________________
जैनेतरकथा, व्याकरणग्रन्थाः] ५५
सं. [१६१]६२ शीलवतीकथा । आज्ञासुन्दरः पृ. ५५ एतत्कथाकर्ता रुद्रपल्लीयगच्छीयः सप्तदशशताब्यां सम्भाव्यते । कथावस्तु शीलतरङ्गिण्या (पृ. ४१३-४३४) विलोकनीयम् । [सं. १८६९] श्रीपालचरित्रव्याख्या । क्षमाकल्याणः पृ. ५६ [ A. ९८४]
भस्या मूलं सवृत्तिकक्षेत्रसमास-गुणस्थानक्रमारोह-गुरुगुणषट्त्रिंशत् षट्त्रिंशिकादिविधात्रा बृहद्गच्छीयवज्रसेनसूरिपट्टधरहेमतिलकसूरिशिष्येण रनशेखरसूरिणा सङ्कलितम् , सं. १४२८ वर्षे तच्छिष्यहेमचन्द्रसाधुना च लिखितमासीत् । उनविंशतिशताब्द्यां विद्यमानोऽयं व्याख्याकार इति सूचितमस्यान्यग्रन्थ-सूक्तरनावलीपरिचये।
जैनेतरकथा। . ले. सं. १२६५ लीलावतीकथा (प्रा०) । भूषणभट्टतनयः क्र. २३७ कर्तुर्नाम नोपलभ्यते । कथाकारस्य पितामहो बहुलादित्यः । एतत्कथारनं विद्वद्भिरज्ञात. पूर्वमेव ज्ञास्यते । एकं जेसलमेरुनगरेऽपरं च पत्तने एवमस्य प्राचीनमादर्शद्वयमेव भारतवर्षे विद्यते इति प्रतिभात्यमाकम् । कविना कथावस्तु त्वतिमनोहरया वाण्या दुःखिनामुद्धारकत्वेन कवीनामांश्रयदातृत्वेन, गाथासप्तशतीप्रणेतृत्वेन च सुप्रसिद्धस्य प्रतिष्ठानपुरविभूषणस्य सालाहण(सातवाहन)नृपस्य सिंहलद्वीपराजपुत्रीलीलावतीसंयोगमनुसृत्य निबद्धम् । लघीयस्यपि सुललितैषा प्राकृता कथा बाणभहस्य कादम्बर्यै स्पर्द्धते । हैमकाव्यानुशासने 'धीरशान्तनायका गयेन पद्येन वा सर्वभाषा कथा' इत्येतत्सूत्रव्याख्यायां 'काचित् पद्यमयी यथा लीलावती' इत्युदाहरणेनेयं मर्यते वा जिनेश्वरसूरिरचिताऽन्या लीलावती कथा इति स्पष्टं नावबुध्यते तथाप्यस्या निर्माण द्वादशशताब्यामथवा ततोऽपि पूर्व सम्भावयितुं शक्यते। शृङ्गारमखरी । भोजः
क्र. ३२५(१) कथासङ्ग्रहमयीयं सुरसा कथा संस्कृतभाषायां संस्कृतभाषाजीवातुना सरस्वतीकण्ठाभरणादिप्रणेना महाराजभोजदेवेन विरचितेति तदन्तर्गतैकपत्रे उल्लेखदर्शनादवगम्यते ।
व्याकरणप्रन्थाः। सं. १०८० पञ्चग्रन्थी (बुद्धिसागरव्याकरणम्) । बुद्धिसागराचार्यः क्र. १७६
अस्य रचना जावालिपुरे इत्याथेतप्रान्ते दर्शितमेव । एतव्याकरणनिर्माणस्य समसमयस्थानयोः (सं.१०८० वर्षे, जावालिपुरे) अष्टकवृत्यादिविरचयित्राऽस्य सहोदरेण जिनेश्वरसूरिणा दुर्जनवाक्यान्येतव्याकरणनिर्माणे हेतुभूतानि दर्शितानि । पञ्चग्रन्थी इत्यस्यापरा संज्ञा ज्ञायते । १ 'लीलावतीकथा भूषणभट्टसुतकृताऽऽद्यरसमिश्रिता च परसमयगता गाथाः १४३९'-६० २ "हियए चिय विलीयंति सुइरपरिचिन्तिया वि सुकईण ।
जेण विणा दुहियाण च मणोरहा कव्वविणिवेसा ॥"-लीलावती। ३ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचितायां शृङ्गारमञ्जरीकथायां देवदत्ताकथानिका पञ्चमी । अन्यच पुत्रि! महासत्त्वं महासाहसिकत्वं च सम्यगुपलभ्य आत्मत्यागेनाप्यर्थ साधयतां न दुरापाः खार्थसिद्धय इति यत्पूर्वमुक्तं तदपि ते कथयामि । अस्त्यत्र भुज(भूतलप्रसिद्धमतिविभववणिग्व्यवहकवच्च(१)प्रभृतिभिर्महा[ज नैरधिष्ठितमहिच्छत्रं नाम नगरम् । एकत्र पत्रे । ४ "तैरवधीरिते यत्तु प्रवृत्तिरावयोरिह । तत्र दुर्जनवाक्यानि प्रवृत्तेः सन्निबन्धनम् ॥
कीदृशानि दुर्जनवाक्यानीत्याहशब्दलक्ष्म प्रमालक्ष्म यदेतेषां न विद्यते । नादिमन्तस्ततो ह्येते परलक्ष्मोपजीविनः ॥
तथा च किं जातमित्याहश्रीबुद्धिसागराचार्यैर्वृत्तैर्व्याकरणं कृतम् । अस्माभिस्तु प्रमालक्ष्म धृद्धिमायातु साम्प्रतम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org