Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 197
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज. टीका ॥१८॥ SHADARSA सलिलाओं' इति वचनात् ततो द्विगुणोऽष्टाविंशतिनदीसहस्रलक्षणः प्रत्येकमासां परिवारो न्याय्यः । आह चोमास्वाति वाचक नद्यो विजयच्छेदिन्यो रोहितावत् च कुण्डद्वोपाः स्वनामदेवीवासाः अष्टाविंशति नदीसहस्रानुगाः प्रत्येकं सर्वसमाः पञ्चविंशत्यधिक योजनशतं विस्तृताः अर्द्धतृतीययोजनावगाहाः ग्राह हृदपङ्कवत्यादि। अतः षण्णामप्येतासामष्ट षष्टिसहस्राधिकं लक्षमेकं सरितः परिवारः। तथा पञ्चलक्षाणि सद्वात्रिंशत् सहस्राणि पुनः सकुरूणां विजयानामन्त दीरहितानां भवन्ति एवं राशिद्वयस्य मीलने पूर्णानि सप्तलक्षाणि सरितः एतावत्य पवापर विदेहे देवकुरुसमन्विते ततः समस्तमहाविदेहे चतुर्दशलक्षाणि १४००००० सलिलाः। पुनःस्त्रीणि लक्षाणि नवति सहस्राधिकानि भरतादीनां शेषाणां पटक्षेत्राणां एवं सर्वाङ्के सप्तदशलक्षाणि द्विनवतिसहस्राधिकानि १७९२००० नधो भवन्तीत्युक्तं च सूत्रे चउदसलक्खा छप्पन्नसहस्स जंबुदीवम्मि । हुंति उ सत्तरसलक्खा बाणवइसहस्ससलिलाओ ॥ इति तथा सिद्धान्तानुसारेण पुनरेवं ज्ञायते यन् ग्राहयन्यादीनां द्वादशनदीनां परिवारो न सम्भवति । यत एतद्व्यतिरिक्ता जम्बूद्वीपे या अन्याः सरितः सन्ति तासां प्रवाहात् मुखे सर्वामां दशगुणो विस्तारः सुप्रतीतब उक्तं च वाचकमुख्येन सर्वा नद्यः प्रवाहः दशगुणे मुखे विस्तार पश्चाशद् भागावगाहा इति । एतासां तु तथा न किन्नु प्रवाहमध्ये मुखे चैकरूपः पञ्चविंशत्यधिकयोजनशतलक्षणः प्रत्येकंविस्तार: नान्यः कश्चिद्विशेषो न च परिवारोऽप्यासा दृश्यते क्षेत्रसमासवृहबृत्यनुसारेण अतःप्रतीयते यद्येतास्वन्या अनेकानि सहस्राणि नद्यः प्रविशेयुः तदा कर्थ क्रमेण परतः परतो गच्छन्तीनां विस्तारविशेषो गङ्गादीनामिव न सम्पद्यतेति । अन्यच्च पूर्व विदेहे भद्रशालवनसमीपवर्तिनोः कच्छमङ्गलावतीविजययोस्तथा मुखवनोपकण्ठस्थयोः पुष्कलावतीवच्छनाम्नोश्च ॥१८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203