________________
[अप्रसिद्ध० ले. सं. १३८० ऋषिमण्डलवृत्तिः
क्र. १२६ 'महरिसिकुलक' इत्यपरनामकं मूलमात्रमेतद् धर्मघोषसूरिकृतं P. P. १९३, ३।२४ इत्यत्र दर्शितम् , तदेव । गुर्वावल्यां (पृ. १७-२१) वर्णितः सं. १३५७ वर्षे स्वर्गामी सङ्घाचारवृत्यादिविधाताऽयं सूरिन प्रतिभाति, किन्तु सिद्धराजसमकालीनोऽन्यो वा (पृ.१०) सम्भाव्यते । वृत्तयोऽस्य ग्रन्थस्य बढ्यो वर्तन्ते, किन्तु तासु प्राचीनाऽञ्चलगच्छीयभुवनतुङ्गसूरिकृता, या बृह. हिपनिकायां दर्शिता, भुवनतुङ्गसूरेविद्यमानता चतुर्दशशताब्यामासीदित्यञ्चलगच्छपट्टावल्यादितो ज्ञायतेऽत इयं वृत्तिस्तस्कृतैव सम्भाव्यते, येनातुरप्रत्याख्यान-चतुःशरणवृत्त्याद्यपि निर्मितम् । मूले दर्शितानां जैनमहर्षीणां चरित्राणि वृत्तौ प्रदर्शितानि ॥
सं. १४०६ अक्षणासुन्दरीचरियम् । गुणसमृद्धिमहत्तरा पृ. ४९ चरितस्यास्य रचना जेसलमेरपुरे । ग्रन्थकी चेयं खरतरगच्छीय जिनचन्द्रसूरिशिष्यः । सम्भ्र. मात् ही. सूच्यां सं. १४७७ वर्षेऽस्या रचना सूचिता । अयं जिनचन्द्रसूरिः जिनलब्धिसूरिशिष्यः; जिनोदयसूरेः, सं. १४११ वर्षे कातन्त्रवृत्तिपञ्जिकालेखयितुः सोमकीर्तेश्च गुरुः सं. १४१५ वर्षे स्वर्गभाग जायते । चरितवस्तुज्ञानार्थ शीलोपदेशमालावृत्तौ (पृ. २८१-२९८) द्रष्टव्यम् ।
सं. १५०३ पृथ्वीचन्द्रचरित्रम् । जयसागरगणिः
एकादशप्रस्तावविभूषितस्यास्य चरित्रस्य रचना प्रादनपुरे समजायत । चरित्रकारस्थास्य जिनराजसूरिक्षागुरुः, जिनवर्धनसूरिर्विद्यागुरुः, जिनभन्दसूरिश्वोपाध्यायपदप्रदाताऽऽसीत् (पृ. ५७)। सत्यरुचिनाम्नः शिष्यस्याभ्यर्थनया रचितेऽमिश्चरित्रे गणिरतचन्द्रः सहायकोऽमवत् । सत्यरुचि-रेनचन्द्रावस्य शिष्यावास्तामिति दर्शितमेतस्कृतायां विज्ञप्तित्रिवेण्याम् (पृ. १७, २१,५५) । सं. १४७३ वर्षे जेसलमेरौ पार्श्वजिनालयप्रशस्तिरनेन गणिना शोधिता (पृ. ६४), शान्तिजिनालयस्य प्रशस्तिश्च विरचिता (पृ. ६६) । सं. १४९७ वर्षे जे० सम्भवजिनालयस्य प्रशस्तिकर्ता वा० सोमकुञ्जरोऽस्य शिष्यः (पृ. ६९); एतदतिरिक्ता मेघराज-स्थिरसंयमादयो नैके शिष्टशिष्या अस्याभवन् । सं. १४७८ वर्षे पर्वरत्नावलीकथा, सं. १४८४ वर्षे विज्ञप्तित्रिवेणिः, तीर्थराजीस्तवनम् , सं. १४८७ वर्षे चैत्यपरिपाटिः, उपसर्गहरस्तोत्रवृत्तिः, जिनदत्तसूरीयगुरुपारतथ्यादिस्तववृत्तिः, भावारिवारणवृत्तिः, सं. १४९५ वर्षे सन्देहदोलावलीलघुवृत्तिः इत्यादिकाऽस्य विदुषः कृतिः समुपलभ्यतेऽनेनास्य पञ्चदशशताब्युत्तरार्धे पोडशशताब्दीप्रारम्भे च विद्यमानता परिस्फुरती प्रौढविद्वत्ता च सम्यग् ज्ञायते । आशापल्लीकोशार्थ सं. १४९५-९७ वर्षेऽनेन लेखितं व्यवहारचूादिपुस्तकमुपलभ्यते । जिनभद्रसूरेग्रन्थसङ्ग्रहालये चानेनापि ग्रन्थलेखनादिना सुसहायताऽकारि।
सं. १६२४ परमहंससम्बोधचरितम् । नयरङ्गः पृ. ५७ [A. S. ८११२]
भष्टप्रस्तावोपेतस्यास्य चरितस्य विरचयिता नयरङ्गो खरतरगच्छीयजिनभन्दसूरिसन्तानीयवा० गुणशेखरस्य शिष्यः । रचनास्थलं बालपताकापुरीति निर्दिष्टमेवान । कथावस्तु स्वत्र जयशेखरसूरिरचितस्य प्रबोधचिन्तामणिग्रन्थस्य प्रतिभाति । १ "भत्तिभर इति ऋषिमण्डलसूत्रम् २०८ । अस्य वृत्तिराञ्चलिकभुवनतुङ्गीया।"-६०
२ एतस्य पठनार्थ सं. १५०१ वर्षे जयसागरोपाध्याय लिखितः क्रियारत्नसमुच्चयः अस्योपदेशेन च सं. १५२१ वर्षे लेखितः सिद्धहैमलक्षणबृहद्वृत्तिकक्षापटग्रन्थः पत्तनभाण्डागारे विद्यते ।
३ एतत्कृतानि जिनभद्रसूरिस्तुतिपराणि नैकानि चित्रकाव्यानि विज्ञप्तित्रिवेण्यां (पृ. ६१-६३) दर्शितानि । सं. १४९५ वर्षेऽनेन स्वगुरुकृतायाः सन्देहदोलावलीवृत्तेः प्रथमा प्रतिलिखिताऽऽसीत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org