Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandir
SHADARSHABAEHEAA53
अथ चतुर्विशतिदण्डकेषु चतुर्विशतिद्वाराणि निरूपपन्नाह| चउ गम्भतिरियवाउसु, मणुआणं पंच सेस तिसरीरा। थावर चउगे दुहओ, अंगुलअसंखभागतणू ॥५॥
(अव०) 'दुव्ययणे बहुवयण' मिति प्राकृतलक्षणेन गर्भजतिर्यक्वायोश्चत्वारि शरीराणि सम्भवन्ति, सम्भवश्च न भवन्त्येवेति का निश्चयः, एवं सर्वत्रापि ज्ञेयम् । आहारकत्यागेन कदाचित्तयो क्रियकरणेन चतुर्णा सम्भवः, मनुष्याणां पञ्चापि । शेषा दण्ड
कास्त्रिशरीरा औदारिकयुक्ताभ्यां च तैजसकार्मणाभ्यां । १ । स्थावरचतुष्के पृथिव्यप्तेजोवायुरूपे 'दुहतोत्ति' द्वाभ्यां प्रकाराभ्यां जघन्योत्कृष्टरूपाभ्यां अङ्गुलासंख्येयभागानि शरीराणि, यद्यपि वादराणां वाताग्न्यप्पृथिवीनां शरीराणि मिथोगुलासङ्ख्येय गुण वृद्धानि तथापि यथोक्तमानान्येव ॥५॥
(टीका)-चउगम्भेत्ति० गर्भजतिर्यग्यायोश्चत्वारि औदारिकवैक्रियतेजसकार्मणलक्षणाणि शरीराणि भयन्ति, भवन्तीत्यध्या- 10 हारः। " दुवयणे बहुवयणमिति" प्राकृतलक्षणेन (द्वित्वेऽपि बहुवचनं ) गर्भजतिर्यग्वायोश्चत्वारि शरीराणि सम्भवन्ति, संभव एव न निश्चयेन । आहारकत्यागेन वैक्रियकरणेन च चतुण्णां संभवः । 'मणुआणं पञ्चेति०' मनुष्याणां पश्चऔदारिकवैक्रियआहारकतैजसकार्मणलक्षणाः शरीराः स्युः । सेसेति० शेषेषु दण्डकेषु त्रीणि शरीराणि भवन्ति, तान् दण्डकान् विस्तरेणाह-त्रयोदश देवानां सप्तपृथिवीभेदेनैकः नैरयिकाणां सर्वमीलनेन चतुर्दश दण्डकाः जातास्तेषु त्रयो वैक्रियतैजसकार्मणलक्षणाः शरीरा भवन्ति । तथा पृथिव्यप्तेजोवनस्पतीनां चत्वारः पञ्चमो द्वीन्द्रियाणां षष्ठस्त्रीन्द्रियाणां सर्वमीलनेन सप्त दण्डका जातास्तेषु त्रीणि औदारिक
ABPMACHAR
For Private and Personal Use Only

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203