Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 442
________________ हेमप्रभा॥५९॥ बिभेतेषु च ॥ ३ । ३ । ९२ ॥ प्रयोक्तुः स्वार्थे वर्तमानाण्यन्तात्कर्त्तर्यात्मनेपदम्, पक्षेऽन्तस्याकारश्चाकर्त्तर्यपि । मुण्डो भीषयते । मुण्डो भापयते । प्रयोक्तुः स्वार्थ । इत्येव कुञ्चिकया भाययति । अकर्त्तर्यपीत्येव । भीषा । भापनम् । तिनिदेशावपि न ॥ मिथ्याकृगोऽभ्यासे || ३ | ३ । ९३ ।। णिगः कर्त्तयत्मनेपदम् । अभ्यासः पुनः पुनः क्रियाभ्यावृत्तिः । पदं मिथ्या कारयते । स्वरादिदोषदुष्टमसकृदुच्चारयतीत्यर्थः । आत्मनेपदेन क्रियाभ्यावृत्तेद्यतितत्वादाभीक्ष्ये द्विर्वचनं नेति केचित् । मिथ्येति किम् ? । पदं साधु कारयति । अभ्यास इति किम् ? । सकृत्पदं मिथ्या कारयति ॥ परिमुहायमायस पाद्र्धेवदव सदमादरूचनृतः फलवति ॥ ३ । ३ । ९४ ॥ णिगन्तात्कर्त्तर्यात्मनेपदम । फलवतीति भूम्न्यतिशायने वा मतृस्तेन फलं प्रधानं ग्राह्यं यदर्थमियमारभ्यते । परिमोहयते चैत्रम् | आयमयते सर्पम् । आयासयते मैत्र । पाययते बटुम् । धापयते शिशुम । वादयते शिशुम् । वासयते पान्थम् । दमयतेऽश्वम् । आदयते चैत्रेण । अदेर्नेच्छन्त्यन्ये । रोचयते मैत्रम् । नर्त्तयते नटम् । पिबत्यत्तिट्धेधातूनामाहारार्थत्वादौदासीन्यनिवृत्यर्थतायामकर्मकत्वाच्च नृतेश्चलनार्थत्वाच्च शेषाणां स्वरूपतो विवक्षातो वाऽकर्मकत्वादुत्तरसूत्राभ्यां परस्मैपदे प्राप्ते वचनम् । पावसोभवादिकयोरेवग्रहणम् । वदसाहचर्यात् " || ईगितः ||३३|९५ ||" यजते । कुरुते ॥ ज्ञोऽनुपसर्गात् ॥ ३॥ ३ । ९६ ।। फलवति कर्त्तर्यात्मनेपदम् । गां जानीते । अनुपसर्गादिति किम् ? । स्वर्गे प्रजानाति । फलवतीत्येव । परस्य गां जानाति । अकर्मकात् पूर्वेण सिद्धे सकर्मकार्थं वचनम् ॥ वदोऽपात् ।। ३ । ३ । ९७ ।। फलवति कर्त्तर्यात्मनेपदम् । एकान्तमवदते । फलवतीत्येव । अपवदति परं स्वभावतः ॥ समुदाङो यमेरग्रन्ये ।। ३ । ३ । ९८ ॥ फलवति कर्त्तर्यात्मनेपदम् । संयच्छते व्रीहीन् । उद्यच्छते भारम | आयच्छते वस्त्रम । अग्रन्थ इति किम् ? । वैद्यश्चिकित्सामुयच्छति । चिकित्साग्रन्थे उद्यमं करोतीत्यर्थः । फलवतीत्येव । संयच्छति परस्य वस्त्रम | पदान्तरगम्ये वा ॥ ३ । ३ । ९९ ।। अनन्तरसूत्र पञ्चकेन यदात्मनेपदमुक्तम् तत्पदान्तरगम्ये फलवति कर्त्तरि वा । स्वं शत्रु परिमोहयते आत्म मकि० ॥५९॥

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540