________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
AA%%%
पर्वतौ दिग्गजनामानी तन्नामानि शीता नद्या उत्तरदिग्भागाद् दक्षिणावर्त्तनेन गण्यानि तानि चेमानि-पद्मोत्तर १ नील २ सुहस्त ३ अंजन ४ कुमुद ५ पलाश ६ वडंश ७ रोचन ८ इति एते कूटगिरयः स्वनामदेवा ततो मेरुमूलादुत्पत्य योजनानां पञ्चशत्या नन्दनं वनं तत्र दिक्षु चतसृष्वपि हिमवत्कूटसमानि चत्वारि सिद्धायतनानि विदिक्षु प्राग्वत् प्रासादान्विताः पुष्करिण्यस्तथाहि-नन्दोत्तरा १ नन्दा २ सुनन्दा ३ नन्दिवर्द्धनी ४ नन्दिषेणा १ अमोघा २ गोस्तूपा ३ मुदर्शना ४ भद्रा १ विशाला २ कुमुदा ३ पुंडरीकिणी ४ विजया १ वेजयंती २ जयंती ३ अपराजिता ४ अस्यां च मेखलायामष्टौ दिक्कुमारीणां कूटानि तथाहि-नंदन १ मन्दर २ निषध ३ हैमवत ४ रजत ५ रुचक ६ सागरचित्र ७ वज्र ८ नामानि । एतेष्वष्टौ दिकुमार्यो ऽवतिछन्ते । ताश्चेमाः-मेघकारा १ मेघवती २ सुमेघा ३ मेघमालिनी ४ तोयधरा ५ विचित्रा ६ वारिषेणा ७ बलाहकेति ८ एता देव्यो जिनजन्मनि मेघवां विदधति । तथैशानकोणे सहस्रयोजनोच्छ्राय विस्तारमुपरिष्टादायाम बलकूटं स्वनामदैवतं तच्च पश्च योजनशतानि नन्दनवनाद् बहिनिःसृतमुक्तं च--
नंदणवणं रुंभेत्ता पंचमए जोयणाई नीसरिउ । आयासे पंचसए रुंभेत्ता ठाइ बलकूडो ॥ ततो द्विषष्टिसहस्राणि पञ्चशताधिकानि योजनानामुपरिष्टादारुह्य सौमनसं वनं नन्दनवनसदृशं केवलं कूटानि तत्र न सन्ति वाप्यो यथा-मुमनाः १ सौमनसा २ सौमनान्ता ३ मनोरमा ४ उत्तरकुरु १ देवकुरु.२ वीरसेना ३ सरस्वती ४ विशाला १ माघभद्रा २ भयसेना ३ रोहिणी ४ भद्रोत्तरा १ भद्रा २ सुभद्रा ३ भद्रवती ४ शेपं तथैव ततः पड्विंशत् सहस्राणि योजनानामुपरि गत्वा सौमनसविशिष्टं पण्डकवनं तद्विस्तारः सहस्रयोजनानि बहुमध्यदेशभागे चूला चास्य सा उपर्यधो द्वादशचतुर्योजनायामा
%
ARS
For Private and Personal Use Only