Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 89
________________ - % % জ* निर्द्धातुकेन देवेन, न नाय जन्यते नरः । पाषाणेन कदा धात्र्यां, जन्यन्ते सस्यजातयः १ ॥ १०८६ ॥ वितीर्णा पाण्डवे कुन्ती, विज्ञायान्धकवृष्णिना । गान्धारी धृतराष्ट्राय, दोषं प्रच्छाद्य धीमता ॥ १०८७ ॥ इत्यन्यथा पुराणार्थी, व्यासेन कथितोऽन्यथा । रागद्वेषग्रहग्रस्ता, न हि विभ्यन्ति पापतः ॥ १०८८ ॥ युक्तितो घटते यन्न, तद्रुवन्ति न धार्मिकाः । युक्तिहीनानि वाक्यानि भाषन्ते पापिनः परम् ।। १०८९ ॥ व्यासो योजनगन्धायाः, पुत्रः स ह्यपरो मतः । धन्याया राजकन्यायाः सत्यवत्याः पुनः परः ॥ १०९० ॥ परः पारासरो राजा, तापसोऽसौ पुनः परः । एकतां कुर्वते लोकास्तयोर्ना मविमोहिताः ॥ १०९१ ॥ दुर्योधनादयः पुत्रा, गान्धार्या धृतराष्ट्रजाः । कुन्तीमाद्योः सुताः पञ्च पाण्डवाः प्रथिता भुवि ।। १०९२ ॥ गान्धारीतनयाः सर्वे, कर्णेन सहिता नृपम् । जरासन्धं व्यषेवन्त पाण्डवाः केशवं पुनः ॥ १०९३ ॥ जरासन्धं रणे हत्वा वासुदेवो महाबलः । वभूव धरणीपृष्ठे, समस्ते धरणीपतिः ॥ १०९४ ॥ कुन्तीशरीरजाः कृत्वा, तपो जग्मुः शिवास्पदम् । मद्रीशरीरजौ भव्यौ, सर्वार्थसिद्धिमीयतुः ॥ १०९५ ॥ ईदृशोऽयं पुराणार्थी, व्यासेन कथितोऽन्यथा । मिथ्यात्वाकुलचित्तानां, तथ्या भाषा कुतस्तनी ? ॥ १०९६ ॥ अप्रसिद्धिकरीं दृष्ट्वा, पूर्वापरविरुद्धताम् । भारते निर्मिते व्यासः, प्रदध्याविति मानसे ।। १०९७ ॥ निरर्थकं कृतं कार्य, यदि लोके प्रसिद्ध्यति । असंबद्ध विरुद्धार्थ, तदा शास्त्रमपि स्फुटम् ॥ १०९८ ॥ ********

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124