Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 74
________________ R क्षुधा तृष्णा भयद्वेषौ, रागो मोहो मदो गदः । चिन्ता जन्म जरा मृत्युर्विषादो विस्मयो रतिः॥ ८९२॥ | परीक्षा. खेदः खेदस्तथा निद्रा, दोषाः साधारणा इमे । अष्टादशापि विद्यन्ते, सर्वेषां दुःखहेतवः ॥ ८९३॥ क्षुधाग्निज्वालया तप्तः, क्षिप्रं शुष्यति विग्रहः । इन्द्रियाणि न पश्चापि, प्रवर्तन्ते खगोचरे॥ ८९४ ॥ विलासो विभ्रमो हासः, संभ्रमो विनयो नयः । तृष्णया पीड्यमानस्य, नश्यन्ति तरसाऽखिलाः॥ ८९५॥ वातेनेव हतं पत्रं, शरीरं कम्पतेऽखिलम् । वाणी पलायते भीत्या, विपरीतं विलोकते ॥ ८९६ ॥ दोषं गृह्णाति सर्वस्य, विना कार्येण रुष्यति । द्वेषाऽऽकुलो न कस्यापि, मन्यते गुणमस्तधीः ॥ ८९७ ॥ पञ्चाक्षविषयाऽऽसक्तः, कुर्वाणः परपीडनम् । रागातुरमना जीवो, युक्तायुक्ते न पश्यति ॥ ८९८ ॥ कान्ता मे मे सुता मेऽर्थाः, गृहं मे मम वान्धवाः । इत्थं मोहपिशाचेन, मोद्यते सकलो जनः ॥ ८९९ ।। 8 ज्ञानजातिकुलैश्वर्यतपोरूपवलादिभिः । पराभवति दुर्वृत्तः, समदः सकलं जनम् ॥ ९०.॥ पवनश्लेष्मपित्तोत्थैस्तापितो रोगपावकः । कदाचिल्लभते सौख्यं, न परायत्तविग्रहः ॥ ९०१॥ कथं मित्रं ? कथं द्रव्यं ?, कथं पुत्राः कथं प्रियाः?। कथं ख्यातिः? कथं प्रीतिरिति ध्यायति चिन्तया ॥९०२॥5॥३५॥ श्वभ्रवासाधिकेऽसाते, गर्भे कृमिकुलाकुले । जन्मिनो जायते जन्म, भूयो भूयोऽसुखावहम् ॥ ९०३॥ आदेशं कुरुते यस्य, शरीरमपि नात्मनः । कस्तस्य जायते वश्यो, जरिणो हतचेतसः? ॥ ९०४ ॥ - RA

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124