Book Title: Jagat Ane Jain Darshan
Author(s): Vijayendrasuri
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 9
________________ * सजातीयो विजातीयो वा पूर्व स्वस्वगुणकर्माणि विस्मृत्य पातित्यमलब्ध तस्य स्त्रमुद्धर्तु परान् वा समुर्द्धर्तु पूर्णोऽधिकारः । यत आत्मोद्धारस्याधिकारो न चैकस्यैव कस्यचित् पुरुषस्य समाजस्य वाऽधीनः, किन्तु सर्वेषामेव प्राणिनाम् । कश्चिदपि पुरुषो यदि नैजान दुर्गुणान् दुष्कर्माणि च परित्यज्य सद्गुणी सुकर्मण्यो वा बुभूषति तर्हि स पुनर्निजोद्धारं किं न कुर्यात् १ । यदैव हेयगुणकर्माणि विहाय तस्मिन् जने शुद्धता समायाति तदा तस्मिन्नार्यत्वमप्यायाति । आर्यशब्देन कश्चित् समाजः सम्प्रदायो वा न ममाभिप्रेतः किन्तु धर्मान् निरस्य यः कोऽपि सद्गुणसुकर्माणि स्वीकरोति स एवाऽऽर्यपदव्यपदेशभाक् । स च यस्मिन् कस्मिन्नपि समाजे संप्रदाये जातो वा तिष्ठतु सद्भिराऽऽर्य एव गण्यते । संसारे सर्व एव मनुष्याः सद्गुणसुकर्मभाजो भवन्त्वार्याः, निजोद्धारं च विदधतु इति मम हार्दिकमभिलषितमेतावदेव अभिधाय विरम्यते मया । श्रीमन्तो भवन्तः सहावधानेन यन्मम भाषणमाण्वन् तदमहं धन्यवादान् दिशामि । गुरुकुल वृन्दावन ता० २४-१२-२३ धर्म सम्वत् २. } ॐ शान्तिः शान्तिः सुशान्तिः । विजयेन्द्रसूरिः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68