SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४२ [अप्रसिद्ध [वृ. सं. १५१२] पुष्पमालावृत्तिः । साधुसोमः पृ. ५८ उपदेशमालेल्यपराह्वयं मूलमात्रा मलधारिहेमचन्द्रसूरिविनिर्मिता गूर्जरानुवादसहिता मुद्रिता। क्र.३०१(१) इत्यत्र मूलमात्रा दर्शिताऽपि पत्रसङ्घयाया आधिक्येन सवृत्तिकाऽनुमीयते । अस्याश्व चतुर्दशसहस्रश्लोकप्रमाणा वृहद्वृत्तिः स्वयमेव मूलग्रन्थका सं. ११७५ वर्षे विहिताऽस्त्येव । संक्षिप्ताया अस्यास्तु वृत्तेर्विरचयिता साधुसोमः खरतरगच्छीयजिनभद्रसूरि (पृ.११) शिष्यसिद्धातरुचे शिष्यः, येन सं. १५१९ वर्षे चरित्रपञ्चकवृत्तिरपि विहिता (पृ. १३)। धर्मोपदेशः। लक्ष्मी]वल्लभः पृ. ५६ यद्यपि दलालेनास्य कर्तुर्नाम वल्लभ इति १०७ श्लोकप्रमाणं च दर्शितम्, किन्तु खरतरगच्छीयलक्ष्मीकोर्तिशिष्यलक्ष्मीवल्लभगणिरस्य कर्ता ज्ञायते; यस्कृतोत्तराध्ययन-कल्पसूत्रवृत्तिः प्रसिद्धा । ॐकारादारभ्याक्षकारमेकादशोत्तरशतकाव्यपरिमितस्य द्वादशप्रक्रमपरिच्छिन्नस्यास्य स्वोपज्ञा पञ्चदशशतश्लोकदेशीया सं. १७४५ वर्षे विरचिता वृत्तिरत्र H. वर्तते । सप्तदशशताब्युत्तरार्धे विद्यमानो ज्ञानविमलपाठकशिष्यो वल्लभोपाध्यायोऽसाद मिशः । [सं. १८४७] सूक्तरत्नावलीवृत्तिः । क्षमाकल्याणः पृ. ६० [A. ९।८३] आधुनिकोऽयं विद्वान् , अनेन सं. १८३० वर्षे खरतरगच्छपट्टावली, सं. १८३३ वर्षे भारमप्रबोधः (संशोधनम्), सं. १८३५ वर्षे चातुर्मासिक-होलिकाव्याख्यानम् , सं. १८३८ वर्षे साधु-श्रावकविधिप्रकाशः, सं. १८३९ वर्षे यशोधरचरितम् , सं. १८५० वर्षे जीवविचारवृत्तिः, सं. १८२९-५२ वर्षे गौतमीयकाच्यव्याख्या, सं. १८५४ वर्षे तर्कसङ्ग्रहफकिका, सं. १८६० वर्षे मेहत्रयोदश्यक्षयतृतीया-ऽष्टाहिकाम्याख्यानम् , सं. १८६९ वर्षे श्रीपालचरित्रव्याख्या, चतुर्विश. तिजिनचैत्यवन्दन-परसमयसारविचारसङ्ग्रह-विचारशतकबीजक-समरादित्यचरित-स्वाध्यायादयखानेके संस्कृत-गूर्जरग्रन्था निर्मिताः। जैनधर्मकथा-चरितानुयोगः। वसुदेवहिण्डी (प्रथमखण्डः)। [ सक्छदासवाचकः] पृ. ५३,५६. [P. P. १।४।३।१८४,१९६] प्राकृतभाषायामेताइन् विस्तृतं वसुदेवचरित्रं नान्यद् विलोक्यते । कथावस्तुसंक्षेपः 'त्रि.श.पु. पर्व ८। सर्ग ३-४' इत्यादौ द्रष्टव्यः । येन महत्पञ्चकल्पमाध्यं विरचितम् , स एव सझदासक्षमा. श्रमणोऽस्याः कर्ता ज्ञायते । विरहातहरिभद्रसूरितोऽप्यस्य प्राचीनतैतदीयग्रन्थदर्शनादवगम्यते । __ कुवलयमाला । दाक्षिण्यचिह्नसूरिः क्र. २२९ [शकसं. ७००=वि. सं. ८३५ ] ले. सं. ११३९ । सकलकथा-खण्डकथोल्लापकथा-परिहासकथा-वरकथासम्झकानां पञ्चानां कथानां लक्षण १ वर्षेऽर्कबाणचन्द्रे वृत्तिः श्रीक्षीमराजशालायाम् । द्वीन्द्रियशतमितिरेषा समर्थिताऽहम्मदावादे ॥ M. २ संवत्पांडव-पाठक-मुनि-भूमिमिते च माधवे मासि । शुक्लायां तृतीयायां संपूर्णा वृत्तिरेषाऽभूत् ॥ H. ३ 'वसुदेवहिण्डिप्रथमखण्डं सद्धदासवाचककृतम् ११०००'--. ४ सगकाले वोलीणे वरिसाण सएहिं सत्तहिं गएहिं । एगदिणेणूणेहिं एस समत्ता वरण्हम्मि ॥-कु. प्रान्ते 'कुवलयमाला प्रा० मु० ८३५ वर्षे उद्योतनसूरीया १३०००-वृ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy