Book Title: Ashtak Prakaran
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 11
________________ અષ્ટક પ્રકરણ ૧-મહાદેવ અષ્ટક मातेत्यालोचयता दृष्टा तन्माता वडवारूपा । ततः सूर्यस्तत्र गत्वा तामनिच्छन्तीमपि बलादेव बभुजे । तत्र चाश्विनदेवौ जातौ । तया च रोषारुणनयनावलोकनेनासौ कुष्ठीकृतः । ततश्च सूर्यो नीरुजार्थं धन्वन्तरिमुपतस्थौ । स चोवाच, न शरीरोल्लेखनं विना तव प्रगुणतास्ति । ततः सूर्येण तनू(दोल्लेखनाथ देववर्धकिरभ्यर्थितः । स तूवाच, सहिष्णुना भवितव्यम्, नो चेत्त्यक्ष्यामि त्वाम् । तेनोक्तम्, एवमस्तु । ततो मस्तकादारभ्य जानुनी यावदुल्लेखने कृते गाढं पीडितेन सूर्येण सीत्कारः कृतः । तत उल्लेखनादसौ विररामेति । एवमनिच्छद्योषिद्भोगलक्षणात् सत्पुरुषमार्गस्खलनादसौ विपदं प्राप्तवानिति ॥ अन्ये पुनरित्यमाहुः-वडवारूपां स्वभार्यामुपभुज्य सूर्यस्तत्पितुरुपालम्भं दत्तवान् । यथेयं त्वदुहिता मां विहायाऽन्यत्र तिष्ठति । स तूवाच, त्वच्छरीरतापमसहमाना किं करोत्वियं वराकी । ततो यद्यनया ते प्रयोजनं ततः शरीरमुल्लेखय । ततः सूर्यो देववर्धकिमुपतस्थौ शेषं तथैव । अनलोऽप्यखिलभुगेवमुच्यते-किल कश्चिद् ऋषिः स्वकीयोटजावस्थितं वैश्वानरं भक्तिभरणाहुतिभिः पूजयति स्म । स चान्यदा मदीयभार्या भवता रक्षणीयेत्यभिधाय प्रयोजनेन बहिर्गतः । ततः केनचिद् ऋषिणागत्य वैश्वानरसमक्षमेव सोपभुक्ता । क्षणान्तरे समागतोऽसौ । तेन चेगिताकारनिपुणतया परपुरुषसेवितेति लक्षितासौ । पृष्टश्च तेन वैश्वानरः सा च, यथेह कः समागत आसीत् । ततस्तौ न किंचिदूचतुः । ज्ञानोपयोगेन च ज्ञातोऽसावुपपतिस्तेन । ततो रक्षणीयस्यारक्षणात्पृच्छतश्चानिवेदनात् कुपितोऽसौ वैश्वानरं प्रति, सर्वभक्षको भवेत्ये (वत्वे)वं शापं (च) दत्तवान् । ततश्चाशुच्यादेरप्यसौ भक्षणस्वभावो जातो, यच्च किल वैश्वानरो भुङ्क्ते सत्सर्वं देवानामुपतिष्ठति, मुखं ह्यसौ देवानाम् । ततश्च देवैरशुच्यादिरसास्वादनादुद्विग्नैनिनोपलब्धशापव्यतिकरैरागत्य स मुनिः प्रसादयितुमारेभे । न चासौ प्रससाद, तथापि देवानुवृत्त्या वैश्वानरस्य सप्त जिह्वाः कृताः, ततोऽसौ सप्तार्चिरुच्यते । तत्र द्वाभ्यामाहुतीरेवासौ भुङ्क्ते, ताश्च देवानाममृतत्वेनोपतिष्ठन्ति । पञ्चभिस्तु सर्वभक्षक एव स्थापित इति । . __सोमः कलङ्काङ्कित इत्येतत्पुनरेवम्-किल चन्द्रो वृहस्पतिसमीपेऽध्येतुं गतो देवाचार्यत्वात्तस्य । तेन च तद्गृहेऽधीययानेन तद्भार्योपभुक्ता । ज्ञातं च बृहस्पतिना । शपितश्चासौ तेन, यथा रे गुरुतल्पग ! कलङ्किनाकालं भवितव्यमिति । __ स्वर्नाथो भगसहस्रसकुलतनुः पुनरेवं संवृत्तः-किल गौतममुनेरहल्या नाम भार्या बभूव । तद्रूपाक्षिप्तचेताः सुरपतिस्तदुटजे प्रविश्य तां रेमे । बहिच समागतो मुनिः । सोऽपि तद्भयान्मार्जाररूपं कृत्वा तद्गृहान्निर्गत्य स्वर्ग गतवान् । मुनिस्तु नायं प्राकृतो बिडालः ततः कोऽयमिति पर्यालोचयन्निन्द्रं ज्ञातवान् । ततः कोपादसाविन्द्रदेहे भगसहस्रं शापेन विहितवान् स्वछात्रांश्च तदुपभोगाय प्रेषितवान् । मुनिस्तु नाययौ । देवैस्त्वसावृषिः प्रसादितस्तेन च भगा लोचनीकृता इति । ब्रह्मा चतुर्मुख एवं जातः-किल ब्रह्मा महोद्याने तपस्यति । तत्क्षोभणार्थं च रूपस्य तिलं तिलमादाय कृता तिलोत्तमा । अतस्तां प्रेषयामास, अन्याश्च । तच तस्य समाधिध्वंसनाय पूर्वाभिमुखस्थितस्याग्रे गीतनृत्याधुपचारं चक्रुः । तत्राक्षिप्तलोचनमानसं वीक्ष्य दक्षिणतो गत्वा तथैव तश्चक्रुः । स च ध्वस्तसमाधिरपि लज्जामानाभ्यां तदभिमुखो भवितुमशक्नुवंस्ताः प्रति द्वितीयं मुखं कृतवान् । एवमपरस्यां दिशि

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 354