Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 78
________________ धर्म ॥ ३७ ॥ निगद्येति मुमोचर्षि – रूपं खेचरनन्दनः । पुरं विवेश मिश्रेण, समं तापसवेषभाक् ॥ ९४४ ॥ सघण्टां भेरिमाताढ्य, निषिष्टो हेमविष्टरे । आगत्य ब्राह्मणाः प्राहुरागतस्तापसः कुतः १ ॥ ९४५ ॥ किं त्वं व्याकरणं वेत्सि ?, किं वा तर्क सविस्तरम् ? । करोषि ब्राह्मणैः सार्धं, किं वादं शास्त्रपारगैः १ ॥ ९४६ ॥ तेनोक्तमहमायातो, भूदेवा ! ग्रामतोऽमुतः । वेद्मि व्याकरणं तर्क, वादं वापि न कञ्चन ॥ ९४७ ॥ विप्राः प्राहुर्वेद क्रीडां विमुच्य त्वं यथोचितम् । स्वरूपपृच्छिभिः सार्धं, क्रीडा कर्तुं न युज्यते ॥ ९४८ ॥ खेचरेण ततोऽवाचि, तापसाकारधारिणा । कथयामि निजं वृत्तं, युष्मत्तोऽहं परं चके ॥ ९४९ ॥ युक्sपि भाषिते विप्राः !, कुर्वते निर्विचारकाः । आरोप्यायुक्ततां दुष्टा, रभसोपद्रवं परम् ॥ ९५० ॥ सूत्रकण्ठास्ततोऽवोचन् वद भद्र ! यथोचितम् । सर्वे विचारका विप्रा युक्तपक्षानुरागिणः ॥ ९५१ ॥ तदीयं वचनं श्रुत्वा, जगाद खगनन्दनः । निगदामि तदाभीष्टं, यदि यूयं विचारकाः ॥ ९५२ ॥ वृहत्कुमारिका माता, साकेतनगरे मम । दत्ता स्वकीयतातेन, मदीयजनकाय सा ।। ९५३ ॥ श्रुत्वा तूर्यरथं हस्ती, कृतान्त इव दारुणः । मत्तो भङ्क्त्वाऽऽगतः स्तम्भं, विवाहसमये तयोः ॥ ९५४ ॥ ततः पलायितो लोकः, समस्तप्रेऽपि विदूरतः । विवाहकरणं मुक्त्वा, स्थिरत्वं क्व महाभये ? ॥ ९५५ ॥ वधूः पलायमानेन, वरेण व्याकुलात्मना । स्वांसस्पर्शनतश्चेष्टा, पातिता वसुधातले ॥ ९५६ ॥ परीक्षा. ॥ ३७ ॥

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124