Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 194
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir बनाकर महदहेत्ति। पद्मो हिमवद्भिरिशिरःस्थं आदिर्येषां ते पद्मादयः छेति षट्सङ्ख्याकाः आदिग्रहणान्महापद्मतिनिच्छिकेसरिमहापुण्डरीकपुण्डरीकाणां ग्रहः । क एते ? इत्याह-महदहत्ति । महते इतरहूदापेक्षया गुरुका हुदा नदा महाहूदाः तथा कुरवो देवकुरव उत्तरकुरवश्च तेषु दश सङ्ख्या मानमेषां दशकं हूदानामिति गम्यते पंच ह्रदा देवकुरुषु चेत्यर्थः । अथ सर्वाग्रमाह-समासप्राग्वत् षोडशकमिति मिलिताः सर्वेऽपि षोडश इह भवन्तीति ॥२०॥ इदानी दशमं नदीद्वारमाहगंगा सिंधु रत्ता, रत्तवई चउ नईओ पत्तेयं । चउदसहि सहस्से हिं, समगं वच्चंति जलहिम्मि ॥२१॥ गंगे त्ति । गङ्गा सिन्धु रक्ता रक्तवत्यः प्रागुक्तस्वरूपाश्चतस्रश्चतुःसङ्ख्याका नद्यो सरितः प्रत्येकं पृथक् पृथक चतुर्दशभिश्च| तुर्दशभिनंदीसहस्रैः सममेव समकं सार्द्ध जलधिं व्रजन्ति प्रविशन्तीति यावत् ॥२१॥ एवं अभितरिया चउरो पुण अट्ठवीससहस्सेहिं । पुणरवि छप्पन्नेहिं सहस्सेहिं जंति चउसलिला ॥२२॥ ___ एवं अभितरये त्ति । एवमित्यनेन प्रकारेण यथा एता गङ्गाद्या एकप्रमाणाश्चतस्रो जलधि प्रविशन्ति तथाऽभ्यन्तरं गच्छन्तीत्यभ्यन्तरगाः, मध्यवर्त्तिन्यश्चतस्रो नद्यो रोहितांशा रोहिता रूप्यकूला सुवर्णकूला लक्षणाः, पुनर्विशेषणे किं विशिनष्टि ? तदाहप्रत्येकमष्टाविंशत्याऽष्टाविंशत्या नदीसहस्रैःसमन्विता जलधि प्रविशन्तीति प्राच्यगाथा सम्बन्धोऽध्याहार्यः । तत्र रोहितांशा रोहिते हेमवत्क्षेत्रं रूप्यकूला सुवर्णकूले तु हैरण्यवतं च मध्येकृत्य प्रवहन्ति । तन्मध्यवर्तिनीनां पुनराधिक्यं दर्शयति-पुणरवीत्यादि । पुनरपि प्रागुक्तनदीभ्यो मध्यगामिन्यश्चतस्रो हरिकान्ता हरित्सलिला नारिकान्ता नरकान्ताभिधानाः सरितः पृथक् पृथक् पट्पश्चाशता कारापमा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203