Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 113
________________ *** *** ***++% यथायं वान्तमिध्यात्वो, व्रताभरणभूषितः । इदानीं जायते भव्यस्तथा साधो ! विधीयताम् ॥ १३९८ ॥ ततः साधुरभाषिष्ट, देवात्मगुरुसाक्षिकम् । सम्यक्त्वपूर्वकं भद्र ! गृहाण श्रावकं व्रतम् ।। १३९९ ॥ साक्षीकृत्य व्रतग्राही, व्यभिचारं न गच्छति । व्यवहारीव येनेदं तेन ग्राह्यं ससाक्षिकम् ॥ १४०० ॥ रोप्यमाणं न जीवेषु, सम्यक्त्वेन विना व्रतम् । सफलं जायते शस्यं, केदारेष्विव वारिणा । १४०१ ॥ सम्यक्त्वसहिते जीवे, निश्चलीभवति व्रतम् । सगर्त्तापूरके देशे, देववेश्मेव दुर्धरम् ॥ १४०२ ॥ जीवाजीवादितत्त्वानां भाषितानां जिनेश्वरैः । श्रद्धानं कथ्यते सद्भिः सम्यक्त्वं व्रतरोपकम् ॥ १४०३ ॥ दोषैः शङ्कादिभिर्मुक्तं, संवेगाद्यैर्गुणैर्युतम् । दधतो दर्शनं पूतं, फलवजायते व्रतम् ॥ १४०४ ॥ पञ्चधाणुव्रतं तत्र, त्रेधाऽवाचि गुणव्रतम् । शिक्षात्रतं चतुर्धेति, व्रतं द्वादशधा स्मृतम् ॥ १४०५ ॥ अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमसङ्गता । पञ्चधाणुव्रतं ज्ञेयं, देशतः कुर्वतः सतः ॥ १४०६ ॥ परिगृह व्रतं रक्षेन्निधाय हृदये सदा । मनीषितसुखाधायि, निधानमिव सद्मनि ॥ १४०७ ॥ प्रमादतो व्रतं नष्टं, लभ्यते न पुनः शुचि । समर्थ चिन्तितं दातुं दिव्यं रत्तमिवाम्बुधौ ॥। १४०८ ॥ द्विविधा देहिनः सन्ति, त्रसस्थावरभेदतः । रक्षणीयास्त्रसास्तत्र, गेहिना व्रतमिच्छता । १४०९ ॥ सा द्वित्रिचतुष्पञ्चहृषीकाः सन्ति भेदतः । चतुर्विधाः परिज्ञाय, रक्षणीया हितैषिभिः ॥ १४१० ॥ %%%% •

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124