Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 88
________________ धर्म ॥ ४२ ॥ पश्चाद्गर्भवतीं जाता, स ते दास्यति ता खयम् । न दूषिता स्त्रियं सन्तो, वासयन्ति निजे गृहे ॥ १०७३ ॥ - सोऽगात्तस्यास्ततो गेहं गृहीत्वा काममुद्रिकाम् । स्वयं हि विषये लोलो, लब्धोपायो न किं जनः १ ॥ १०७४॥ खेच्छया स सिषेवे तां, कामाकारधरो रहः । मनःप्रियां प्रियां प्राप्य, खेच्छा हि क्रियते न कैः १ ॥ १०७५ ॥ तेन तां सेवमानेन, कुमारीं दिनसप्तकम् । यूना निरोपितो गर्भः, कोशो नीतिमिवानघाम् ॥ १०७६ ॥ आयासीन्निर्वृतो भूत्वा, हित्वा तत्रैव तामसौ । सिद्धे मनीषिते कृत्ये, निर्वृतिं लभते न कः ? ॥ १०७७ ॥ ज्ञात्वा गर्भवतीं मात्रा, निभृतं सा प्रसाधिता । गुह्यं छादयते सर्वो, गृहदूषणभीलुकः ॥ १०७८ ॥ मञ्जूषायां विनिक्षिप्य, देवनद्यां प्रवाहितः । तदीयस्तनयो मात्रा, गृहदूषणभीतया ॥ १०७९ ॥ गङ्गया नीयमानां तामादित्यो जगृहे नृपः । संपत्तिमिव दुनिया, दृष्ट्वा चम्पापुरीपतिः ॥ १०८० ॥ तस्या मध्ये ददर्शासौ, बालं पावनलक्षणम् । सरखत्या इवानिन्द्यमर्थ विद्वज्जनार्चितम् ॥ १०८१ ॥ कर्णे गृहीतो भूपालो, बालेन सुखदर्शनम् । आजुहाव महाप्रीत्या, ततस्तं कर्णसंज्ञया ॥ १०८२ ॥ अवीवृधदसौ बालमपुत्रः पुत्रकाङ्क्षया । अद्रव्यो द्रव्यलोलेन, द्रव्यराशिमिवोर्जितम् || १०८३ ॥ चम्पायां सोऽभवद्राजा, तत्रातीते महोदये । आदित्ये भुवनानन्दी, व्योमनीव निशाकरः ॥ १०८४ ॥ आदित्येन यतोsवर्द्धि, भूभृताऽऽदित्यजस्ततः । ज्योतिष्केण पुनर्जातो, नादित्येन महामनाः ॥ १०८५ ॥ परीक्षा. ॥ ४२ ॥

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124