Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 108
________________ धर्म परीक्षा. ॥५२॥ आहारं क्रमतस्तुल्यो, बदरामलकाक्षकैः। परेषां दुर्लभोज्पृष्यः, सर्वेन्द्रियबलप्रदः ॥ १३३३ ॥ नास्ति खखामिसंबन्धो, नान्यगेहगमागमौ । न हीनो नाधिकस्तत्र, न व्रतं नापि संयमः ॥ १३३४ ॥ सप्तमिः सप्तकस्तत्र, दिनानां जायतेऽङ्गिनाम् । सर्वभोगक्षमो देहो, नवयौवनभूषणः ॥ १३३५॥ नरस्त्रियोर्युगं तत्र, जायते सहभावतः । कान्तिद्योतितसर्वाशं(), ज्योत्स्ना चन्द्रमसोरिव ॥ १३३६ ॥ आर्यमाह्वयते नाथं, प्रेयसी प्रियभाषिणी। तत्रासौ प्रेयसीमायाँ, चित्रचाटुक्रियोद्यतः॥ १३३७॥ दशाङ्गो दीयते भोगस्तेषां कल्पमहीरुहैः । दशानिर्मलाकारैधम्मैरिव सविग्रहः ॥ १३३८ ॥ मद्यतूर्यगृहज्योतिर्भूषाभोजनविग्रहाः । स्रग्दीपवस्त्रपात्राङ्गा, दशधा परिकल्पिताः ॥ १३३९ ॥ कल्प(पल्य)स्य चाष्टमे भागे, सति शेषे व्यवस्थिते । तृतीयारे समुत्पन्नाश्चतुर्दश कुलङ्कराः ॥ १३४०॥ प्रतिश्रुदादिमस्तत्र, द्वितीयः सन्मतिः स्मृतः । क्षेमङ्करधरौ प्राज्ञौ, सीमङ्करधरौ ततः॥ १३४१ ॥ ततो विमलवाहोऽभूचक्षुष्मानष्टमस्ततः । यशखी नवमो जैनैरभिचन्द्रः परो मतः ॥ १३४२ ॥ चन्द्राभो मरुदेवोऽन्यः, प्रसेनोऽत्र त्रयोदश । नाभिराजो बुधैरन्त्यः, कुलकारी निवेदितः ॥ १३४३ ॥ एते बुद्धिधनाः सर्वे, दिव्यज्ञानविलोचनाः । लोकानां दर्शयामासुः, समस्तां भुवनस्थितिम् ॥ १३४४ ॥ मरुदेव्यां महादेव्यां, नाभिराजो जिनेश्वरम् । प्रभात इव पूर्वस्यां, तिग्मरश्मिमजीजनत् ॥ १३४५ ॥

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124