवतातिथि भैषज्यपितृमत्रादिहेतवे । न हिंसनं विधातव्यं सर्वेषामपि देहिनाम् ॥ १४१३ ॥ बम्धभेदवच्छेदगुरुभाराधिरोपणैः । विनिर्मलं परित्यक्तैरहिंसाणुव्रतं स्थिरम् ॥ १४१४ ॥ मांसभक्षणलोमेन, रसनावशवर्त्तिना । जीवानां भयभीतानां न कार्य प्राणलोपनम् ॥ १४१५ ॥ यः खादति जनो मांस, स्वकलेवरपुष्टये । हिंस्रस्य तस्य नोत्तारः, श्वभ्रतोऽनन्तदुःखतः ॥ १४१६ ॥ मांसादिनो दया नास्ति, कुतो धर्मोऽस्ति निर्द्दये । सप्तमं व्रजति श्वभ्रं, निर्धम्र्म्मा भूरिवेदनम् ॥ १४१७ ॥ आजन्म कुरुते हिंसां, यो मांसाशनलालसः । न जातु तस्य पश्यन्ति, निर्गमं श्वभ्रकूपतः ॥ १४१८ ॥ न भेदं सारमेयेभ्यः, पलाशी लभते यतः । कालकूटमिव त्याज्यं, ततो मांसं हितैषिभिः ॥ १४१९ ॥ हन्यते येन मर्यादा, वल्लरीव दवाग्निना । तन्मद्यं न त्रिधा पेयं, धर्म्मकामार्थसूदनम् ॥ १४२० ॥ मातृस्वसृता भोक्तुं, मोहितो येन काङ्क्षति । न मद्यतस्ततो निन्द्यं, दुःखदं विद्यते परम् ।। १४२१ ॥ मूत्रयन्ति मुखे श्वानो, वस्त्रं मुष्णन्ति तस्कराः । मद्यमूढस्य रध्यायां, पतितस्य विचेतसः ॥१४२२॥ विवेकः संयमः क्षान्तिः, सत्यं शौचं दया दमः । सर्वे मद्येन सूद्यन्ते, पावकेनेव पादपाः ॥ १४२३ ॥
परीक्षा.
॥ ५५ ॥
Page #115
--------------------------------------------------------------------------
________________
मद्यतो न परं कष्ट, मद्यतो न परं तमः । मद्यतो न परं निन्छ, मद्यतो न परं विषम् ॥ १४२४ ॥ तं तं नमति निर्लज्जो, यं यमग्रे विलोकते । रोदिति भ्रमति स्तौति, रौति गायन्ति नृत्यति ॥ १४२५ ॥ मद्यं मूलमशेषाणां, दोषाणां जायते यतः । अपथ्यमिव रोगाणां, परित्याज्यं ततः सदा ॥ १४२६ ॥ अनेकजीवघातोत्थं, म्लेच्छलालाविमिश्रितम् । खाद्यते मधु न त्रेधा, पापदायि ब्दयालुभिः ॥ १४२७ ॥ यचित्री(त्र) प्राणिसङ्कीर्णे, प्लोषिते ग्रामसप्तके। माक्षिकस्य तदेकत्र, कल्मषं भक्षिते कणे ॥ १४२८ ॥ मक्षिकाभिर्यदादाय, रसमेकैकपुष्पतः । सञ्चितं तन्मधूत्सृष्टं, भक्षयन्ति न धार्मिमक्काः ॥ १४२९ ॥ मांसमद्यमधूत्था ये, जन्तवो रसकायिकाः । सर्वे तदुपयोगेन, भक्ष्यन्ते निष्कृपरिममे ॥ १४३०॥ फलं खादन्ति ये नीचाः, पञ्चोदुम्बरसम्भवम् । पश्यन्तोऽङ्गिगणाकीर्ण, तेषामस्ति कुतः कृपा ? ॥ १४३१ ॥ मुञ्चद्भिर्जीवविध्वंसं, जिनाज्ञापालिभित्रिधा । उदुम्बरफलं भक्ष्यं, पञ्चधापि न सात्त्विकैः ॥ १४३२॥ कन्दमूलं फलं पुष्पं, नवनीतं कृपापरैः । अन्नमन्यदपि त्याज्यं, प्राणिसम्भवकारणम्म् ॥ १४३३ ॥ कामक्रोधमदद्वेष-लोभमोहादिसंभवम् । परपीडाकरं वाक्यं, सजनीयं हितार्थिम्भिः ॥ १४३४ ॥ धो निसूयते येन, लोको येन विरोध्यते । विश्वासो हन्यते येन, तबचो भाष्यतेने कथम् ॥ १४३५ ॥ लापर्व जन्यते येन, यन्म्लेच्छरपि गते । तदऽसत्यवचो वाच्यं, न कदाचिदुपासकः ॥१४३६ ॥
Page #116
--------------------------------------------------------------------------
________________
H
परीक्षा.
