Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
क
दुपेरुपान्त्यस्य णौ ऊदा । चित्तं दूषयति दोषयति वा कामः । चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् प्रज्ञा दूषयति दोषयति था। गोहः स्वरे । निगृहयति ॥ श्वेर्वा ।।४।१। ८९ ॥ सस्वरान्तस्था ङपरे सन्परे च णौ विषये यवत् । अशुशवत् । अशिश्वयत् । विषयविज्ञानादन्तरङ्गमपि वृद्धयादिकं वृता बाध्यते कृते च तस्मिन् वृद्धिः । तत आवादेश उपान्त्यहस्वत्वम् । ततो णिकृतस्य स्थानिवत्वात शोदित्वम् । ततः पूर्वस्य दीर्घ इति क्रमः । स्वपेर्यक्डे च । असूघुवत् । अतिरीब्लीहीक्नूयीक्ष्माय्यातां पुः। अर्पयति । रेपयति । ग्लेपयति । हेपयति ॥ य्वोः प्वय्ख्यञ्जने लुक ॥४।४।१२२ ॥ पुग्रहणमप्रत्ययार्थम् । क्नोपयति । मापयति । वर्जनं किम् ? । क्नूय्यते । प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणादिह न । वश्चकः ॥णौ क्रीजीङः ॥ ४।२।१०।। आकारोऽन्तः । क्रापयति । जापयति। अ. ध्यापयति ॥ णौ सन्डे वा ॥४।४ । २७ ॥ इडो गाः । अध्यजीगपत् । अध्यापिपत् । णाविति किम् ? । अधिजिगांसते । सनङ इति किम् ? । अध्यापयति ।सिध्यतेरज्ञाने ॥ ४ ॥२॥११॥ णौ स्वरस्याकारः । अनं साधयति निष्पादयतीत्यर्थः । अज्ञान इति किम् ? । तपस्तपस्विनं सेधयति । साधिनैव सिद्ध सिध्यतेरज्ञाने सेधयतीति प्रयोगनिवृत्यर्थ वचनम् ॥ चिस्फुरोन वा ॥४॥२॥१२॥ णौ स्वरस्यात् । चापयति ।चाययति । स्फारयति । स्फोरयति । चियः प्रजने ॥४।२।१३ ॥ णौ वाऽऽत्वम् । प्रजनो गर्भग्रहणम् । पुरो वातो गाः प्रवापयति । वाययति । गर्भ ग्राहयतीत्यर्थः । वातेः प्रजने वृत्तिर्नास्तीत्यारम्भः ॥ रुहः पः॥ ४।२।१४॥ णौ वा । रोपयति रोहयति वा तरुमारोहत्यर्थे रुप्यति स्तीत्यारम्भःलियो नोऽन्तः इति ने, घृतं विलीनयति । विलाययति । आत्वे तु विकालयति । विलापयति ॥पातेः॥४।२।१७|| लोऽन्तः । पालयति । पलण रक्षणे इत्यनेनैव सिद्धे पाययतीति प्रयोगनिवृत्यर्थ वचनम् । विनिर्देशात्पा पान इत्यादादिकस्य न । यङ्लनिवृत्त्यर्थश्च सः । पापाययति ॥ वो विधूनने जः॥४।२।१९ ॥ णावन्तः । पक्षकेण उपवाजयति । अवीवजत् । विधूनन इति किम् ? । ओर्वे, उच्चैः
SAR AC%

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540