Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 112
________________ धर्म परीक्षा. ॥५४॥ मिथ्यात्वग्रन्थिरहाय, दुर्भेद्यस्तस्य सर्वथा। अनेन वचसाऽभेदि, वज्रेणेव महीधरः ॥ १३८५॥ ऊचे पवनवेगोऽथ, भिन्नमिथ्यात्वपर्वतः । हा हारितं मया जन्म, खकीयं दुष्टबुद्धिना ॥ १३८६ ॥ . स्यक्त्वा जिनवचोरलं, हा मया मन्दमेघसा । गृहीतोऽन्यवचोलेष्टुनिराकृत्य वचस्तव ॥ १३८७ ॥ त्वया दत्तं मया पीतं, नही जिनवचोऽमृतम् । सकलं पश्यता भ्रान्तं, मिथ्यात्वविषपायिना ॥ १३८८ ॥ त्वया निवार्यमाणेन, मिथ्यात्वविषमुत्कटम् । निषेवितं मया मुक्त्वा, सम्यक्त्वामृतमुत्तमम् ॥ १३८९ ॥ वन्धुस्त्वमेव मे तातस्त्वमेव सद्गुरुः सुहृत् । भवान्धकूपतो येनोद्धृतोऽहं नियतं त्वया ॥ १३९०॥ त्रिधा शुद्धा मयाऽग्राहि, जिनशासनमुत्तमम् । तथा कुरु यथाऽथ स्यां, व्रतरत्नविभूषितः॥१३९१ ॥ जिनवाग्वासितं मित्रं, गृहीत्वाऽसौ मनोजवः । ययौ पुरीमुज्जयिनी, मित्रकार्यविचक्षणः ॥ १३९२ ॥ जैनसाधोः पुरस्तत्र, नत्वा न्यषदतां क्रमौ । तौ भक्त्या मोहभूच्छायोच्छेदाय रविसंस्थितेः॥ १३९३ ॥ अधो जैनमतियोगी, मनोवेगमभाषत । सोऽयं पवनवेगस्ते, मित्रं भद्र ! मनःप्रियम् ॥ १३९४ ॥ यस्यारोपयितुं धर्म, संसारार्णवतारकम् । त्वया पृष्टो मुनिः कृत्वाऽत्यादरं केवली तदा ॥ १३९५ ॥ मनोवेगस्ततोऽवादीन्मस्तकस्थकरद्वयः । एवमेतदसौ साधो !, प्राप्तो व्रतजिघृक्षया ॥ १३९६ ॥ . मयेत्वा पाटलीपुत्रं, दृष्ट्वान्तैर्विविधैरयम् । सम्यक्त्वं लम्भितः साधो !, मुक्तिसमप्रवेशकम् ॥ १३९७॥ ॥५४॥

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124