AARAAGAR
अदत्तं न परद्रव्यं, खीकुर्वन्ति महाधियः । निर्माल्यमिव पश्यन्तः, परतापविभीरवः ॥ १४३७॥ अर्था बहिश्वराः प्राणाः, सर्वव्यापारकारिणः। म्रियन्ते सहसा मास्तेषां व्यपगमे सति ॥१४३८॥ धर्मो बन्धुः पिता पुत्रः, कान्तिः कीर्त्तिर्मतिः प्रिया । मुषिता मुष्णता द्रव्यं, समस्ताः सन्ति शर्मदाः॥१४३९॥ एकस्यैकं क्षणं दुःखं, जायते मरणे सति । आजन्म सकुटुम्बस्य, पुंसो द्रव्यविलोपने ॥ १४४०॥ इह दुःखं नृपादिभ्यः, सर्वखहरणादिकम् । वित्तापहारिणः पुष्प, नारकीयं पुनः फलम् ॥ १४४१॥ पन्थानः श्वभ्रकूपस्य, परिघा वर्गसमनः । परदाराः सदा त्याज्याः, खदारव्रतरक्षिणा ॥ १४४२॥ द्रष्टव्याः सकला रामा, मातृखसृसुतासमाः । वर्गापवर्गसौख्यानि, लन्धुकामेन धीमता ॥ ११४३ ॥ दुःखदा विपुलस्नेहा, निर्मला मलकारिणी । तृष्णाकरी रसाधारा, सजाड्या तापवर्धिनी ॥ १४४४ ॥ ददाना निजसर्वखं, सर्बद्रव्यापहारिणी । परस्त्री दूरतस्त्याज्या, विरुद्धाचारवर्तिनी ॥ १४४५॥ युग्मम् ॥ न विशेषोऽस्ति सेवायां, खदारपरदारयोः । परं वर्गगतिः पूर्वे, परे श्वभ्रगतिः पुनः ॥ १४४६ ॥ या विमुच्य स्खभर्तारं, परमभ्येति निरपा । विश्वासः कीदृशस्तस्यां, जायते परयोषिति ? ॥ १४४७॥ दृष्ट्वापरवधूं रम्यां, न कासन् लभते सुखम् । केवलं दारुणं पापं, श्वभ्रदायि प्रपद्यते ॥ १४४८॥ यस्याः सङ्गममात्रेण, क्षिप्रं जन्मद्वयक्षतिः । कृत्वा स्वदारसन्तोपं, साऽन्यस्त्री सेव्यते कुतः ॥ १४४१ ॥
ACCOCCASSACRACHAR
Page #117
--------------------------------------------------------------------------
________________
यः कामानलसन्तप्तां, परनारी निषेवते । आश्लेष्यते स लोहस्त्री, श्वभ्रे क्वाग्नितापिताम् ॥ १४५०॥ इति ज्ञात्वा परैर्हेया, परकीया नितम्बिनी । क्रुद्धस्येव कृतान्तस्य, दृष्टिर्जीवितघातिनी ॥ १४५१॥ सन्तोषेण सदा लोभः, शमनीयोऽतिवर्द्धितः । ददानो दुस्सहं तापं, विभावसुरिवाम्भसा ॥ १४५२ ॥ धनं धान्यं गृहं क्षेत्रं, द्विपदं वा चतुष्पदम् । सर्व परिमितं कार्य, सन्तोषव्रतवर्तिना ॥ १४५३ ॥ धर्म: कषायमोक्षण, नारीसङ्गेन मन्मथः । लाभेन वर्धते लोभः, काष्ठक्षेपेण पावकः ॥ १४५४ ॥ अर्जितं सन्ति भुआना, द्रविणं बहवो जनाः । नारकी सहमानस्य, न सहायोऽस्ति वेदनाम् ॥ १४५५॥ त्रिदशाः किङ्करास्तस्य, हस्ते तस्यामरद्रुमाः । निधयो मन्दिरे तस्य, सन्तोषो यस्य निश्चलः ॥ १४५६॥ लब्धाशेषनिधानोऽपि, स दरिद्रः स दुःखितः। सन्तोपो हृदये यस्य, नास्ति कल्याणकारणम् ॥ १४५७ ॥ दिग्देशाऽनर्थदण्डेभ्यो, विनिवृत्तिर्गुणव्रतम् । त्रिविधं श्रावकैखेधा, पालनीयं शिवार्थिभिः ॥ १४५८ ॥ यद्दशखपि काष्ठासु, विधाय विधिनाऽवधिम् । न ततः परतो याति, प्रथमं तद्गुणव्रतम् ॥ १४५९ ॥ त्रैलोक्यं लङ्घमानस्य, तीव्रलोभविभावसोः । अकारि स्खलनं तेन, येनाशा नियता कृता ॥ १४६० ॥ यद्देशस्यावधिं कृत्वा, गम्यते न दिवानिशम् । ततः परं बुधैरुक्तं, द्वितीयं तद्गुणव्रतम् ॥ १४६१ ॥ पूर्वोदितं फलं सर्व, ज्ञेयमत्र विशेषतः । विशिष्ट कारणे कार्य, विशिष्टं केन वार्यते ? ॥ १४६२ ॥
Page #118
--------------------------------------------------------------------------
________________
धर्म
॥ ५७ ॥
******
पञ्चधाऽनर्थदण्डस्य, धर्मार्थानुपकारिणः । पापोपकारिणस्त्यागो, विधेयोऽनर्थमोचिभिः ॥ १४६३ ॥ शिखिमण्डलमार्जार–सारिका शुककुक्कुटाः । जीवोपघातिनो धार्याः, श्रावकैर्न कृपापरैः ॥ १४६४ ॥ पाशं दण्डं विषं शस्त्रं, हलं रज्जुं हुताशनम् । धात्रीं लाक्षामयो नीलीं, नान्येभ्यो ददते बुधाः ॥ १४६५ ॥ संधानं पुष्पितं विद्धं, कुथितं जन्तुसङ्कुलम् । वर्जयन्ति सदाहारं, करुणापरमानसाः || १४६६ ॥ शिक्षाव्रतं चतुर्भेदं, सामायिकमुपोषितम् । भोगोपभोगसङ्ख्यानं, संविभागोऽशने तिथेः || १४६७ ॥ जीविते मरणे सौख्ये, दुःखे योग वियोगयोः । समानमानसैः कार्य, सामायिकमतन्द्रितैः ॥ १४६८ ॥ यासना द्वावशावर्त्ता, चतुर्विधशिरोनतिः । त्रिकालवन्दना कार्या, परव्यापारवर्जितैः ॥ १४६९ ॥ मुक्त्वा भोगोपभोगेन, पापकर्म्मविमोचि (गोपि ) ताम् । उपवासः सदा शक्त्या, कार्यः पचतुष्टये ॥१४७० ॥ निवसन्ति हृषीकाणि, निवृत्तानि खगोचरात् । एकीभूयात्मना यस्मिन्नुपवासमिमं विदुः ॥ १४७१ ॥ चतुर्विधाशनत्यागं, विधाय विजितेन्द्रियैः । ध्यानस्वाध्याय सन्निष्ठैरास्यते सकलं दिनम् ॥ १४७२ ॥ कृत्यं भोगोपभोगानां परिमाणं विधानतः । भोगोपभोगसंख्यानं कुर्वता व्रतमर्चितम् ।। १४७३ ॥ माल्यगन्धान्नताम्बूलभूपारामाम्बरादयः । सद्भिः परिमितीकृत्य, सेव्यन्ते व्रतकाङ्क्षिभिः || १४७४ ॥ गृहागतानां साधूनां संविभागं स्वभोजनात् । अतिथिसंविभागाख्यव्रतस्थः कुरुते गृही ॥। १४७५ ॥
परीक्षा.
