________________
जैनोपदेशग्रन्थाः ] पौषधविधिप्रकरण-जिनकल्याणकस्तोत्र-जिनचरित्रमयजिनस्तोत्रादयोऽनेके ग्रन्था जग्रन्थिरे । संवेगरङ्गशाला च (पृ.२१) संशोधिता । जैनप्रन्थावल्यां तीर्थङ्करस्थानप्रकरण-पर्यन्तोपदेश-प्रतिक्रमणसामाचारी-रत्रचूडकथा-जिनभद्रीयसङ्ग्रहणीवृत्याद्यपि प्रस्तुतसूरिकृतं सूचितम् , किन्तु तत् शक्षितम् । अनेनाभयदेवसूरिपार्धेऽधीत्य चैत्यवासं त्यक्त्वा गृहस्थगेहवसतिः स्वीकृतेति नैकनोलेख उपलभ्यते (पृ. २)। गणधरसार्धशतकादिग्रन्थकारो जिनदत्तसूरिरस्य शिष्यो गणधरसार्धशतक-चर्चर्यादावस्य भूरिगुणान् प्राशंसत् । सत्तरि-षडशीतिटिप्पनकारो रामदेवगणिरस्य शिष्यः । सडिसयप्रकरणका भां० नेमिचन्द्रेण चित्रकूटीयचामुण्डाऽऽदिप्रतिबोधकस्य प्रस्तुतसूरिवर्यस्य गुणवर्णनगीतानि विहितानि । नागपुरे नेमिनाथजिनालयनिर्माता वैराग्यशतककर्तुः पमानन्दकवेर्जनको धनदेवश्रेष्ठी चैत्यवासप्रतिषेधकस्यास्य सूरेभक्त आसीत् । गणधरसार्धशतकवृत्यादावस्य चरितं विशेषतो दर्शितं द्रष्टव्यम् । अयं सूरिवों द्वादशमिरेतैः कुलकैर्गणदेवश्राद्धेन वाग्जडदेशलोकं प्राबोधयदिति विवृतिकारेण प्रारम्भे प्रोक्तम् । नेवाङ्गीवृत्तिकाराभयदेवसूर्यादेशाद् गुणगरिष्टमेनं सं. ११६७ वर्षे देवभद्राचार्यः (पृ. ४७) सूरिपदे न्यस्तवान् । तदनन्तरं च षण्मासैरस्य स्वर्गमनं श्रूयत इत्येतेषां कुलकानां रचनासमयो द्वादशशताब्या उत्तरार्धप्रारम्भरूपोऽथवा पूर्वार्धरूपोऽवसीयते। विवरणकारस्त्वयं जिनपाल उपाध्यायो जिनपतिसूरेः शिष्यः, येन सं. १२१२ वर्षे षट्स्थानकवृत्तिः, सं. १२९३ वर्षे पञ्चलिङ्गीविवरणटिप्पनम्, सं १२९४ वर्षे उपदेशरसायन-चर्चरीविवृती, सनस्कुमारचरित्र-स्वमविचाराष्टस्वप्नभाष्यादि विहितम् । विवृतिकāदं विवरणं जिनेश्वरसूरिवाक्याद् (पृ. ४०) विहितमिति स्वयमत्र समसूचि ।
ले. सं. १३१० हितोपदेशामृतम् । परमानन्दसूरिः क्र. ३०१(५) प्राकृतभाषायां पञ्चविंशत्यधिकपञ्चशतगाथाप्रमाणमेतत् पत्रसङ्ख्याया आधिक्येन सवृत्तिक सम्भाव्यते । अयं परमानन्दसूरिः स्वमभयदेवसूरिशिष्यदेवभद्रसूरेः शिष्यस्वेन परिचाययति म । श्रीधरभाण्डारकरेणास्य लेखनसमयो रचनासमयत्वेन निर्दिष्टो न सम्यग् । 'हितोपदेशमालावृत्तिः सूत्रकारप्रभा(?)नन्दभ्रातृपं० परमानन्दीया १३०४ वर्षे ९५०० ।-वृ० इत्युल्लेखोऽस्य वृत्तिविषयकः प्रतिभाति ।
, "धर्मोपदेशकुलकाङ्कितसारखैः श्राद्धन बन्धुरधियो गणदेवनाना ।
प्राबोधयन् सकलवाग्जडदेशलोक सूर्योऽरुणेन कमलं किरणैरिव स्वैः ॥ तानि द्वादश विस्तृतानि कुलकान्यम्भोधिवद् दुर्गमा
न्यत्यन्तं च गभीरभूरिसुपदान्युनिद्रितार्याणि च xx"-द्वा० कु० वि. P. निमज्जजन्तुजातोद्धरणाय गुणः संवेगरससारद्वादशकुलकादिरूपा रज्जुर्येन दत्ता।'
-गणधरसार्धशतकवृत्तौ सुमतिगणिः H. २ "एवं श्रीजिनवल्लभस्य सुगुरोश्चारित्रिचूडामणे. ___ भव्यप्राणिविवोधने रसिकतां वीक्ष्याद्भुतां शाश्वतीम् । आदेशाद् गुणविनवाङ्ग विवृतिप्रस्तावकस्यादरात् प्रादात् सूरिपदं मुदश्चितवपुः श्रीदेवभद्रप्रभुः॥-द्वा० कु. वि० P.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org