Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 443
________________ परिमोहयति वा । स्वं यज्ञ यजते यजति वा । स्वां गां जानीते जानाति वा । स्वं पुत्रमपवदते अपवदति वा । स्वान् ब्रीहीन् संयच्छते संयच्छति वा ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासि. संविग्नशाखीयतपोगच्छाचार्यभहारकश्रीविजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां आत्मनेपदप्रक्रिया॥ ॥अथ परस्मैपदप्रक्रिया ॥ शेषात्परस्मै ॥ ३ । ३।१०॥ भवति ॥ परानोः कृगः ॥ ३ । ३ । १०१॥ कर्तरि परस्मैपदम् । गन्धनादौ फलवति च कर्तरि प्राप्तस्यात्मनेपदस्यापवादोऽयम् । पराकरोति । अनुकरोति । कथं गङ्गामनु कुरुते तप इति । नात्र करोतिरनुना संबध्यते ॥ प्रत्यभ्यतेः क्षिपः॥३।३ । १०२ ॥ प्रतिक्षिपति । अभिक्षिपति । अति क्षिपति बटुम् ॥ प्रावहः॥३।३ । १०३ ॥ कर्तरि परस्मैपदम् । प्रवहति । परेमषश्च ॥ ३ । ३।१०४॥ वहः कर्त्तरि परस्मैपदम् । परिमृष्यति । परिवहति । बहनेंच्छन्त्यन्ये । व्यापरे रमः ॥ ३।३।१०५॥ कत्तरि परस्मैपदम् । विरमति । आरमति । परिरमति ॥ वोपात् ॥३।३।१०६ ॥ भार्यामुपरमति उपरमते वा। अन्तर्भूतणिगर्थोऽत्र रमिः । उपसम्माप्तिपूर्विकायां रतौ वा वर्त्तते । उपरमति उपरमते वा सन्तापः। उपाद्रमः सकर्मकात्परस्मैपदमेवेत्येके । आत्मनेपदमेवेत्यन्ये । अणिगिप्राणिकर्तृकानाप्याण्णिगः ।। ३।३।१०७॥ कर्तरि परस्मैपदम् । आवासयति चैत्रम् । अणिगीति किम् ? । स्वयमेवारोहयमाणं हस्तिनं प्रयुक्ते आरोहयते । अणिगिति गकारः किम् ? । चेतय मानं प्रयुख्यते चेतयतीति । प्राणिकर्तृकेति किम् ? । शोषयते ब्रीहिनातपः । इह प्राण्योपधिवक्षेभ्य इति पृथग्निर्देशाIM लोके प्रतीता एव माणिनो गृह्यन्ते । अनाप्यादिति किम् ? । कट कारयते ॥चल्याहारार्थबुधयुधमुद्रुमुनश्जन 131 SHRA

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540