Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 192
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org हरिकूट - हरिसहकूटे, ते गिरिकूटप्रस्तावे सप्तपष्टयधिक चतुःशतकूटमध्ये पठिते । तत इयं अडवनधरणिकूडा इति पाठो युक्तः । एतदर्थमाह-इत्युक्तप्रकारेण धरणिस्थानि कूटानि धरणि कूटान्यष्टापञ्चाशद् भवन्ति । तथा च यद्यपि भूमिस्थिताः शिलोच्चयाः पर्वत भण्यन्ते तथाऽप्येषां क्षेत्रसमासादिषु कूटानीति संज्ञा । इयं गाथा पुराण पुस्तकेषु न दृश्यते परमुपयोगिनीति कृत्वा व्याकृतेति गतं पञ्चमं पर्वतद्वारम् ||१७|| अधुना पष्ठं तीर्थ संख्यामाह Acharya Shri Kailassagarsuri Gyanmandir मागह वरदामप्रभास, तित्थ विजएसु एखयभरहे । चउतीसा तीहि गुणिया, दुरुत्तरसयं तु तित्थाणं ॥ १८ ॥ माहेति । मागधव वरदाम च प्रभासच मागधवरदामप्रभासास्त एव तीर्थानि मागधवरदामप्रभासतीर्थानि प्राकृतशैल्यात् सूत्रे विभक्तिलोपः । तथा तीर्थशब्दः प्रत्येकं सम्बन्धनीयस्तेन मागधतीर्थ १ वरदामतीर्थं २ प्रभासतीर्थं ३ चेति क्व चैतानि सन्तीत्याह - विजया महाविदेहमध्यवर्त्तिनः खण्डविशेषास्ते च सर्वसङ्ख्यया द्वात्रिंशत् तेषु तथा ऐरवतं च भरतं चेति समाहारद्वन्द्वस्तस्मिन्नैरवतभर ते श्रोतारमनुलक्ष्य चरमे प्रथमे च क्षेत्रे सन्तीति शेषः । उत्तरार्द्धन सर्वसङ्क्षयानयनाय करणमाह - चउती सेत्यादि तीर्थानां सर्वाग्रे द्वाभ्यामुत्तरमधिकं शतं दशदशकलक्षणं द्वयुत्तरशतं । तुः पादपूरणे । भवतीत्यध्याह्रियते कथमित्याह - चतुर्भिरधिका त्रिंशत् चतुस्त्रिंशत्, त्रिभिर्गुणिता गुणकार विषयीकृता सतीति गांथार्थः ॥ १८ ॥ अथ सप्तमं श्रेणिद्वारमाचिख्यासुराह विज्जाहर अभिओगिय, सेढीओ दुन्नि दुन्नि वेयड्ढे । इय चउगुण चउतीसा, छत्तीससयं तु सेदीर्णं ॥ १९ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203