Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 454
________________ हेमप्रभा-* ॥६५॥ सातत्यम् । बस्तनीश्वस्तन्यो प्रतिषेधोऽयम् । यावज्जीवं भृशमन्नमदादास्यति वा। आसत्तिः सामीप्यम् । बच्च सजातीयेन फालेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावतिष्ट । येयं पौर्णमास्यागामिनी एतस्यां जिनमहः प्रवर्तिष्यते । बौ प्रतिषेधौ यथाप्राप्तस्याभ्यनुज्ञानाय । केचित्तु अनद्यतनविशेषविहितानामपि परोक्षादीनां प्रतिषेधमिच्छन्ति ॥ एष्यत्यवधौ देशस्यार्वाग्भागे ॥५।४।६ ॥ देशस्य योऽवधिस्तदाचिन्यु लत्याद्यर्थ पपदे देशस्यैवार्वागभागे य एव्यन्नर्थस्तत्र वर्तमानाहातोरनद्यतनविहितः प्रत्ययो न । अप्रबन्धार्थमनासत्यर्थं च सूप्रम् । यद्यप्यनद्यतन इति प्रकृतं तथापीहैष्यतीति वचनात् श्वस्तन्या एव निषेधः। योऽयमध्वा गन्तव्य आशयात् तस्य यदवरं वलभ्यास्तत्र बिरोदनं भोक्ष्यामहे । द्विः सक्तून् पास्यामः । एष्यतीति किम् ? । योऽयमध्वाऽतिक्रान्त आ शत्रुभयात् तस्य यदवरं वलभ्यास्तत्र युक्ता द्विरध्यैमहि । अवधाविति किम् ? । योऽयमध्वा निरवधिको गन्तव्य. स्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे । अग्भिाग इति किम् ? । योयमध्वा गन्तव्य आ शञ्जयात् तस्य यत्परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे । द्विःसक्तून् पातास्मः ॥ कालस्यानहोरात्राणाम् ॥ ५।४।७॥ कालस्य योऽवधिस्तदाचिन्युपपदे कालस्यैवाग्भिागे य एष्यन्नर्थस्तत्र वर्तमानादातोरनघतनविहिता प्रत्ययो न, न चेसोऽर्वाग्भागोऽहोरात्राणाम् । योऽयमागामी संवत्सरस्वस्य यदवरं आग्रहायण्यास्तत्र जिनपूजां करिष्यामोऽतिथिभ्यो दानं दास्यामहे । एष्यतीत्येव । योऽयं संवत्सरोऽतीतस्तत्र यदवरमाग्रहायण्यास्तत्र युक्ता द्विरध्येमहि । अनहोरात्राणामिति किम्?योऽय मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्रयुक्ता द्विरध्येतास्महे । योगविभाग उत्तरार्थःगापरे वादा कालस्य योऽवधिस्तद्वाचिन्युपपदे काकस्यैव परे भागेऽनहोरात्रसम्बन्धिनि य एष्यन्नस्तत्र वर्तमानाडातोरनयान विहितः प्रत्ययो न । आगामिनः संवत्सरस्याग्रहायण्याः परस्तात् हिःसूत्रमध्येष्यामहे अध्येतास्महे । प्रबन्धासत्तिविवक्षायामपि ॥६५॥ परत्वादयमेव विकल्पः । आगामिनः संवत्सरस्याग्रहायण्याः परस्तादविच्छिनं सूत्रमध्येष्यामहे अध्येतास्महे ॥ भूते ॥

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540