________________
[अप्रसिद्ध० ले. सं. १२४६ जिनदत्ताख्यानम् । सुमतिगणिः क्र. १३८(२) 'जिनदत्तकथा १२००' इति बृ० निर्दिष्टा कथाऽस्माचरितात् पृथक् प्रतिभासते। P. P. ५।६२,१०८ इत्यत्र निर्दिष्टमेतनामक चरितमप्यस्मादू भिन्नं प्रतिभाति । ग्रन्थकारोऽयं पाडिच्छयगच्छीयनेमिचन्द्रसूरेः शिष्यः । अयं नेमिचन्द्रसूरिः सर्वदेवसूरिणोत्तमपदे (सूरिपदे) स्थापित भासीदिति वर्णितं वर्णनीयेन वर्णिनाऽनेन गणिना । प्रा० जिनदत्तमहर्षिचरितं नान्यत्र दृश्यते।
सं. ११७८, ले. सं. १२१७ चन्द्रप्रभचरित्रम् । यशोदेव उपाध्यायः क्र. २५६ विजयसिंहसूरिसस्कमेतत् प्राचीनपुस्तकम् । अयं ग्रन्थकारो देवगुप्तसूरेः शिष्योऽस्य 'धनदेव' इति पूर्वनाम, उपाध्यायपदे प्राप्ते च यशोदेव इति नाम जातमासीत् । उपाध्यायपदानन्तरं घाशावल्लीपुर्या धवलभाण्डशालिककारिते पार्श्वजिनभवने एतच्चरितं प्रारम्याणहिल्लवाडपत्तने वीरजिनमन्दिरे सिद्धराजजयसिंहराज्ये पूर्णीकृतमित्यत्र स्वयं ग्रन्थकारेण वर्णितं विलोक्यतेऽन्य। त्रापि च यशोदेवकृतित्वेनेदं सूचितम् , तथापि S. २१२८ ही. इत्यत्र च सं. ११९२ वर्षे बृहरक्षे.
समासवृत्तिकर्तगुरोर्गुरुः सिद्धसूरिरस्य कर्ता सम्भावितः, रचना चास्य सं. ११३८ वर्षे सूचिता तत्तु सुसमीक्षणाभावादिति तर्कये। सिद्धसूरेस्स्वयं सतीर्यो विद्यागुरुरपि । अनेनोपाध्यायेन सं. १९६५ वर्षे नवपदप्रकरणबृहद्वृत्तिः, सं. ११७४ वर्षे च नवतत्वप्रकरणवृत्तिरपि विनिर्मिता ।
सं. ११८७ नर्मदासुन्दरीकथा । महेन्द्रसूरिः पृ. ५४ [६०] सूरिणेयं प्राकृतकथा स्वशिष्याभ्यर्थनया विरचिता । प्रथमा प्रतिश्च प्रथमाचार्यस्य शिष्येण गणिशीलचन्द्रेण लिखिता । शीलमाहात्म्यमत्र वर्णितम् । कथावस्तु शीलोपदेशमालावृत्यादौ (शीलत० पृ. २९८-३१६) दर्शितं तदेव ।
सं. १२१६ नेमिनाथचरित्रम् । हरिभद्रसूरिः क्र. २३२ अष्टसहस्रश्लोकपरिमितं प्राकृतापभ्रंशभाषानिबद्धमेतच्चरितं कुमारपालराज्येऽणहिल्लपाटके नगरे वटगच्छीयजिनचन्द्रसूरिशिष्यश्रीचन्द्रसूरिशिष्येण हरिभद्रसूरिणा व्यरचीति स्वयमत्र समसूचि । अयं सूरिवर्योऽन्यत्र स्वस्य चतुर्विशतिजिनचरितरचयितृत्वं प्रतिपादयति स्म । तन्मध्यात् मल्लि. चरितं, चन्द्रप्रभचरित्रं चोपलभ्यतेऽपि तत् तु पत्तनसूचिपत्रे सूचयिष्यते। [सं. १२७६] पार्श्वनाथचरित्रम् । माणिक्यचन्द्रः क्र. ३३ [P. P. ३।१५७]
राजगच्छीयसागरेन्दुसूरिशिष्यः प्रौढप्रतिभोऽयं सूरिरिदं भिनमालवंशीयश्रेष्ठिदेहडस्य प्रा. र्थनया प्रणिनाय।
१ 'चन्द्रप्रभचरितं प्रा० याशोदेवम् ६४००-६० २ 'गुरुभ्रातृयशोदेवोपाध्यायज्ञातशास्त्रार्थः'-क्षेत्रस. कृ. सिद्धसूरिः । ३ 'नेमिचरितं प्रा० १२१६ वर्षे हरिभद्राचार्यैः कृतम् ८०३२'-६० ४ "पसरियजसपडहारवनच्चाविय कित्तितरुणिरयणस्स ।
असरिसगुणमणिनिहिणो पहुणो सिरिचंदसूरिस्स ॥ चउवीसइजिणपुंगवसुचरियरयणाभिरामसिंगारो।
एसो. विणेयदेसो जाओ हरिभद्दसूरि त्ति ॥"-प्रा० चन्द्रप्रभचरित्रप्र० ५ 'पार्श्वचरितं सं. माणिक्यचन्द्रसूरिकृतं १२७६ वर्षे ५२७८' -बृ० "रसर्षिरविसङ्ख्यायां समायां दीपपर्वणि । समर्थितमिदं वेलाकूले श्रीदेवकूपके ॥"-P. P. ३१६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org