________________
४४
[ अप्रसिद्ध ०
शीलाचार्यो 'निर्वृतिकुलीन मानदेवसूरेः शिष्यः । आचाराङ्ग-सूत्रकृताङ्गवृत्तिकारः शीलाचार्योऽस्माद् भिन्नो ज्ञायते । जीवसमासटीकाऽस्य शीलाचार्यस्य कृतिर्वाऽपरस्येति न निश्चित्य वकुं शक्यते । अस्य लेखनं सं. १२२७ वर्षे कुमारपालराज्ये स्पष्टं सूचितमतः ही S. २।२८ इत्यत्र च निर्दिष्टः सं. ११२७ रूपो लेखनसमयो भ्रान्तिभवो ज्ञायते ।
ले. सं. ११०९ पञ्चमीकहा । महेश्वरसूरिः
पृ. ५२
भस्मादेवादर्शात् सं. १६५१ वर्षे लिखिते पतनीयपुस्तके 'सं. १००९ वर्षे' लेखनमस्य प्रादर्शि । ग्रन्थकारस्य प्राचीनताऽतः स्फुटमवगम्यते । समयनिर्णयस्तु दुःशकः । ग्रन्थकारेण स्वपरिचये केवलं सेज्जनोपाध्यायशिष्यत्वं समसूचि । अस्य ग्रन्थस्य पञ्चमीमाहात्म्य वर्णनपरत्वात् 'पंचमी माहं' इत्यपरं सुसम्बद्धं नाम दृश्यते । प्राकृतभाषायां सहस्रद्वयपरिमितासु गाथासु देश कथानकान्यत्र वर्तन्ते । तत्रापि प्रथमा जयसेनकथा पञ्चशतगाथासु, दशमी भविष्यदत्तकथाsपि तावन्मितासु गाथासु । शेषा अष्ट कथाः प्रत्येकं सपादशतगाथाप्रमाणत्वात् सहस्रगाथासु समांशेन विभक्ताः । साम्प्रतं प्रसिद्धा धर्कटवणिग्वंशोद्भवधनपालनिर्मिता अनया संस्थया प्रकाशिताsपभ्रंशा भविस्सयत्तकहा (पंचमीकहा ) भस्या एव प्रान्तकथायाः प्रपञ्चरूपा। पूर्वोक्ताया जयसेनकथाया अस्मत्कृतो गूर्जरानुवादो जैनधर्माभ्युदयग्रन्थमालायां मुद्रितः । P. P. ११६७ इत्यत्र 'महेन्द्रसूरिकृतं भविदत्ताख्यानं' दर्शितं तदप्येतदेव महेश्वरसूरिरचितं भविष्यदत्तकथावसानं पञ्चमीमाहात्म्यं सम्भाव्यते । लेखकस्खलनातः प्रेक्षकस्यापि स्खलना परम्परयाऽन्यत्रावतीर्णा प्रेक्ष्यते ।
ले. सं. १२२२ शालिभद्रचरित्रम् (प्रा० ) क्र. २४९ (३) [P. P. १ ७३,८६,९५] कर्तुर्नाम नोपलभ्यते । चरित्रवस्तु जिज्ञासा पं० धर्मकुमारकृतात् शालिभद्रचरित्रात् पूरयितुं शक्यते ।
जम्बूचरित्रम् (प्रा० )
क्र. २२८
चरित्रकारस्य नाम न ज्ञायते । कर्त्रा स्वस्य प्रधुम्न सूरिपट्टधरवीरभद्राचार्यशिष्यत्वं तु स्वयमत्र सूचितम् | 'गुणपालणेच निद्वेण साहुणा पवयणभतेण । सीसेण तस्स रइयं चरियमिमं जंबुना - मस्स ॥' इति प्रान्ते दर्शनाद् 'गुणपाल' इति कर्तुर्नाम ही. निर्दिष्टं सम्भवेत् । चरितवस्तुज्ञानार्थ हेम. परिशिष्टपर्व जयशेखरसूरिकृतं जम्बूचरित्रं वा द्रष्टव्यम् ।
१ आसि जसुज्जजोहाधवलियनेव्वयकुलंबराभोओ ।
तुहिणकिरणो व्व सूरी इहई सिरिमाण देवो त्ति ॥
सीसेण तस्स रइयं सीलायरिएण पायडफुडत्थं । सयलजणबोहणत्थं पाययभासाए सुपसिद्धं ॥ -- महा. H. P.
२ दोपक्खुजोयकरो दोसासंगेण वज्जिओ अमओ । सिरिसज्जणउज्झाओ अठव्वचंदु व्व अक्खस्थो || सीसेण तस्स रइया दसवि कहाणाइ [इ] मे उ पंचमिए ।
सूरिमसरणं भवियाणं बोहणट्ठाए ॥ P.
३ 'पञ्चमीकथा दशकथानकात्मिका प्रा० महेश्वरसूरीया २००४' - नृ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org