Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 111
________________ पाषण्डाः समये तुर्ये, बीजरूपेण ये स्थिताः । प्ररूढा (रु) विस्तरं प्राप्ताः, कलिकालावनाविमे ॥ १३७२ ॥ विरागः केवलालोक - विलोकितजगत्रयः । परमेष्ठी जिनो देवः, सर्वगीर्वाणवन्दितः ॥ १३७३ ॥ यत्र निर्वाण संसारी, निगद्येते सकारणौ । सर्ववाधकनिर्मुक्तावागमोऽसौ बुधैर्मतः ॥ १३७४ ॥ आर्जवं मार्द्दवं सत्यं शौचं त्यागः क्षमा तपः । ब्रह्मचर्यमसङ्गत्वं, संयमो दशधा वृपः ॥ १३७५ ॥ त्यक्तायान्तरो ग्रन्थो, निष्क्रयो विजितेन्द्रियः । परीषहसहः साधुर्भवाम्भोनिधितारकः ॥ १३७६ ॥ निर्वाणनगरद्वारं, संसारदहनोदकम् । एतच्चतुष्टयं ज्ञेयं, सर्वदा सिद्धिहेतवे ॥ १३७७ ॥ सम्यक्त्वज्ञानचारित्रतपः सन्मुक्तिदायकम् । चतुष्टयमिदं हित्वा नापरं मुक्तिकारणम् ॥ १३७८ ॥ समस्ता लब्धयों लब्धा, भ्रमता जन्मसागरे । न लब्धिश्चतुरङ्गस्य, मित्र ! क्का (त्रैका ) पि शरीरिणाम् ॥ १३७९ ॥ देशो जातिः कुलं रूपं, पूर्णाक्षत्वमरोगता । जीवितं दुर्लभं जन्तोर्देशना श्रवणं ग्रहः ॥ १३८० ॥ एषु सर्वेषु लब्धेषु, जन्मद्रुम कुठा रिकाम् । लभते दुःखतो बोधिं, सिद्धिसौघप्रवेशिकाम् ।। १३८१ ॥ यच्छुभं दृश्यते वाक्यं, तज्जैनं परदर्शने । मौक्तिकं हि यदन्यत्र तदब्धौ जायतेऽखिलम् ॥ १३८२ ॥ जिनेन्द्रवचनं मुक्त्वा, नापरं पापनोदनम् । भिद्यते भास्करेणैव, दुर्भेद्यं शार्षरं तमः ॥ १३८३ ॥ आदिभूतस्य धर्मस्य, जैनेन्द्रस्य महीयसः । अपरे नाशका धर्माः, शस्यस्य शलभा इव ।। १३८४ ॥ *

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124