॥ ५७ ॥
Page #119
--------------------------------------------------------------------------
________________
++++++
इदं व्रतं द्वादशभेदभिन्नं, यः श्रावकीयं जिननाथदृष्टम् । करोति संसारनिपातभीतः, प्रयाति कल्याणमसौ समस्तम् ॥ १४७६ ॥
श्रुत्वा वाचमशेषकल्मषमुषं साधोत्रेताशंसिनीं । नत्वा केवलिपादपङ्कजयुगं मर्त्यामरेन्द्रार्चितम् । आत्मानं व्रतरत्नभूषितमसौ चक्रे विशुद्धाशयो । मित्रादुत्तमतो न किं भुवि नरः प्राप्नोति सद्वस्त्वहो ? ॥१४७७ ॥ तं विलोक्य जिनधर्म्मभावितं, तुष्यति स्म जितशत्रुदेहजः ।
स्वश्रमे हि फलिते विलोकिते, संमदो हृदि न कस्य जायते १ । १४७८ ॥ चतुर्विधं श्रावकधर्म्ममुज्वलं, मुदा दधानौ कमनीयभूषणौ । विनिन्यतुः कालमम् खगाङ्गजौ, परस्परं प्रेमनिबद्धमानसौ ॥ १४७९ ॥ आरुशाकभूषी स्फुरितमणिगणभ्राजमानं विमानम् । मर्त्यक्षेत्रस्थसर्षप्रथितजिनगृहान्तर्निविष्टाईदर्चाः ।
क्षित्यां तौ वन्दमानौ सततमचरतां देवराजाविवाय । कुर्वाणाः शुद्धबोधा निजहितचरितं न प्रमाद्यन्ति सन्तः ॥ १४८० ॥ श्रीमद्गौतमशुद्धहीरविजयाचार्या जयन्ति क्षितौ ।
Page #120
--------------------------------------------------------------------------
________________
धर्म
परीक्षा.
॥५८॥
यैदिल्लीपतिराईतः कृत इति ख्यातिः परा प्राप्यते। . येभ्योऽयं च तपोगणो गुणिपदं प्राप्तः प्रतिष्ठा पराम् ।
येषां नाम जपन्ति योगिनिवहाः सर्वेष्टसंसिद्धये ॥ १४८१ ॥ शिष्यास्तेषां सदाचार्या, विजयसेननामकाः । द्योतन्ते द्युतिसंभारभास्करौपम्यभाजनम् ॥ १४८२ ॥
तद्राज्ये विजयिन्यनन्यमतयः श्रीवाचकाग्रेसरा । द्योतन्ते भुवि धर्मसागरमहोपाध्यायशुद्धा धिया । तेषां शिष्यकणेन पञ्चयुगपट्चन्द्राङ्किते वत्सरे १६४५।
वेलाकूलपुरे स्थितेन रचितो ग्रन्थोऽयमानन्दतः॥ १४८३ ॥ कृता धर्मपरीक्षेयं, पण्डितैः पद्मसागरैः । वाच्यमाना बुधैर्जीयाद्यावद्गङ्गेन्दुभास्कराः॥ १४८४ ॥
इति महामहोपाध्यायश्रीधर्मसागरगणि-पण्डितश्रीविमलसागरगणि-शिष्यपण्डित
पद्मसागरगणि-विनिर्मितो धर्मपरीक्षाभिधो ग्रन्थः संपूर्णः ।
इति |ष्ठि देवचन्द्र लालभाई-जैन पुस्तकोद्धारे-ग्रन्थाङ्कः १५.
Page #121
--------------------------------------------------------------------------
________________
आ फंड तरफथी मुद्रित थयेल ग्रन्थोनुं सूचीपत्र.
ग्रन्थाङ्क
नामादिक.
