Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 87
________________ व्यासस्य भूभृतः पुत्रास्त्रयो जाता गुणालयाः। धृतराष्ट्रोऽपरः पाण्डुर्विदुरश्रति विश्रुताः ॥ १०६०॥ एकदोपवने पाण्डू, रममाणो मनोरमे । निरक्षत लतागेहे, खचरी काममुद्रिकाम् ॥ १०६१॥ यावत्तिष्ठति तत्रासौ, कृत्वा मुद्रां कराङ्गुलौ । अगाञ्चित्राङ्गदस्तावत्तस्याः खेटो गवेषकः ॥ १०६२ ॥ तस्य सा पाण्डुना दत्ता, निःस्पृहीभूतचेतसा । परद्रष्ये महीयांसः, सर्वत्रापि पराङ्मुखाः ॥ १०६३ ॥ स विलोक्य विलोभत्वं, तममन्यत बान्धवम् । अन्यवित्तस्पृहाशून्या, जायन्ते जगतो मताः ॥ १०६४ ॥ तमाचष्ट ततः खेटः, साधो! त्वं मे सुबान्धवः । योऽन्यदीयं सदा द्रव्यं, पाषाणमिव पश्यति ॥ १०६५ ॥ विषण्णो दृश्यसे किं त्वं?, बन्धो सूचय कारणम्।न गोप्यं क्रियते किञ्चित् , सुहृदो हि पटीयसा ॥१०६६॥ अमाषिष्ट ततः पाण्डुः, साधो! सूर्यपुरे नृपः । विद्यन्तेऽन्धकवृष्ण्याख्यस्त्रिदिवे मघवानिव ॥ १०६७ ॥ तस्यास्ति' सुन्दरा कन्या, कुन्ती मकरकेतुना । ऊवीकृतपताकेव, त्रिलोकजविना सत्ता ॥ १०६८॥ सा तेन भूभृता पूर्ण, दत्ता मन्मथवर्धिनी । इदानीं न पुनर्दत्ते, विलोक्य मम सेगिताम् ॥ १०६९ ।। अनेन हेतुना बन्धो!, विषादो मानसेऽजनि । कुठार इच काठाना, गर्मणां नर्मकर्तकः ॥ १०७०।। चित्रानदस्ततोऽवोचत्, साधो! मुश्च विषण्णताम् । नाशथापितकोप, कुलप्य मम मावितम् ॥ १०७१॥ गृहाणा त्वमिमा मित्र!, मदीयां काममुद्रिकाम् । कामरूपधसे भूत्वा, तां मजखा मनःनियार॥१०७२ ।।

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124