Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 99
________________ MAHARASHTRA सितेन करवालेन, रावणेन द्विधा कृतः । तथाऽङ्गदः कथं लग्नो, योज्यमानो हनूमता ॥ १२१६ ॥ आराध्य देवतां लब्ध्वा, ततः पिण्डं मनीषितम् । दानवेन्द्रो ददौ देव्यास्तनयोत्पत्तिहेतवे ॥ १२१७ ॥ द्विधाकृत्य तया दत्ते, सपल्या मोहतो दले । द्विधागर्भस्तयोर्देव्योर्भवति स्म द्वयोरपि ॥ १२१८ ॥ जातं खण्डद्वयं दृष्ट्वा, संपूर्ण समये सति । ताभ्यां नीत्वा बहिः क्षिप्त, जरसा सन्धितं पुनः॥ १२१९ ॥ तत्र जातो जरासन्धो, विनिर्जितनरामरः । सर्वकर्मक्षमः ख्यातो, महनीयपराक्रमः ॥ १२२० ॥ शकलद्वितयं लग्नं, योज्यमानं गतवणम् । सव्रणो न कथं मूर्धा, मदीयः कथ्यतां द्विजाः ॥ १२२१ ॥ जरासन्धाङ्गदौ यत्र, द्विधाकृतकलेवरौ । जीवितौ मिलितो तत्र, न किं मे मूर्धविग्रहौ ? ॥ १२२२ ॥ एकीकृत्य कथं स्कन्दः, षट्रखण्डोऽपि विनिर्मितः ? । प्रतीयते न मे योगश्छिन्नयोर्मूर्धदेहयोः ॥ १२२३ ॥ अथ षड्दनो देवः, षोढाऽप्येकत्वमश्नुते । तदयुक्तं यतो नार्या, देवः संपद्यते कुतः? ॥ १२२४ ॥ निरस्ताशेषरक्तादिमलायां देवयोषिति । शिलायामिव गर्भस्य, सम्भवः कथ्यतां कथम् ? ॥ १२२५ ॥ द्विजैरुक्तमिदं सर्च, सूनृतं भद्र ? भाषितम् । परं कथं फलैर्मूओ, जग्धैः पूर्ण तवोदरम् ? ॥१२२६ ॥ ततोऽवदत् श्वेतभिक्षुर्यदि भुक्ते द्विजवजे । तृप्यन्ति पितरो नीताः, किं नाङ्गं मूर्मि मे तदा? ॥ १२२७ ॥ निरुत्तरानथालोक्य, खेटपुत्रौ द्विजन्मनः । निर्गत्य काननं यातौ, भूरिभूरुहभूषितम् ॥ १२२८ ॥

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124