१ श्रीवीतराग स्तोत्रम् - श्रीमद्धेमचन्द्राचार्यकृतमूलं, प्रमानन्दसूरिकृत विवरण, श्रीविशालराजशिष्यकृताऽवचूरिसमेतम्.
मूल्य - रुपिया.
1०-८-०
५-१-६
-१-६
२ श्री श्रमणप्रति क्रमणसूत्रवृत्तिः- पूर्वाचार्यकृता. ३ श्रीस्याद्वादभाषा - श्रीमच्छुभ विजयगणिकृता. ४ श्रीपाक्षिकसूत्रम् - आमां पाक्षिकसूत्र अने खामणापर श्रीयशोदेवसूरिकृतीकानो समावेश करवामां आवेल छे०-६-०
-
ग्रन्थाङ्क
नामादिक.
मूल्य - रुपिया ५ श्री अध्यात्ममतपरीक्षा- न्यायाचार्य श्रीयशोविजयप्रणीतटीकायुक्त, अन्ते छूटुं मूल पण प्रसिद्ध करवामां आवेल छे.
६ श्रीपोडशकप्रकरणं - श्रीहरिभद्रसूरिकृतमूलं, अने श्रीमद्यशोभद्र, तथा श्रीयशोविजयजीकृत बन्ने टीकाओ सहित अने मूलमात्र पछाडी जूनुं लेवामां अवेल छे ०-६-०
०-६-०
७ श्रीकल्पसूत्रम् श्रीविनयविजयोपाध्यायकृत'सुबोधिका' टीकासहितम् (खलाश थयुं छे. ) ०- १२-०
Page #122
--------------------------------------------------------------------------
________________
प्रन्थाह
नामादिक. मूल्य-रुपिया. | ग्रन्थाङ्क: नामादिक. मूल्य-रुपिया. ८ श्रीवन्दारवृत्त्यपरनाम्नी श्राद्धप्रतिक्रमणसूत्र
१४ श्रीआनन्दकाव्यमहोदधिः-जूदा जूदा मुनिओथी-- वृत्तिः-श्रीमद्देवेन्द्रसूरिवररचिता.
०-८-० रचायेल रासाओनो संग्रह.
०-१०-०
१५ श्रीधर्मपरीक्षा-पण्डितपद्मसागरगणिकृता. ०-५-० ९ श्रीदानकल्पद्रुमः-परमगुरुश्रीसोमसुन्दरशिष्यश्री
। वेचाता मलवानु ठेकाणुजिनकीर्तिसूरिकृतः. ६१. योगफीलोसोफी-By वीरचंद राघवजी गांधी. ०-५-०
लायब्रेरियन, शेठ देवचन्द लालभाई, ११ जल्पकल्पलता-श्रीरत्नमण्डनकृत.
.-३-०
पुस्तकोद्धारफण्ड ऑफिस. १२ श्रीयोगदृष्टिसमुच्चय:-श्रीहरिभद्रसूरिशेखरकृतः ०-३-०
C/शेठ देवचन्द लालभाई धर्मशाला, |१३ कर्मफीलोसोफी-By वीरचंद राघवजी गांधी. ०-५-०
बडेखा चकलो. सुरतसिटी.
॥५९॥
Page #123
--------------------------------------------------------------------------
________________
***°
इदं पुस्तकं मोहमयीपत्तने शाह नगीनभाई घेलाभाई, जव्हेरीबाजार, इत्यनेन निर्णयसागर मुद्रणस्थले कोलभावीयां २३ तमे गृहे रामचंद्र वाय. शेडगेद्वारा मुद्रयित्वा प्रकाशितम्.
Published by Shah Naginbhai Ghelabhai Javeri, N. 325 Javeri Bazar, for Sheth Davehand Lalbhai Jain P. Fund, and Printed by R. Y. Shedge, at N. S. Press, 23 Kolbhat Lane, Bimbay.
Page #124
--------------------------------------------------------------------------
________________ SHARANAGORG Sereby OGHAR RRORE ॥इति पण्डितपद्मसागरगणिविनिर्मिता श्रीधर्मपरीक्षा AVANAVevolvdioduotes CiE इति श्रेष्ठि–देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 15. EDOVAYE YouVIVEVOSVOOVEVENOVEIVEDVR