Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 42
________________ धर्म ॥ १९ ॥ साधो गृहाण को दोष- स्तेनोक्त्वेति विचेतसा । आदाय दारुसन्दोहं, वित्तीर्ण वाणिजाय तत् ॥ ४७६ ॥ वणिजागत्य वेगेन, घर्षित्वा बुद्धिशालिना । बिलिप्सो भूपतेर्देहश्चन्दनेनाऽमुनाऽभितः ॥ ४७७ ॥ तस्य स्पर्शेन निःशेषस्तापो राज्ञः पलायितः । इष्टस्येव कलत्रस्य, दुरुच्छेदो वियोगिनः ॥ ४७८ ॥ पूजितो वाणिजो राज्ञा ( ज्यं), दत्वा भाषितमञ्जसा । उपकारो वरिष्ठानां, कल्पवृक्षाय ते कृतः ॥ ४७९ ॥ काष्ठप्रसादतः पूजां वणिजस्य निशम्य ताम् । स्वशिरस्ताङमाक्रन्दीद्रजकः शोकतापितः ॥ ४८० ॥ रजकप्रतिमो विप्रो, विद्यते यदि कश्चन । विभेम्यहं तदा तत्त्वं पृच्छयमानोऽपि भाषितुम् ॥ ४८१ ॥ इत्थं सुचन्दनत्यागी, भाषितो ज्ञानदुर्विधः । सर्वनिन्दास्पदं मूर्खः, साम्प्रतं प्रतिपाद्यते ॥ ४८२ ॥ चत्वारोऽथ महामूर्खा, गच्छन्तः कापि लीलया । मुमुक्षु मे कम द्राक्षुर्जिनेश्वरमिवानघम् ॥ ४८३ ॥ भून्यस्तमस्तास्तेऽपि पादौ तस्य वयन्दिरे । तारकौ भवपाथोधे-र्वारकौ नरकापदाम् ॥ ४८४ ॥ धर्मलाभाशिषं तेषां चतुर्णामप्यसौ मुनिः । पापाद्रिभेदवज्राभां सर्व्वदुःखविनाशिनीम् ॥ ४८५ ॥ उपेत्यैकं योजनांतं, विवदन्ते स्म ते मिथः । जडानां स्यात् कुतो बुद्धिः सम्यग्मार्गानुयायिनी ॥ ४८६ ॥ अजल्पदेकः साधुः स, धर्म्मलाभमदत्त मे । परोऽप्येवमभूत्तेषां कलिरेवं विवादिनाम् ॥ ४८७ ॥ अजल्पदेकः किं राटिर्जडा व्यर्थ विधीयते ? । पृच्छयतां साधुरेवासौ न तमः सति भास्करे । ४८८ ॥ परीक्षा. ॥ १९ ॥

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124