Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kabarth.org
Acharya Shri Kailassagarsun Gyanmandir
S
AR
जी. वि०
॥१८॥
ततो नियमाद् गुरुसमीपे भवन्ति, गच्छे च विहरन्ति, अथ श्रुतं भवति ततो देवता लिङ्गं प्रयच्छति गुरु समीपे वा तत्प्रतिपद्यन्ते । यदि चैकाकिविहारेच्छावन्तस्तदैकाकिन एव विहरन्ति, अन्यथा गच्छ एवासते इति । प्रत्येकबुद्धानां पुनर्लिङ्ग देवतैव ददाति,लिङ्गवजिता वा भवन्ति १२ । तथैकैकस्मिन् समये एकका एव सन्तो ये सिद्धास्त एकसिद्धाः १३। एकसमये द्वयादीनामष्टशतानांसेधनादनेकसिद्धाः । तत्राने कसमयसिद्धानां प्ररूपणार्था गाथा-"वत्तीसा अडयाला, सट्ठी बावत्तरी य बोदव्या । चुलसीई छपाउई, दुरहियमहुत्तरसयं च ॥१॥" एतद्विवरण-यदै कस्मिन्समये एकादिर्वा उत्कर्षेण द्वात्रिंशसिध्यन्ति तदा द्वितीयसमयेऽपि द्वात्रिंशत्, एवं नैरन्तर्येणाष्टौ समयान यावद्द्वात्रिंशसिध्यन्ति, तत ऊर्ध्वमवश्यमेशन्तरं भवति । एवं यदा पुनस्रथस्त्रिंशत आरभ्याष्टचत्वारिंशदन्ता एकसमयेन सिध्यन्ति तदा निरन्तरं सप्त समयान सिध्यन्ति, ततोऽवश्यमेवान्तरं भवति । एवंयदैकोनपश्चाशतमादि कृत्वा यावत् षष्टिः एकन समयेन सिध्यन्ति तदा निरन्तरं पद समयान सिध्यन्ति, तदुपरि अन्तरं समयादि भवति, एवमन्यत्रापि योज्यं । यावदष्टशतमेकसमयेन सिध्यन्ति तदाऽवश्यमेव समयाद्यन्तरं भवति इति १४ ॥ तथा बुद्धा आचार्यास्तोंधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः १५।। इत्युक्तास्तीर्थकरत्वादिभेदैः सिद्धानां पञ्चदशभेदाः ननु तीर्थकरसिद्धातीर्थकरसिद्ध रूपभेदद्वयेऽवशेषाः सिद्धभेदाः सर्वेऽप्यन्तर्भवन्ति, तत्किमर्थ शेषभेदोपादानमुच्यते ? सत्यं अन्तर्भवन्ति, परं न विवक्षितभेदद्वयोपादानमात्रात् शेष भेदपरिज्ञानं भवति विशेषपरिज्ञानार्थ चष शास्त्रारम्भप्रयासोऽतः शेषभेदोपानामिति । इत्येते जीवविकल्पाः सांसारिका असांसारिका एकेन्द्रियादयो वा संक्षेपणेति-तेषां जीवानामसङ्ख्यातानन्तत्वान्नामजातिकथनद्वारेण समाख्याता-भणिता इति गाथार्थः ॥२५॥
अथैकेन्द्रियादिजीवानां शरीरायुःस्वकायस्थितिप्राणयोनि प्रमाणानि प्रकटयन्नाह
HRISHRA
॥१८॥
For Private and Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203