SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ जैनधर्मकथा-चरितानुयोगः] ५३ देवेन्द्र-धर्मकुमार-प्रभाचन्द्र-बालचन्द्र-मानतुज-मुनिदेव-रसप्रभ-विनयचन्द्रादीनां कवीनां नैककाव्यानि विशदीकृतानि, सं. १३२४-३८ वर्षे समरादित्यसंक्षेप-प्रबैज्याविधानवृत्यादीनि नैकग्रन्थरनानि च स्वयं प्रणीतानि । P. P. ११४ इत्यत्रास्य काव्यस्य कर्ता देवसूरिनिर्दिष्टः, तमुल्लेख दृष्ट्वाभ्रान्त्याऽन्यैरपि तथैवान्यत्र दर्शितम् , किन्तु न तत् समीचीनम् ; नात्र मुनिपदं विशेषणरूपम्, एतद्वन्थकृतोऽन्यकृती तथाऽन्यैरपि तत्समकालीनपाश्चात्य विद्वद्भिरस्य 'मुनिदेव' इत्येव नाम प्रादर्शि। एतदद्भुतं काव्यं दृष्ट्वा सं. १४१० वर्षे मुनिभद्रसूरिणा नूतनं शान्तिचरितकाव्यं रचितम् । प्रन्थकारोऽयं वादिदेवसूरिसन्तानीयमदनचन्द्रसूरिशिष्यः । अनेन धर्मोपदेशमालावृत्यादयो नैके प्रन्था विरचयाञ्चक्रिरे । प्रधुम्नसूरिकृतायाः प्रव्रज्याविधानवृत्तेः प्रथमा प्रतिरनेनालेखेिं । सं. १३३४ पुण्यसारकथानकम् । विवेकसमुद्रगणी पृ. ५६ अल्पीयान् दानविषयकोऽयं कथाग्रन्थः । कथाकारोऽयं जिनपतिसूरिपट्टधरजिनेश्वरसूरेः शिष्यः । सं. १३८३ वर्षे रचितायां चैत्यवन्दनकुलकवृत्तौ जिनकुशलसूरिरिमं स्वविद्यागुरुत्वेन वर्णयति स्म । जैनग्रन्थावल्यामस्य तपागच्छीयसोमसुन्दरसूरिशिष्यता षोडशशताब्दीप्रारम्भे च सूचिता सत्ता विचारासहा प्रतिभाति । जिनप्रबोधसूरिणेयं कथा विशोधितेत्यन्न प्रोक्तम् । सं. १३२८ वर्षे येन कातनवृत्तिदुर्गपदप्रबोधो विनिर्मितः, पूर्व प्रबोधमूर्तिनामा स एव जिनप्रबोधसूरिरत्राभिज्ञायते । अन्यत्र ही. H. सू. सम्यक्त्वालङ्कारग्रन्थस्य कर्तृत्वेनास्य नाम निरदेशि । त्रिषष्टिशलाकापुरुषचरित्रम् (गद्यम्) क्र. १७४ एतत् केन कृतमिति स्पष्टं न ज्ञायते । शान्तिनाथचरित्रावधि खण्डरूपमेतत् । सुप्रसिद्धहेमसूरिकृतपत्रिषष्टिचरितमनुसृत्यास्य निर्माणमित्येतत्प्रारम्भश्लोकविलोकनेन स्पष्टं व्यज्यतेऽतो ग्रन्थकर्तुरस्य समयस्तदनन्तरमिति स्फुटम् । 'कर्पूरप्रकर'नाना सुप्रसिद्धायाः सूक्तावल्याः कर्ता हरिकवीश्वरः स्वग्रन्थप्रान्ते निजगुरुं वज्रसेनसूरि 'त्रिषष्टिसारप्रबन्धकर्तृरवेन स्मरति स । अयं वज्रसेनसूरिनागपुरीयतपागच्छीयश्चर्तुदशशताब्धामासीदिति पट्टावल्या समुपलब्धशिलालेखादिना च ज्ञायते । वज्रसेनरिकृतमेतदथवाऽन्यकर्तृकमिति न निश्चीयते । १ 'श्रीशान्तिवृत्तचैत्यस्थपतिर्धर्मोपदेशमालायाः। एतां रचयति विवृतिं श्रीमान् मुनिदेवमुनिदेवः ॥"-धर्मोपदेशमालावृ० मुनिदेवसूरिः । २ 'पूज्यश्रीमुनिदेवसूरिरचितश्रीशान्तितीर्थेश्वर प्रख्याताद्भुतकाव्यदर्शनतया काव्यं मयेदं कृतम्'-शान्ति० मुनिभद्रसूरिः । ३ "श्रीदेवानन्दविष्यश्रीकनकप्रभशिष्यकः । समरादित्यसंक्षेपकर्ता वृत्तिमिमां व्यधात् ॥ वादीन्द्रदेवसूरेवंशे श्रीमदनचन्द्रगुरुशिष्यः। प्रथमादर्शेऽदर्शयदेतां मुनिदेवमुनिदेवः ॥"-प्रवज्याविधानवृत्तिः । ४ "सन्मौक्तिकस्तबकसेव्यपदोऽनुवेलमस्ताघसंवरधरः कुपथप्रमाथी । विद्यागुरुर्मम विवेकसमुद्रनामोपाध्याय इद्धतररत्ननिधिर्बभूव ॥" -चैत्यवन्दनकुलकवृत्तिप्र. ५ "श्रीवज्रसेनस्य गुरोस्त्रिषष्टिसारप्रबन्धस्फुटसद्गुणस्य । शिष्येण चके हरिणेयमिष्टा सूक्तावली नेमिचरित्रका ॥”-कर्पूरप्रकरप्र० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy