Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 101
________________ पारम्पर्यण स ज्ञेयो, नेदृशं सुन्दरं बचः । सर्वज्ञेन विना मूलं, पारम्पर्य कुतस्तनम् ! ॥ १२४२ ॥ समस्तैरप्यसर्वहर्वेदो ज्ञातुं न शक्यते । सर्वे विचक्षुपो मार्ग, कुतः पश्यन्ति काङ्क्षितम् ॥ १२४३॥ कालेनानादिना नष्ट, कः प्रकाशयते पुनः । असर्वज्ञेषु सर्वेषु, व्यवहारमिवादिमम् ॥ १२४४ ॥ नापौरुषेयता सार्था, सर्वत्रापि मता सताम् । पन्था हि जारचौराणां, मन्यते कैरकृत्रिमः ? ॥ १२४५ ॥ अथ पुम्भिः(अध्वर्युभिः)कृता यागे,हिंसा संसारकारिणी। पापर्धिकैरिवारण्ये, प्राणिपीडाकरी यतः॥१२४६॥ हन्यमाना हठाजीवा, याज्ञिकैःखादिकैरिव । खग यान्तीति मे चित्रं, सक्लेशब्याकुलीकृताः॥ १२४७ ।। या धर्मनियमध्यानसङ्गतैः साध्यतेऽङ्गिभिः । कथं खर्गगतिः साध्या, हन्यमानैरसौ हठात् ॥ १२४८ ॥ वैदिकानां वचो ग्राह्य, न हिंसासाधु साधुभिः । खादिकानां कुतो वाक्यं, धार्मिकैः क्रियते हदि ? ॥१२४९॥ न जातिमात्रतो धर्मी, लभ्यते देहधारिभिः । सत्यशौचतपःशीलध्यानखाध्यायवर्जितैः ॥ १२५० ॥ आचारमात्रभेदेन, जातीनां भेदकल्पनम् । न जातिाह्मणीयाऽस्ति, नियता कापि तात्त्विकी ॥१२५१॥ ब्राह्मणक्षत्रियादीनां, चतुर्णामपि तत्त्वतः । एकैव मानुषीर्जातिराचारेण विभिद्यते ॥ १२५२ ॥ भेदे जायेत विप्रायां(णां), क्षत्रियो न कथञ्चन । शालिजाती मया दृष्टः, कोद्रवस्य न संभवः ॥ १२५३॥ ब्राह्मणोऽवाचि विप्रेण, पवित्राचारधारिणा । विप्रायां शुद्धशीलायां, जनितो नेदमुत्तरम् ॥ १२५४ ॥

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124