Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 61
________________ कृष्ट्वा कृष्ट्वा तया सार्धं, भुक्त्वा भोगमसौ पुनः । गिलित्वा कुरुतेऽन्तःस्था, नाशशङ्कितमानसः ॥ ७२३ ॥ इत्थं तया समं तस्य, भुआनस्य रतामृतम् । कालः प्रावर्त्ततात्मानं पश्यतस्त्रिदशाधिकम् ॥ ७२४ ॥ खटिका पुस्तिका रामा, परहस्तं गता सती । नष्टा ज्ञेयाऽथवा पुंसा, घृष्टा स्पृष्टोपलभ्यते ॥ ७२५ ॥ पवनेनैकदाऽवाचि, पावको, भद्र १ सर्वदा । एकः सुधाभुजां मध्ये, यमो जीवति सौख्यतः ॥ ७२६ ॥ तेनैका सा वधूच्धा, सुरतामृतवाहिनी । यामालिकय दृढं शेते, सुखसागरमध्यगः ॥ ७२७ ॥ न तया दीयमानेऽसौ सुखे तृप्यति पावने। नितम्बिन्या जले नित्यं गङ्गयेव पयोनिधिः ॥ ७२८ ॥ कथं मे जायते सङ्गः, समवर्तिखिया समम् ? । पावकेनेति पृष्टोऽसौ, निजगाद समीरणः ॥ ७२९ ॥ रक्ष्यमाणाऽमुना तन्वी, न द्रष्टुमपि लभ्यते । कुत एव पुनस्तस्याः, सङ्गमोऽस्ति विभावसो ! ॥ ७३० ॥ स्वकीयया श्रिया सर्वा, जयन्ती सुरसुन्दरीः । रतं निषेव्य सा तेन, जठरस्था विधीयते ॥ ७३१ ॥ एकाकिनी 'स्थिता स्पष्टं, याममेकं विलोचनैः । बहिःशङ्काऽवसरे सा, केवलं दृश्यते सती ॥ ७३२ ॥ अवाचि वहिना वायो ?, यामेनैकेन निश्चितम् । स्त्रीर्गृह्णामि त्रिलोकस्थाः, कैवाऽऽस्यैकत्र योषिति १ ॥७३३ ॥ एकाकिनीं यौवनस्थां युवानः स्मरविह्वलाम् । कुर्वन्ति सुन्दरीं नात्र, चित्रं किमपि विद्यते ॥ ७३४ ॥ उक्त्वेति वह्निस्तत्रागाद्यत्र मुक्त्वा वहिः स्त्रियम् । विदधाति बहिःशङ्कां यमो गङ्गातटे शुचिः ॥ ७३५ ॥

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124