Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 426
________________ हेम ५. पक० वस्त्रेण वा समाच्छादयति संवस्त्रयति । वस्त्रं परिदधाति परिवस्त्रयति । तृणान्युत्प्लुत्य शातयति उत्तणयति । हस्तिनातिक्रामति हस्तयति । एवमत्यश्वयति । वर्मणा संनह्यति संवर्मयति । वीणयोपगायत्युपवीणयति । सेनयाऽभियायात्यभिषेणयति । चूर्णैरवध्वंसयति अवकिरति वा अवचूर्णयति । तूलैरनुकुष्णाति अबकुष्णति अनुगृह्णाति वा अनुतूळयति अवतू यति । वास्या छिनत्ति वासयति । एवमसिना असयति। वास्या परिच्छिनत्ति परिवासयति। वाससो. न्मोचयति उदासयति । परशुना परशयति । श्लोकैरुपस्तौति उपश्लोकयति । हस्तेनापक्षिपति अपहस्तयति । अश्वेन संयुनक्ति समश्वयति । गन्धेनार्चयति गन्धयति । एवं पुष्पयति । बलेन सहते बलयति । शीलेनाचरति शीलयति । एवं सामयति । सान्त्वयति । छन्दसोपचरति उपमंत्रयते वा उपच्छन्दयति । पाशेन संयच्छति। संपाशयति । पाशं पाशाद्वा विमोचयति विपाशयति । शूरो भवति शूरयति । वीर उत्सहते वीरयति । कूलमुल्लड्डयति उत्कूलयति । कूलं प्रतीपं गच्छति प्रतिकूलयति । कलमनुगच्छति अनुकूलयति । कोष्टानवमर्दयति अवलोष्टयति । पुत्रं सूते पुत्रयति इत्यादि । आख्यानं नलोपाख्यानं कंसवध सीताहरण रामप्रव्रजनं राजागमनं मृगरमणं आरात्रिविवासमाचष्टे इत्यादिषु इन्द्रियाणां जयं क्षीरस्य पानं देवानां यागं धान्यस्य क्रयं धनस्य त्यागमोदनस्य पाकं करोतीत्यादिषु च बहुलवचनान्न यत्रानेकविशेषणविशिष्ट क्रिया प्रत्ययार्थस्तत्र क्रियाविशेषाभिव्यक्तये उपसर्गप्रयोग आवश्यकः। यथा विपाशयति सम्पाशयतीति । एकविशेषणविशिष्टक्रियायाः प्रत्ययार्थत्वे तु नैवम्, सन्देहाभावात् । यथा श्येनायते । एवम् प्रत्ययस्यानेकार्थत्वेऽपि अर्थविशेषाभिव्यक्त्यर्थमुपसर्गप्रयोगः यथा अतिहस्तयति । अनेकोपसर्गविशिष्टक्रियायाः प्रत्ययार्थत्वे शब्दशक्तिस्वाभाव्यादेक एवोपसर्गार्थः प्रत्ययार्थेऽन्तर्भवति द्वितीयस्तूपसर्गेणेव प्रत्याय्यते । यथा भाण्डानि समाचिनोति सम्भाण्डयते ॥"विन्मतोर्णीष्ठेयसौ लुप्" इति लुपि स्रग्विणमाचष्टे स्रजयति । पयस्विनीं पययति । विन्मतोलुप्यनेकस्वरस्यान्त्यस्वरादे के विकल्पनेच्छन्त्येके । लुगभावपक्षे णौ गुणं च । पयसयति २॥ त्वग्वन्तं वचयति । वमुमन्तं वसयति । 8955 16HUSAUR 36+

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540