Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 433
________________ तिष्ठतीत्यर्थः । उपलम्भन इति किम् ? | मैत्रं शपति। आक्रोशतीत्यर्थः । "आशिषि नाथः || ३|३|३६||” सर्पिषो नाथते । गो गतताच्छील्ये || ३ | ३|३८|| कर्त्तर्य्यात्मनेपदम् । गतं प्रकारः सादृश्यम् । ताच्छील्यमुत्पत्तेः प्रभृत्या विनाशात्तत्स्वभावता । पैतृकमश्वा अनुहरन्ते । मातृकं गावः । पितुरागतं मातुरागतं गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलयन्तीत्यर्थः । एवं पितुरनुहरते । पितरमनुहरते । गतेति किम् ?। पितुर्हरति । ताच्छील्य इति किम् ? | नटो राममहरति । यद्वा गतं गमनम् । तस्य पित्रादेः शीलमस्य तच्छीलस्तस्य भावस्ताच्छील्यम् । गतेन ताच्छील्यं गतताच्छील्यम् । पैतृकमश्वा अनुहरन्ते । पितुरागतं गमनमविच्छेदेन शीलयन्तीत्यर्थः। गतताच्छील्य इति किम् ? | धर्मान्तरेण पितरमनुहरन्ति । अथवा गते गमने ताच्छील्ये चेत्यर्थः । पैतृकमनुहरन्ते तद्वद्गच्छन्ति शीळन्ति वेत्यर्थः ॥ पूजाचार्य - कभृत्युत्क्षेपज्ञान विगणनव्यये नियः || ३|३|१९|| पूजाचार्यकभृतिषु यथासंख्यं कर्मकर्तृकधात्वर्थविशेषणेषु गम्यमानेषु उत्पाद धात्वर्थेषु नयतेः कर्त्तर्य्यात्मनेपदम् । नयते विद्वान् स्याद्वादे । जीवादीन् पदार्थान् युक्तिभिः स्थिरीकृत्य स्याद्वादे शिष्यबुद्धिं प्रापयतीत्यर्थः । ते युक्तिभिः स्थिरीकृताः पूजिता भवन्ति । माणवकमुपनयते । स्वयमाचार्यो भवन्नध्ययनायात्मसमीपं प्रापयतीत्यर्थः । कर्मकरानुपनयते । वेतनेनात्मसमीपं प्रापयतीत्यर्थः । शिशुमुदानयते । उत्क्षिपतीत्यर्थः । तवार्थे नयते । प्रमेयं निश्चिनोतीत्यर्थः । प्रमेयनिश्चयो ज्ञानम् । विगणनमृणादेः शोधनम् । कारं विनयन्ते । राजग्राह्यं भागं दानेन शोधयन्तीत्यर्थः । व्ययो धर्मादिषु विनियोगः । शतं विनयते । तीर्थादिषु धर्म्माद्यर्थ वि नियुङ्क्ते इत्यर्थः । एष्विति कि ? | अजां नयति ग्रामम् | अफलवदर्थं आरम्भः ॥ कर्तृस्थामूर्त्ताप्यात् ॥ ३ ॥३॥ ४० ॥ नियः कर्त्तर्यात्मनेपदम् । श्रमं विनयते । अपनयतीत्यर्थः । कर्तृस्थेति किम् ? । चैत्रो मैत्रस्य मन्युं विनयति । अ कि ?' | गईं नियति | आध्येति किम् ? । बुद्ध्या विनयति । श्रमापगमादेः फलस्य कर्तृसमवायित्वादात्मनेपदे सिद्धे नियमार्थ वचनम् । व्यवच्छेद्यं च मत्युदाहरणम् । शमयतिक्रियावचनादेव च नयतेरात्मनेपदं दृश्यते न

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540