Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 492
________________ प्रभा ॥२१९॥ गिरेर्य आभिजनो निवासस्तदर्थात्स्यन्तात् षष्ठयर्थेऽस्राजीवे ईयः । हृद्गोलीयः । गिरेरिति किम ! । सांकाश्यकोsस्त्राजीवः । अत्राजीव इति किम् ? । आक्षदो ब्राह्मणः । पार्थिवः ॥ इति शैषिकाः ॥ इक ॥। ६ । ४ । १ । आपादान्तायदनुक्तं स्यात्तत्रायमधिकृतो ज्ञेयः ॥ तेन जितजयद्दीव्यत्खननु ॥ ६ । ४ । २ ।। इक । आक्षिकम् | आक्षिकः । अभ्रिकः । इह तेनेति करणे तृतीया नान्यत्रानभिधानात् तेन देवदत्तेन जितं धनेन जितमित्यत्र न । बहुवचनं पृथगर्थताभिव्यक्त्यर्थम् ॥ संस्कृते ॥ ६ | ४ | ३ || टान्तादिकण् । दाधिकम् । वैधिकम् | योगविभाग उत्तरार्थः ॥ कुलत्थकोपान्त्यादण् ।। ६ । ४ । ४ । तेन संस्कृते । कौलत्थम् । तैत्तिडीकम् ॥ संसृष्टे ।। ६ । ४ । ५ ।। टान्तादिकण् । दाधिकम् ॥ लवणादः ।। ६ । ४ । ६ ॥ तेन संसृष्टे । लवणः सूपः ॥ चूर्णमुद्गाभ्यामिनणौ । ६ । ४ । ७ ॥ तेन संसृष्टे । चूर्णिनोऽपूपाः । मौही यवागूः ॥ व्यञ्जनेभ्य उपसिक्ते || ६ | ४ | ८ || टान्तेभ्य इकण् । तैलकं शाकम् । उपसिक्तं संसृष्टमेव तत्र संसृष्ट इत्येव सिद्धे नियमार्थ वचनम् । व्यञ्जनैः संसृष्टे उपसिक्त एव उपसिक्ते च व्यञ्जनैरेव ॥ तरति ॥ ६ । ४ । ९ ॥ यन्तादिकण् । औडपिकः ॥ नौद्विस्वरादिकः । ६ । ४ । १० ॥ टान्तात्तरति । नाविकः । बाहुका स्त्री ॥ चरति ।। ६ । ४ । ११ ।। टान्तादिकण् | दास्तिकः । दाधिकः ॥ पर्पादेरिकट् । ६ । ४ । १२ ।। टान्ताच्चरति । पर्षिकी । अश्विकी ॥ पदिकः । ६ । ४ । १३ || पादाच्चरतीकट् पच्चास्य | पदिकः ॥ श्वगणाद्वा ।। ६ । ४ । १४ ।। चरतीकट् । श्वग णिकी । श्वगणिकः ॥ वेतनादेर्जीवति ॥ ६ । ४ । १५ ।। टान्तादिकण् । वैतनिकः । वाहिकः ॥ व्यस्ताच क्रयविक्रयादिकः || ६ | ४ | १६ || समस्तात् तेन जीवतीकः । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥ वस्नात् ।। ६ । ४ । १७ ।। तेन जीवतीकः । वस्निकः ॥ आयुधादीयश्च ।। ६ । ४ । १८ ॥ तेन जीवतीकः । आयुधीयः । आयुधिकः ॥ व्रातादीनञ् ।। ६ । ३ । १९ ।। तेन जीवति त्रातीनाभार्यः ॥ निर्वृत्तेऽक्षद्यूतादेः ॥ 1 तडि प्रक० ८४

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540