Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
भू ३ । काव्यम् ३ । राजादिराकृतिगणः ॥ अर्हतस्तो न्त् च ॥ ७ । १ । ६१ । तस्य भावे कर्मणि च टचगू | आ ६न्त्यम् | अर्हन्ती । अश्वम् । आईत्ता ।। सहायावा || ७ | १ | ६२ ॥ तस्य भावे कर्मणि च यण् । साहायम् । पक्षे साहायकम् । माक्त्वादिति त्वतलौ सहायत्वम् । सहायता ॥ मस्विवणिग्दूतायः ॥ ७ । १ । ६३ ॥ तस्य भावे कर्मणि च । सख्यम् । सखित्वम् । सखिता । वणिज्या । वणिज्यम् । वणिक्त्वम् । वणिक्ता । वाणिज्यम् । दूत्यम् । दूतत्वम् । दूतता । दौत्यम् ॥ स्तेनान्नलुक् च ॥ ७|१|६४ ॥ तस्य भावे कर्मणि च यः । स्तेयम् ४॥ कपिज्ञातेरेयण् ॥ ७ । १ । ६५ ।। तस्य भावे कर्मणि च । कापेयम् । कपिता कपित्वम् । ज्ञातेयम् । ज्ञातित्वम् । ज्ञातिता ॥ प्राणिजातिवयोऽर्थादम् ॥ ७ । १ । ६६ ॥ तस्य भावे कर्मणि च । आश्वम् ३ । कौमारम् ३ ॥ युवादेरन् ॥ ७ । १ । ६७ ॥ तस्य भावे कर्मणि च । यूनो लिंगविशिष्टस्य ग्रहणाद् युवते भावः कर्म वा यौवनम् । युवत्क्म । युवता । स्थाविरम् । स्थविरश्यम् । स्थविरता ॥ हायनान्तात् ।। ७ । १ । ६८ ।। द्वैहायनम् ३ । द्विहायनत्वम् द्विहायता । वयसि तु पूर्वेणाम् || वृवर्णाल्लध्यादेः ॥ ७ । १ । ६९ ।। तस्य भावे कर्मणि चाण । शौचम् ३ । हारीतकम् ३ । पाटवम् ३ । वाधवम् ३ । पैत्रम् ३ । लघ्वादेरिति किम् ? । पाण्डुत्वम् । पुरुषहृदयादसमासे ॥ ७ ॥१॥ ७० ॥ तस्य भावे कर्मणि चाणू || पौरुषम् ३ । हार्दम् ३ । असमास इति किम् ? । परमपुरुषत्वम् । परमपौरुषमिति मा भूत् ॥ श्रोत्रियाद्य लुक् च ॥ ७ । १ । ७१ ॥ तस्य भावे कर्मणि चाण् । श्रौत्रम् । श्रोत्रियत्वम् । श्रोत्रियता । | चौरादिपाठादकमपि । श्रोत्रियकम् ॥ योपान्त्या गुरूपोत्तमाद सुप्रख्यादकम् ॥ ७ । १ । ७२ ॥ तस्य भावे कर्मणि च । अन्त्यस्य समीपमुपोत्तमम् । रामणीयकम् । रमणीयत्वम् । रमणीयता । गुरुग्रहणादनेकव्यञ्जनव्यवधानेऽपि भवति । आचार्यकम् । गुरूपोत्तमादिति किम् ? | क्षत्रियत्वम् । कायत्वम् । असुमख्यादिति किम् ? । सुप्रख्यत्वम् । सौख्यम् || चौरादेः ॥ ७ । १ । ७३ ॥ तस्य भावे कर्मणि चाकसू । चौरिका । चौरत्वम् । चौरता । एवं धौर्ति

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540