Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
हेम
५४
1
धातुकार्यमियादेशः । अत एव च ज्ञापकात् प्रकृतिवदनुकरणे कार्यं भवति । तेन मुनी इत्याह द्विष्पचतीत्याप्रकृतिभावत्वविकल्पादि सिध्यति । परावेर्जेः ॥ ३ । ३ । २८ ॥ उपसर्गात्कर्तर्यात्मनेपदम् । पराजयते । उपसर्गादित्येव । सेना पराजयति । बहु विजयति वनम् । समः क्ष्णोः ॥ ३ । ३ ॥ २९ ॥ कर्त्तर्य्यात्मनेपदम् । संक्ष्णुते - खम् । सम इति किम् ? । क्ष्णैति । उपसर्गादित्येव । आयसं क्ष्णौति । अपस्किरः || ३ | ३ | ३० ॥ अपपूर्वात्किरते: सस्सट्कात्कर्त्तर्य्यात्मनेपदम् । अपाच्चातुष्पात्यक्षिशुनि दृष्टान्नाश्रयार्थे ॥ ४ । ४ । ८५ ।। कर्त्तरि यथासंख्यं किरते: सादिः । अपस्किरते वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयार्थी च । सस्सट्रक निर्देशादिद न । अपकिरति वृषभः । अपेति किम् ? । उपस्किरति । उदश्वरः साप्यात् || ३ | ३ | ३१ ॥ कर्त्तर्य्यात्मनेपदम् । गुरुवचनमुच्चरते । व्युत्क्रम्य गच्छतीत्यर्थः । ग्रासमुच्चरते भक्षयतीत्यर्थः । साप्यादिति किम ? | धूम उच्चरति । ऊर्ध्वं गच्छ तीत्यर्थः ॥ समस्तृतीयया |३|३|३२|| चरतेयगे कर्त्तर्यात्मनेपदम् । रथेन संचरते । तृतीययेति किम् ? । उभौ लोकौ संचरसि । किं त्वं करिष्यसि। रथ्यया संचरति चैत्र इत्यत्र तृतीयान्तेन योगाभावान्न । क्रीडोडकूजने || ३|३| १३|| संपूर्वात् कर्त्तर्यात्मनेपदम् । कूजनमव्यक्तः शब्दः । संक्रीडते । अकूजन इति किम् ? । संक्रीडन्ति शकटानि । अव्यक्तं शब्दं कुर्वन्तीत्यर्थः । अन्वापरेः || ३ | ३ | ३४ ॥ उपसर्गात्क्रीडः कर्तर्यात्मनेपदम् । अनुक्रीडते । आक्रीडते । परिक्रीडते । उपसर्गादित्येव । माणवकमनुक्रीडति । माणवकेन सह क्रीडत इत्यर्थः । धातुना अनोरसम्बन्धाद्वा न भवति । शप उपलम्भने ॥ ३ । ३ । ३५ ।। उपलम्भनं ज्ञापनम् । मैत्राय शपते । मैत्रं कश्चिदर्थं Cataracर्थः । मैत्रवैवंभूतोऽसावित्यन्यस्मै प्रकाशयतीत्येके । अथवा स्वाभिप्रायस्य परत्राविष्करणमुपलम्भनं शपय इति यावत् । मैत्राय शपते । वाचा मात्रादि शरीरस्पर्शनेन स्वाभिप्रायं बोधयतीत्यर्थः । प्रोषितस्य भावाभावोपलकस्यचिदर्थस्यासेवनं चोपलम्पनम् । मैत्राय शपते । प्रोषिते मैत्रे तस्य भावाभावे चोपलब्धे तदनुरूपं किञ्चिदनु.
1
कण्ड्
प्रक०
५४

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540