Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
ऊर्ध्वाधोद्वारनिर्यातो, भविष्यामि जुगुप्सितः । इति ज्ञात्वा विदार्याङ्ग, जनन्या यो विनिर्गतः ॥ १२९४ ॥ मांसस्य भक्षणे गृद्धो,दोषाभावं जगाद यः। बुद्धस्य तस्य मूढस्य,कीदृशी विद्यते क्रिया?(कृपा)॥१२९५॥युग्मम्॥ कायं कृमिकुलाकीर्ण, व्याघ्रभार्यानने कुभीः(धीः) । यो निचिक्षेप जानानः, संयमस्तस्य कीदृशः१ ॥१२९६॥ सर्वशून्यत्वनैरात्म्यक्षणिकत्वानि भाषते । यः प्रत्यक्षविरुद्धानि, तस्य ज्ञानं कुतस्तनम् ? ॥ १२९७ ॥ कल्पिते सर्वशून्यत्वे, यत्र बुद्धो न विद्यते । बन्धमोक्षादितत्त्वानां, कुतस्तत्र व्यवस्थितिः ॥ १२९८॥ खर्गापवर्गसौख्यादिभागिनः स्फुटमात्मनः । अभावे सकलं वृत्तं, क्रियमाणमनर्थकम् ॥ १२९९ ॥ क्षणिके हन्तृहन्तव्यदातृदेयादयोऽखिलाः । भावा यत्र विरुध्यन्ते, तद्गृहन्ति न धीधनाः ॥ १३०० ॥ प्रमाणबाधितः पक्षः, सर्वो यस्येति सर्वथा । सार्वज्ञं विद्यते तस्य, न बुद्धस्य दुरात्मनः ॥ १३०१॥ वाणारसीनिवासस्य, ब्रह्मा पुत्रः प्रजापतेः। उपेन्द्रो वसुदेवस्य, सात्यकोगिनो हरः॥ १३०२॥ सृष्टिस्थिति निवासानां, कथ्यन्ते हेतवः कथम् । एते निसर्गसिद्धस्य, जगतो हतचेतनैः ॥ १३०३॥ युग्मम्॥ यदि सर्वविदामेषां, मूर्तिरेकास्ति तत्त्वतः। तदा ब्रह्ममुरारिभ्यां, लिङ्गान्तः किं न वीक्षितः १ ॥ १३०४ ॥ सर्वज्ञस्य विरागस, शुद्धस्य परमेष्ठिनः । किञ्चिज्ज्ञाः रागिणोऽशुद्धा, जायन्तेऽवयवाः कथम् ? ॥ १३०५॥ प्रलयस्थितिसर्गाणां, विधातुः पार्वतीपतेः । लिङ्गच्छेदकरः शाप-तापसैर्दीयते कथम् ? ॥ १३०६ ॥

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124