Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 93
________________ रामायणाभिधे शास्त्रे, वाल्मीकिमुनिना कृते । किं भो दाशरथेर्वृत्तं किमित्थं कथ्यते न वा ? ॥ ११३८ ॥ asaraarci सत्यं केनेदं क्रियतेऽन्यथा । प्रभातं छाद्यते जातु न केनापि हि पाणिना । ११३९ ॥ ततो रक्तपटोsलापीद्यद्येको वानरो द्विजाः ! । आदाय पर्वतान् पञ्च, गगने याति लीलया ।। ११४० ॥ शृगालौ तौ तदा स्तूपमेकमादाय मांसलौ । व्रजन्तौ नभसि क्षिप्रं वार्येते केन कथ्यताम् ? ॥। ११४१ ॥ भवदीयमिदं सत्यं, मदीयं नात्र दृश्यते । विचारशून्यतां हित्वा, कारणं न परं मया । ११४२ ॥ युष्माकमीदृशे शास्त्रे, देवधर्मावपीशौ । कारणे कश्मले कार्य, निर्मलं जायते कुतः ? ॥ ११४३ ॥ नास्माकं युज्यते मध्ये, मिथ्याज्ञानवृतात्मनाम् । ईदृशानामवस्थातुमित्युक्त्वा निर्ययौ ततः ॥ १९४४ ॥ मुक्त्वा रक्तपटाकारं, मित्रमूचे मनोजवः । सर्वासंभावनीयार्थी, परशास्त्रं श्रुतं त्वया ॥। ११४५ ॥ एतदुक्तमनुष्ठानं, कुर्वाणो नाश्रुते फलम् । सिकतापीलने तैलं, कदा केनोपलभ्यते ? ॥। ११४६ ॥ वानरै राक्षसा हन्तुं शक्यन्ते न कथञ्चन । क्व महाष्टगुणा देवाः ? क्व तिर्यचो विचेतसः ? ॥। ११४७ ॥ उत्क्षिप्यन्ते कथं शैला ? गरीयांसः प्लवङ्गमैः । कथं तिष्ठन्त्यकूपारेऽगाधनिर्मुक्तपाथसि ? | ११४८ ॥ वरप्रसादतो जातो, यद्यवध्यो दिवौकसाम् । तदाऽसौ मानवीभूय, हन्यते किं नु रावणः ? | ११४९ ॥ अमरा वानरीभूय, निजघ्न राक्षसाधिपम् । नैषापि युज्यते भाषा, नेप्सिता लभ्यते गतिः ॥ ११५० ॥

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124