Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 94
________________ धर्म परीक्षा. SHARMA सर्ववेदी कथं दत्ते, शङ्करो वरमीदृशम् ? । देवानामपि दुर्वारो, भुवनोपद्रवो यतः ॥ ११५१ ।। नार्थः परपुराणेषु, चिन्त्यमानेषु दृश्यते । नवनीतं कदा तोये, मध्यमाने हि लभ्यते ? ॥ ११५२॥ शाखामृगा भवन्त्येते, न सुग्रीवपुरस्सराः । न लोककल्पिता मित्र!, राक्षसा रावणादयः ॥ ११५३ ॥ विद्याविनयसंपन्ना, जिनधर्मपरायणाः । शुचयो मानवाः सर्वे, सदाचारमहौजसः ॥ ११५४ ॥ ततः शाखामृगाः प्रोक्ता, यतः शाखामृगध्वजाः । सिद्धानेकमहाविद्या, राक्षसा राक्षसध्वजाः ॥ ११५५ ॥ | गौतमेन यथा प्रोक्ताः, श्रेणिकाय महीभुजे । श्रद्धातव्यास्तथा भव्यैः, शशाङ्कोज्वलदृष्टिभिः ॥ ११५६ ॥ परकीयं परं साधो!, पुराणं दर्शयामि ते । इत्युक्त्वा श्वेतभिक्षुत्वं, जग्राहासौ समित्रकः ॥ ११५७ ॥ एप द्वारेण पष्ठेन, गत्वा पुष्पपुरं ततः । आस्फाल्य सहसा भेरीमारूढःकनकासने ॥११५८ ॥ आगत्य ब्राह्मणैः पृष्टः, किं वेत्सि? को गुरुस्तव? । कर्तुं शक्नोपि किं वादं ? सौष्ठवं दृश्यते परम् ॥ ११५९ ॥ तेनोक्तं वेद्मि नो किञ्चिद्विद्यते न गुरुर्मम । वादनामापि नो वेद्मि, वादशक्तिः कुतस्तनी ? ॥ ११६० ॥ अदृष्टपूर्वकं दृष्ट्वा, निविष्टोऽष्टापदासनम् । प्रताड्य महतीं भेरी, महाशब्ददिदृक्षया ॥ ११६१ ॥ आभीरतनयो मूल्, सर्वशास्त्रवहिष्कृतौ । पर्यटावो महीं भीत्या, गृहीत्वाऽऽवां वयं तपः ॥ ११६२ ॥ तेऽभापन्त कुतो भीत्या, युवाभ्यां स्वीकृतं तपः! । उपरोधेन जल्प त्वमस्माकं कौतुकं परम् ॥ ११६३ ॥ ॥४५॥

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124